Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 41
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली महाकाव्यम् सर्गः ३ ॥ ३९ ॥ ॥३९॥ सुवेषाकृतिसंस्थानान्, सोऽपश्यन्ननलकृतान् । दिवः समागतान देवा-निव द्रष्टुं पुरश्रियम् २६ पश्यन्नेवं पुरं रम्यं, भ्रष्टस्वःखण्डसन्निभम् । समं कुसुमपालेन, धन्धस्तद्गेहमाययौ ॥ २७ ॥ ततः कुसुमपालोऽपि, प्रोवाच प्रेयसीं निजाम् । प्रिये प्राघूर्णकः पुण्यवानयं गुणवानिति ॥ २८ ॥ अतः स्नानादिकां काय-स्थितिमेनं महामतिम् । कारयित्वा महत्या च, प्रतिपत्याशु भोजया२९।युग्मम् बकुलश्रीस्ततो हृष्ट-चित्सा धन्यस्य सर्वदा । सर्व सम्पादयामास. मातेवात्यन्तवत्सला ॥ ३० ॥ अचिन्त्यधामा निश्चिन्त-मानसः प्रीतिनिर्भरः। तत्रैवेभ्यसुतस्तथौ, स स्वकीय इवौकसि ॥३१॥ इतश्च तत्र सोमश्री-सुन्दरीकुसुमावलीः । श्रेणिकावनिपश्रेष्ठिगोभद्रारामिकाङ्गजाः ।। ३२ ॥ कलाकलापं सकलं, पाठयित्वा कलागुरुः। श्रेणिकायार्पयामास, विचक्षणशिरोमणिः ॥३शायुग्मम् भूरिस्वर्णमहारत्न-वरेण्यवसनादिभिः । भूषयित्वा कलाचार्य, विससर्ज नराधिपः ॥ ३४॥ अतिस्निग्धा वयस्यास्ता-स्तिस्रोऽपि हि परस्परम् । क्रीडन्त्येकत्र तिष्ठन्त्यः, प्रायो विविधखेलनैः ३५ यौवनाभिमुखास्तिस्रोऽ-प्यन्यदैकत्र संस्थिताः। परस्परावियोगाय, प्रतिज्ञामिति चक्रिरे ॥३६॥ एकोऽस्माभिर्विधातव्यो, भर्ता स्वस्यावियुक्तये । सुखेनैकत्र तिष्ठामो वयं येन परस्परम् ॥३७॥ एवं कृतप्रतिज्ञास्ताः, पूर्यमाणमनोरथाः । मनःसङ्कल्पमात्रेण, तस्थुर्देव्य इवावनौ ॥ ३८॥ धन्यः कुसुमपालस्य, गृहे तिष्ठन् कलानिधिः । नानाप्रकारभङ्गीभि-जग्रन्थ कुसुमस्रजः ॥३९॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117