Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 37
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली 4 महाकाव्यम् सर्ग:२ JI||३५॥ ततश्च सोऽवधिज्ञान-प्रयोगमकरोत्तदा । यावदम्भोधिमध्ये स्वं, भिन्नपोतमबुध्यत ॥ ८९॥ तरन्तं चैक्षताम्भोधौ, कार्य मीनमिव स्वकम् । ददर्श च गृहे भार्या, प्रसूतोत्तनवासकाम् ॥ ९ ॥ मुनिदानार्जितागण्य-पुण्यावर्जितचेतसः । तस्य प्रादुरभूत्स्नेहो, महीयानङ्गजे निजे ॥११॥ अत्रान्तरे च भद्रायाः, केनाप्येत्य निवेदितम् । गोभद्रः पञ्चतामाप्तः, पोतभङ्गेऽम्बुधाविति ॥ ९२ ॥ वचसा तेन सा सद्यः, पपात भुवि मूर्छिता । दष्टा भुजङ्गमेनेव, कालदारुणमूर्तिना ॥ १३ ॥ बन्धुभिर्लम्भिता सज्ञां, प्रयोगैश्चन्दनादिभिः। नरेन्द्ररिवं सद्योगै-महामन्त्रौषधादिभिः ॥१४॥ ततश्च विललापैवं, भद्राऽतिकरुणस्वरम् । त्वया कि मे हृतो भर्ता, रे दैवात्यन्तनिघृण ॥१५॥ हा नाथ रजनीनाथ-वदानन्दप्रदायिनः । अकाण्डमृत्युस्ते कोऽयं, सर्वस्यापि भयङ्करः ॥१६॥ ममोपरि कृपा नास्ति, यदि ते क्रूरकर्मणः। रे दैव तत्किमेतस्मिन् , बालकेऽपि न विद्यते ॥९७ ॥ मुक्तकण्ठं महाक्रन्दं, साश्रुपातं च कुर्वती । श्रेष्ठिनी पातयामास, बन्धून शोकमहार्णवे ॥२८॥ अन्येषामपि बन्धूनां, प्रत्येक क्रन्दनात्तदा । रसान्तरतिरस्कारि-शोकाद्वैतमिवाभवत् ।।९९ ॥ अर्हचक्रिवलाराति-बलाच्युतमुखा अपि । हतकेन कृतान्तेन नीयन्तेऽन्त हहा हठात् ॥ ॥२०० अकस्मादापतत्येष, मृत्युः सर्वशरीरिणाम् । अतः सद्धर्मकर्मव, सदा कार्य विवेकिभिः ।। २०१॥ १ विषयः २ बलारातिः इन्द्रः. ३ अच्युतो वासुदेवः. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117