Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
د
धन्यशाली
महाकाव्यम् 16 सर्गः१
॥१३॥
الالحا
अन्येभ्यो भट्टचहादि-याचकेभ्यो यथोचितम् । दानं ददावसौ सन्तो नोचितस्थितिभेदिनः ॥ ४२ ॥ एवं स्थितिकृतस्तस्य, दिनानि व्यतिचक्रमुः। एकादश ततः प्राप्ते, द्वादशे दिवसे मुदा ॥ ४३ ॥ इभ्यस्ततो विधायाशु-विशुद्धिं मृतिकर्मणः । बन्धूनाविधैर्भोज्यै- जयामास भक्तितः ॥ ४४ ।। ततः सुखासनस्थेभ्यः, स्वजनेभ्यो वितीर्य सः । नानावस्त्राणि ताम्बूलं, तत्पुरः सोऽब्रवीदिदम् ।४५। । गर्भस्थितेऽप्यवर्द्धन्त, धनधान्यादिकाः श्रियः। नाले निखन्यमाने च, भूमौ विवरमध्यतः ॥ ४६ ।। आविगसीन्निधिभूरि-दीनारपरिपूरितः यतोऽस्मि(स्म)न्मन्दिरे बाल-स्तस्माद्धन्योऽस्तु नामतः।४७ अवक्रः सर्वथाप्येष, वर्द्धमानो दिने दिने । बभूवोपचितश्चित्रं, द्वितीयाचन्द्रमा इव ॥ ४८ ॥ अथाष्टवार्षिकस्यास्य, कलाग्रहणयोग्यताम् । विज्ञायेभ्योऽर्पयामास, कलाचार्याय तं सुतम् ॥ ४२ ॥ धन्योऽप्यावर्जयामास, प्रज्ञया विनयेन च । अतिपाठादरेणापि, कलाचार्यस्य मानसम् ॥५०॥ कलाचार्योऽपि यत्नेन, तथासौ तमपीपठत् । यथा स स्वल्पकालेन, जग्राह सकलाः कलाः ॥५१॥ सीमन्तिनीजनमन:-कैरवाकरशीतगुः। सर्वकार्यक्षमं धन्यः, क्रमेण प्राप यौवनम् ॥५२॥ बहुमानो विशेषेण, तस्मिन्पित्रोरजायत । सत्स्वप्यन्येष्वपत्येषु, तौ हि तदगुणवेदिनौ ॥५३॥ ईर्ष्या विदधिरे पुत्रा, धनचन्द्रादयस्ततः । अपत्यत्वे समानेऽपि, विशेषोऽत्र किमित्यहो ॥ ५४॥
१ द्वितीयाचन्द्रो वक्रः सन् वर्धते, अयं तु अवक्रः सन् वर्धते इत्याश्चर्यम्. २ वशीचकार. ३ शीतगुः चन्द्रः
اور المشاهير الهلال
For Private and Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117