Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 66
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र महाकाव्यम् सर्ग:४ ॥ ६४॥ स्थूलपूगीफलान्याशु दलीकृत्य समांशतः । सान्द्रचन्द्रोदकेनार्दीचक्रिरे तनियुक्तकाः ॥ १२ ।। प्रत्यग्रेर्नागवल्लीनां, विशालैः संदलैर्दलैः । ववन्धुर्थीटकान्युश्च-स्तद्व्यापारनियोगिनः ॥ १३ ॥ कस्तूरिकाकुल्कुमचन्दनानां, कर्पूरपूरेण विमिश्रितानाम् । विलेपनैबिभ्रति भाजनानि, केचिन्नरास्तद्विषये नियुक्ताः॥१४॥ एवंविधं तृतीयाया, भूमेः पीठं व्यलोकयत् । चतुर्थी रिष्टसोपाना-मारोह भुवं नृपः ॥ १५ ॥ तत्र प्रधानलोकानां, विशालाः स्वापमण्डपाः । चक्षुर्मनोहरैश्चित्रै-श्चित्रिताश्चित्रकर्मभिः ॥ १६ ॥ आकीर्णा वर्यपर्य–विस्तीर्णैर्विविधैस्तथा । नवनीतमृदुस्पर्श-हंसतूल्युपधानकैः ॥ १७ ॥ कान्तरत्नमयस्तम्भा, वैडूर्यमणिकुहिमाः। विरेजिरे निर्जराणा-मुपपातगृहा इव ।१८ात्रिभिर्विशेषकम् उपवेशनशालाश्च, स्पष्टस्फाटिकवेदिकाः । रत्नसिंहासनस्वर्णपादपीठोपशोभिताः ॥ १९ ॥ नानामणिशिलाबद्ध-विशालधरणीतलाः । निर्जराणां महास्थान-समा इव वभुस्तराम् ॥२०॥युग्मम् द्वीपान्तरागतैः सूर्य-नूनं द्रष्टुं गृहश्रियम् । रेजुः प्रत्याहतस्वर्ण-स्थाले जनमण्डपाः ॥ २१ ॥ रूप्यस्वर्णादिनिवृत्त, रम्यैः कचोलकादिभिः। आसनैर्विविधैश्चापि, तेऽभितो रेजिरे तदा ॥ २२ ॥ रनकाञ्चनसोपानं, । जात्यस्वर्णमहीतलम् । शातकुम्भमयस्तम्भ-न्यस्तवैडूर्यतोरणम् ॥ २३ ॥ पद्मरागेन्द्रनीलादि-मयाईद्विम्बभूषितम् । गृहस्योत्तरपूर्वस्या, वर्तते चैत्यमन्दिरम् ॥२४॥युग्मम्।। मण्डीकृत्य समभागेन. २ गाढकर्पूररसेन. ३ तमालपत्रसहितः, ४ पक्तिस्थापितसुवर्णस्थालेः. ५ शातकुम्भ सुवर्णम. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117