Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 57
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र॥ ५५ ॥ www.kobatirth.org ॥ अथ श्रीचतुर्थः सर्गः प्रारभ्यते ॥ अथान्यदा पुरे तत्र, ग्रीष्मर्त्तावपि शीतलान् । उष्मलानपि शीत, वातपित्तकफापहान् ॥ १ ॥ षट्खण्डभरतस्वामि — स्त्रीरत्नसदृशान् बहून् । वरेण्यानतिविस्तीर्णा - नजीर्णान् रत्नकम्बलान् ॥२॥ सत्पुण्यनर भोगाह - नेपालविषयोद्भवान् । लाभार्थिनः समादाय, वणिजः केचनाययुः । ३ । त्रिभिर्विशेषकम् रत्नकम्बलहस्तास्ते, प्रत्यहं प्रतिमन्दिरम् । विक्रेतुं वणिजस्तत्र, नगरे परिवभ्रमुः ॥ ४ ॥ तेभ्यो नैकोsपि केनापि, जगृहे धनिनाऽपि हि । महामूल्यपदार्थानामथिनो विरलाः खलु ॥५॥ ततः श्रेणिकराजस्था-सीनस्यास्थानमण्डपे । सुधर्मायामिवेन्द्रस्यो- पतस्थुर्वणिजः किल ॥ ६ ॥ ततः प्रणम्य पादौ ते, श्रेणिकस्य महीपतेः । सादरं दर्शयामासुः सनत्तान् रत्नकम्बलान् ॥ ७ ॥ श्रेणिकोऽपि वणिग्व-नववीसृष्टमानसः । भो भो भद्राः किमेतेषां मूल्यं कथयत द्रुतम् ||८|| एवमाज्ञापिता राज्ञा, ते क्षणेन विचक्षणाः । एकैको लक्षमूल्योऽय - मिति राज्ञे व्यजिज्ञपन ॥९॥ तच्छ्रुत्वा चकितो भूपः प्राह भो रत्नकम्बलान् । महार्घानिह युष्माकं ग्रहीतुं कः क्षमो जनः |१०| इति राज्ञा विसृष्टास्ते, विमनस्का वगिग्वराः । सभातो निर्ययुः कृत्यं, किमन्यत्पर्वणीदृशे ॥ ११ ॥ किं कुर्मः कुत्र गच्छामो, दर्शयामोऽत्र कस्य वा । इति चिन्तयतां तेषां मनस्येवमभूत्तदा ॥ १२ ॥ १ श्रेष्ठान् २ नूतनान् १ प्रस्तावे For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्गः ४ ॥ ५५ ॥

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117