Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्यशाली
महाकाव्यम् सगें:१
॥१४॥
॥१४॥
पितरौ तानवादिष्टां, भोः पुत्राः पुण्यवानयम् । इभ्यत्वं नाममात्रेण, समभूत्प्रथमं हि नः ॥१५॥ साम्प्रतं पुनरेतस्य, पुण्याख्यस्यानुभावतः । सार्थकं वयमिभ्यत्वं, प्राप्ता लक्ष्मीप्रवर्द्धनात् ॥५६॥ ततोऽवोचन्त ते लक्ष्मीः , पुण्यैः कस्यापि वर्द्धते । इति ज्ञानादृते सम्यक ज्ञातुं न खलु पार्यते ।५७। पिताह स्वं परीक्षध्वं, पुण्यं प्रत्येकमेव भोः। द्वात्रिंशतं समादाय, रूपकाणामिमा सुताः ॥५८॥ रूपकाणि गृहीत्वा ते, ययुर्विपणिवीथिकाम् । निजपुण्यं परिज्ञातुं, कुर्वते क्रयविक्रयान् ॥ ५९॥ वक्रोदरयहच्छंगं, बलिष्ठं कर्कटेक्षणं । वृत्तग्रीवं महामेष, श्वेतं मांसलविग्रहम् ॥६॥ उज्वलैश्चित्रितं दृष्ट्वा, वर्णकैगैरिकादिभिः। जग्राह तत्र मूल्येन, धन्यस्तैरेव रूपकैः ॥ ६१ ॥युग्मं।। तत्रारूढः स तेजस्वी, बिभ्राणः काञ्चनश्रियम् । यथा वहिदिशः स्वामी, राजमार्गमवातरत् ।। ६२॥ तत्राभिमुखमागच्छन् , जितशत्रुमहिपतेः । कुमारो राजपालाख्यो, नीतिमानब्रवीदिदम् ॥ ६३ ॥
श्रेष्ठ्यङ्गज त्वं निजमेनमेडकं, किं योधयस्युन्मदमुग्रतेजसा । ममैडकेनेति जगाद धन्यको, भवत्विदं किन्तु पणो विधीयताम् ।। ६४ ॥ यस्यैडको जेष्यति तेन लभ्यः, पणो(णे)ऽत्र दीनारसहस्रमेकम् ।
एवं भणित्वोपवनं गतौ तौ, सकौतुकोत्तालजनेन युक्तौ ॥ ६५॥ १ अस्माकम्. २ कर्कटो जीवविशेषः तस्य नेत्रमिव नेत्रं यस्य.
For Private and Personal Use Only

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117