Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 36
________________ Shri Mahavir Jain Aradhana Kendra धम्पशाली भद्र॥ ३४ ॥ www.kobatirth.org क्वचित्सा पीतमद्येव, जुघूर्णेवातिवेगतः । निरालम्बा निराधारा, पपाताम्वरतः क्वचित् ॥ ७३ ।। क्वाप्यम्भोग्रन्थिभेदेन, प्रगलज्जलबिन्दुभिः । नवोपरतकान्तेव, स्थूलाश्रूणि मुमोच सा ॥ ७७ ॥ नौरन्तस्थ जनाकन्दै – विलापानकृत क्वचित्। परराजच चक्राऽऽ - क्रान्तेवेह महापुरी ॥ ७८ ॥ सशोकलोकसम्पर्काच्छुशोचैव कदापि सा । क्षीणपूर्वार्जितश्रेयो-निचयेव सुराङ्गना ॥ ७९ ॥ नावमेवं समालोक्य, तदन्तर्वर्त्तिभिर्नरैः । भयोद्धान्तमनोनेत्रैः स्मर्यन्ते स्मेष्टदेवताः || ८० || असारं तत्र भाण्डञ्च कैश्चिदक्षिप्यताम्बुधौ । प्रक्षेपबलिरम्भोधि - देवीभ्य इव यत्नतः ॥ ८१ ॥ अधोमुखाः प्रलम्ज्यन्ते, नांगराः स्माभितो नरैः । यानपात्रात्पयोराशौ घण्टा इव मतङ्गजात् ॥८२॥ मुकुन्दस्कन्दरुद्राणी — क्षेत्रपालादिदेवताः । उपायाच्यन्त कैश्विद्धि योजिताञ्जलिसम्पुटैः ॥ ८३ ॥ तथापि प्राप्य कूटस्य, संसर्ग दैवयोगतः । सद्यो विजघटे पोतो, विधुरे दुर्जनो यथा ॥ ८४ ॥ भग्ने पोते सध्वजेन, कूपकेनाप्यभज्यत । छिन्ने मूले द्रुमाग्रेण, स्थीयते किं सवीरुधा ॥ ८५ ॥ भाण्डं ममज्ज निःशेषं, वणिग्भिः सममम्बुधौ । किं निराधारमाधेय-मेवमेवावतिष्ठते ।। ८६ ।। तदा च पोतभङ्गेन, भयादाकुलमानसः । सम्यक्त्वं मलिनीकृत्य, वैचित्र्यात्कर्मणां गतेः ॥ ८७ ॥ पञ्चत्वं श्रेष्टिगोभद्रः प्राप्याकूरवारिणि । भवनाधिपदेवेषु, देवभूयमुपाययौ ॥ ८८ ॥ १ सद्योमृतपतिका २ कष्टे. ३ लतासहितेन. ४ अकूपारः समुद्रः ५ देवभूमिम्. For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्गः २ ।। ३४ ।।

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117