Book Title: Dhanya Shalibhadra Mahakavyam Author(s): Purnabhadra Gani Publisher: Jindattasuri Gyanbhandar View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandi धन्यशाली महाकाव्यम् 5 सर्गः १ ॥७ ॥ प्रसाध्य पायस माज्यं, स्थाले चिक्षेप तस्य सा । उपरिष्टाद घृतं खण्डं, गृहमध्येऽविशत्ततः ॥७॥ अस्मिंश्चावसरे तत्र, गुप्तित्रयपवित्रितः। ज्ञानदर्शनचारित्र-रत्नत्रितयभूषितः ।। ७२ ॥ ईर्यासमितिसम्पन्नो, मासक्षपणपारणः (णे)। नाम्नापि सुस्थितः साधु-गजगाम क्षमानिधिः ।७३।युग्म तं तथा मुनिमालोक्य. यालो रोमाश्चमुद्रहन् । विकसबदनाम्भोज-चिन्तयामास हृद्यसौ ॥ ७४ ।। अहो वृष्टिरनभ्रेयं, मरौ सकमलं सरः । आययौ यदयं साधु-मम दृष्टिपथेऽधुना ।। ७५ ।। तन्मन्ये मम भाग्यानि, जागरुकाणि साम्प्रतं । किमपुण्यवतो गेहे, कल्पवृक्षः प्ररोहति ? ।। ७६ ॥ यतः-सत्पात्रं महती श्रद्धा, काले देयं यथोचितं । धर्मसाधनसामग्री, धन्यस्येयं प्रजायते ॥ ७७ ॥ पायसं श्रेयसे स्वस्य, तस्मादस्मै महात्मने । प्रयच्छामीदमेवाह-मिति संचिन्तयंस्ततः ॥ ७८ ॥ उत्तस्थौ स्थालमादाय, मुदाऽसावब्रवीदिदम् । भगवन्ननुगृह्णीष्व, पायसग्रहणेन माम् ॥७९॥ ततोऽसौ सुस्थितः साधु-रेषणागतमानसः । द्रव्यादिपूपयुक्तात्मा, पतंदग्रहमधारयत् ॥ ८ ॥ कृतार्थोऽस्मीति चित्तेन, भावनां भावयन्नसौ । सत्पात्राय ददौ तस्मै, सम्पूर्णमपि पायसम् ।। ८१ ॥ नत्वा तेन विमृष्टोऽसौ, लोल्यादिपरिवर्जितः । स्वस्थानं सुस्थितो गत्वा, बुभुजे भोजनं मुनिः ।।८२॥ निर्निदानेन दानेन, तेन पुण्यानुवन्धिना । चमत्कारकरान् भोगा-नर्जयामास बालकः ॥ ८ ॥ १ पात्रम् For Private and Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 117