Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 25
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र ॥ २३ ॥ www.kobatirth.org पं त्यक्त्वाssसने स्थित्वा, भद्रा पञ्चनमस्कृतिम् । उदैरंयदुदारेण, स्वरेणालस्य वर्जिता ||३८|| ततः स्वप्रमनुस्मृत्या-भ्युत्थाय गतसंभ्रमा । हंसगत्यनुकारिण्या, गत्याऽऽगात्पत्युरन्तिकम् ॥ ३९ ॥ युग्मम् तैस्तैर्मनोमहानन्द - दायिभिर्मधुरैः स्वरैः । पतिं सा बोधयामास, कोकिलालापकोमलैः ॥ ४० ॥ स्वामिन् वासगृहे सुसा, स्वप्नेऽपश्यमहं निशः । पश्चिमे प्रहरे शालि-क्षेत्रं भूरिफलान्वितम् ॥४१॥ स्वप्नस्य तदिहैतस्य विशिष्टं किं फलं मम । भविष्यत्यनवद्यस्य, प्रसद्य प्रतिपादय ॥ ४२ ॥ हृष्टः प्रोवाच गोभद्रो, भद्रां भद्राकृतिः सुधीः । प्रिये! स्वप्नस्त्वयाऽलाभि, भद्रो भद्रेभगामिनि ॥ ४३ ॥ सर्वाङ्गसुभगो भोगी, भाग्यवान् श्रिय आश्रयः । स्वप्नस्यास्य प्रभावेण, सनुस्तव भविष्यति ||४४ ॥ इति भर्तृवचः श्रुत्वाऽवद्भद्रा कृताञ्जलिः । यथाssस्थे त्वं तथा नाथ, भूयादवितथं मम ॥ ४५ ॥ इत्युदित्वा ततो भद्रा, प्रमोदभरनिर्भरा । बबन्ध शकुनग्रन्थि, प्रत्यक्षं भर्तुरेव हि ॥ ४६ ॥ स्वस्थानमेव रात्र्यन्तं जाग्रती साऽयवाहयत् । सत्कथाभिः पवित्राभि-गुरूणामहतामपि ॥ ४७ ॥ ततः प्रभृति दधे सा, गर्भमन्यूनलक्षणम् । मुक्ताशुक्तिपुटीबोचे - मुक्ताफलमनुत्तमम् ॥ ४८ ॥ भद्रायाः सान्द्र भद्रायाः, सुभगं भावुकान्यथ । गर्भानुभावतः सर्वा व्यङ्गोपाङ्गानि जज्ञिरे ॥ ४९ ॥ आपाण्डुरस्फुरद्गण्ड —स्थलं वदनमण्डलम् । शरदुतेजितज्योति - चन्द्रविम्यश्रियं दधौ ॥ ५० ॥ १ अगणयत्. २ कथय ३ वदसि ४ न विद्यत उत्तमं यस्मात् सर्वोत्तममित्यथ: ५ अति कल्याणवत्याः ६ सौभाग्यवन्ति. For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्गः २ ॥ २३ ॥

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117