Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
धन्यशाली
भद्र॥ ३१ ॥
www.kobatirth.org
अभ्युत्थानमथाधाय, सम्मुखीना ययौ ततः । शिरस्यञ्जलिसश्लेषं चकार विनयेन सा ॥ ३७ ॥ स्वयमासनमानीय, प्रभोऽस्मिन्नुपविश्यताम् । प्रसथेति भणित्वा साऽऽसनं तत्पुरतोन्यधात् ||३८|| भक्त्या च वन्दनं कृत्वा, रोमाञ्चाञ्चितविग्रहा । प्रवर्द्धमानसञ्चेतः - परिणामा सती सती ॥ ३९ ॥ सर्वदोषविशुद्धं तद् गृहीत्वाऽन्नादि पुष्कलम् । प्रसद्य भगवन्नेत-द् गृह्यतामित्युवाच सा । ४० | युग्मम् । द्विचत्वारिंशता दोषे - विशुद्धं तद्विभाव्य तौ । धारयामासतुः पात्रा - ण्येषणादत्तमानसौ ॥ ४१ ॥ निचिक्षेप ततस्तत्र, भक्तपानादिकं बहु । मुनीनामिच्छया भद्रा, प्रकृत्योदारमानसा ॥ ४२ ॥ तत्र विस्मयमानेषु समस्तेष्वपि बन्धुषु । मुदाऽनुमोदमानेषु तामेवं पार्श्ववर्तिषु ॥ ४३ ॥ धन्या पुण्येयमस्याश्च, लब्धं जन्म जीवितम्। दानं यैवंविधा हृष्टा, सत्पात्रेभ्यः प्रयच्छति |४४|युग्मम् न केवलं स्वयं पुण्य - मर्जयन्ती तदा भृशम् । अन्येषामपि जन्तूनां भव्यानां तत्र पश्यताम् ॥ ४५ ॥ विनयेनावनम्राङ्गयष्टिः श्रेष्टितधर्मिणी । अवन्दत पुनर्भक्त्या, वाचंयमशिरोमणी ॥ ४६ ॥ युग्मम् ॥ समादाय ततो भक्त - मीर्यासमितिसङ्गतौ । गन्तुं प्रववृताते तौ, राजहंसाविवामलौ ॥ ४७ ॥ भद्रावि श्रेष्ठिनी भक्त्या, तौ मुनी बहुमानतः । कियन्तमपि भूभाग - प्रनुगम्य न्यवर्त्तत ॥ ४८ ॥ कारमा, साध्वीभ्योऽपि प्रमोदतः । दानं दस्वाऽनुगम्याथ, बान्धवादीनभोजयत् ॥४९॥ १ पोढा सत्कारोऽयं पूर्वोक्त १३७-१३८-१३९ श्लोकषु द्रष्टव्यः
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
महाकाव्यम् सर्गः २ ॥ ३१ ॥

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117