Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 32
________________ Shri Mahavir Jain Aradhana Kendra धन्यशा भद्र॥ ३० ॥ www.kobatirth.org + वन्दित्वा सुव्रतान् सूरीन् भद्राड्योचत्कृताञ्जलिः । प्रसय भगवन् क्षिप्र - मास्माकीने निकेतने २४ प्रासुकस्यैष गीयस्य, स्वजनार्थं कृतस्य च । जिवृक्षयाऽन्नपानादेः, प्रेष्यन्तां यतिपुङ्गवाः ॥ २५ ॥ युग्मम् ॥ धर्मलाभं वितीर्योचु-स्ते भद्रे तव मन्दिरे । वर्तमानेन योगेनाss - गमियन्त्यव साधवः ||२६|| सूरीन् प्रणम्य साध्वीश्च, न्यमन्त्रयत कोविदा । भक्त्या हृष्टमना भद्रा, श्रावकाणां क्रमो ह्ययम् । २७ सधवाभिर्महेलाभि— गायन्तीभिः समन्विता । शङ्खे स्वनति गम्भीरे, वाद्यमाने च सूर्यके ॥ २८ ॥ सलीलगमना पत्नो-त्सङ्गविन्यस्त बालका । भद्रा प्राप निजं धाम, द्वारविन्यस्त तोरणम् ॥२९॥ युग्मम् ॥ मित्रज्ञातिपुरज्येष्ठा, भोजनाय निमन्त्रिताः । भद्रया सादरं तेऽपि, समाजग्मुस्तदैव हि ॥ ३० ॥ विष्टरेषु प्रधानेषु, ते क्रमेणोपवेशिताः । भाजनानि च सर्वेषां सा प्रत्येकमदीदपत् ॥ ३१ ॥ तदर्श सूपकलम - शालिप्रभृति भोजनम् । सर्पिः सुगन्धि बंहोयो, वरशालनकानि च ॥ ३२ ॥ मृदुमण्डकवृन्दानि, नानापक्कान्नसंहतीः । मोदकान् खण्डखाद्यानि, विशालाः सुकुमारिकाः ॥३३॥ दघ्नो दुग्धस्य तक्रस्य, संस्कृतस्य घनस्य च । दध्योदनस्य भाण्डानि, द्राक्षादेः पानकस्य च ॥ ३४ ॥ इत्यादि भक्तपानादि, तत्र भोजनमण्डपे । समुपाढौकयद्भद्रा, श्रेष्ठिनी विपुलाशया ।। ३५ ।। तस्मिंश्चावसरे तत्र, साधुयुग्मं समागमत् । दृष्ट्वा तन्मुमुदे भद्राऽम्भोधिवेलेव शीतम् ॥ ३६ ॥ १ ग्रहीतुमिच्छया २ प्रमदाभिः ३ आसनेषु ४ प्रभूततरम्. ५ चन्द्रम् For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्गः २ ॥ ३० ॥

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117