Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 52
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली महाकाव्यम् | सर्गः३ ॥५०॥ चक्रे पर्यङ्कमेकैकं, तूलिकाथुपशोभितम् । प्रत्येकं च कलत्राणां, खोत्पादशयनोपमम् ॥ ६५॥ सप्तम्यां भूमिकायां च, ममृणं मणिकुटिमम् । निर्ममेऽसौ सुराधीशो लीलाचक्रमणोचितम् ६६ चक्रे नाभिप्रमाणां च, वेदिकां सर्वतोऽपि सः । रत्नजालान्तरोपेतां, जगतीवेदिकोपमाम् ॥७॥ तस्याश्चोपरिसदवृत्तान , स्फाटिकान्कपिशीर्षकान् । शालिभदास्यशोभांस्तान , बाह्यचन्द्रानिवागतान पुण्याकष्टोऽप्सुरोऽस्मे स वितरति वरं प्रत्यहं चाङ्गरागं, वस्त्रालङ्कारपुष्पाण्यमृतरसफलाहारमग्यं ततश्च । निर्विघ्नं क्रीडति स्म त्रिदशपतिरिव प्रेयसीभिः सदाऽसौ , भद्रा व्यापारमन्यं स्वयमपि सकलं गेहसत्कं चकार ॥१९॥ अथेभ्यतनयो धन्यो, भोजनानन्तरं सुधीः । समादाय च ताम्बूलं, वातायनमुपाविशत् ॥ ७० ॥ यावत्पश्यति तत्रस्थः, पुरश्रियमसौ ततः । ददर्श खगृहच्छायो-पविष्टं वृद्धयोर्युगम् ॥ ७१ ॥ तच्चाहाराधभावेन, कृशं विच्छायतांगतम्। ग्रीष्मतप्तं मृगद्वन्हें, वृक्षच्छायामिवाश्रितम् ॥ ७२ ॥ आदियुग्मम् ।। ततः सोऽचिन्तयदहो, अनौचित्यं विधेरदः । स्वकुक्षिभरणाशक्ता-श्चिरञ्जीवन्ति यनराः ॥ ७३ ।। अथवा न विधेर्दोषो, दोषः खल्वनयोरयम् । तारुण्येऽपि तपस्तप्त, यन्न मुक्त्वा गृहाश्रमम् ॥७॥ अथवा नानयोर्दोषो, दोषोऽत्र श्रीमतामयम् । एवंविधानपीक्षित्वा, यद भृशं नोपकुर्वते ॥ ७ ॥ किश्चामू पश्यतो दृष्टि-मम लियति सादरम् । दृष्टपूर्वाविवैतौ मे, मनः सुखायतोऽधिकम् ॥७६॥ इत्यसौ चिन्तयन्नेवो-पलक्ष्य पितराविति । अत्यन्तं पीडितश्चित्ते, संस्मृत्य विभवं तयोः ॥ ७७ ॥ कापखालालकर For Private and Personal Use Only

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117