Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 50
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir धन्यशाली भद्र॥४८॥10 महाकाव्यम सर्गः३ || ४८॥ J भद्रयासनदानायै-स्ते कृतप्रतिपत्तयः । कन्याद्वात्रिंशतं दातुं, तामयाचन्त सूनवे ॥ ३८॥ दृढमीतमना भद्रा, पुरस्तेषाममम्यत । विवाहं शालिभद्रस्य, कन्याभिर्युगपदभृशम् ॥ ३९॥ विशालकुलसम्भूता, विश्रुद्धतरजातिकाः । प्रोट्रिनोदग्रतारुण्या, वर्यसौन्दर्यशालिनीः ।' ४०॥ राकानिशाकराकारा-नना नलि नंलोचनाः । सत्कुन्दकलिकादन्ता, इभकुम्भपयोधराः ॥४१॥ चचदलित्रयोपेता, वज्रमध्यतनूदराः । रम्भास्तम्भोपमानोरू-स्त्रिदिवेशवधूपमाः ॥४२॥ द्वात्रिंशतमिमाः कन्याः शालिभद्रेणसादरं । पर्यणाययदेकत्र, लग्ने भद्राप्रमोदतः॥४३॥चतुभि:कलापकम् गोभद्रजीवदेवोऽथ, विबुध्यावधिना सुतम् । बात्रिंशतेभ्यकन्याभिः, कृतपाणिगृहोत्सवम् ॥४४॥ शीघ्रं भवनवासिन्यो, देवेभ्यः सपरिच्छदः । मुनिदानार्जितागण्य-पुण्याकृष्टः समाययो ।४५/युग्मम् रम्यं विस्तीर्णमुत्तु प्रासादं सप्तभूमिकं । स चक्रे शालिभद्रार्थ, सुरप्रासादसन्निभम् ॥ ४६॥ तत्राधभूमिकाधस्ता-दश्वेभकरभादिकाः । यध्यन्ते यत्र धार्यन्ते, शकटस्यन्दनादयः ॥ ४७ ॥ प्रांशुरनमयस्तम्भा, विस्तीर्णायतसत्तलः। यानशाला विशालास्ता-श्चक्रेऽसावसुरेश्वरः ॥ ४८ ॥ मञ्जिष्ठादीनि भाण्डानि, स्थाप्यन्ते यत्र सर्वदा । ऊर्ध्वमादिभुवश्चक्रे, स शालास्तत्र बन्धुराः ॥४९॥ द्वितीयायां पुनर्भूमो, दासीदासादिसंहतेः । भोजनादिक्रियास्थाना-न्यतिरम्याणि स व्यधात् ॥ १कमलाक्षीः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117