________________
Shri Mahavir Jain Aradhana Kendra
धन्यशा
भद्र॥ ३० ॥
www.kobatirth.org
+
वन्दित्वा सुव्रतान् सूरीन् भद्राड्योचत्कृताञ्जलिः । प्रसय भगवन् क्षिप्र - मास्माकीने निकेतने २४ प्रासुकस्यैष गीयस्य, स्वजनार्थं कृतस्य च । जिवृक्षयाऽन्नपानादेः, प्रेष्यन्तां यतिपुङ्गवाः ॥ २५ ॥ युग्मम् ॥ धर्मलाभं वितीर्योचु-स्ते भद्रे तव मन्दिरे । वर्तमानेन योगेनाss - गमियन्त्यव साधवः ||२६|| सूरीन् प्रणम्य साध्वीश्च, न्यमन्त्रयत कोविदा । भक्त्या हृष्टमना भद्रा, श्रावकाणां क्रमो ह्ययम् । २७ सधवाभिर्महेलाभि— गायन्तीभिः समन्विता । शङ्खे स्वनति गम्भीरे, वाद्यमाने च सूर्यके ॥ २८ ॥ सलीलगमना पत्नो-त्सङ्गविन्यस्त बालका । भद्रा प्राप निजं धाम, द्वारविन्यस्त तोरणम् ॥२९॥ युग्मम् ॥ मित्रज्ञातिपुरज्येष्ठा, भोजनाय निमन्त्रिताः । भद्रया सादरं तेऽपि, समाजग्मुस्तदैव हि ॥ ३० ॥ विष्टरेषु प्रधानेषु, ते क्रमेणोपवेशिताः । भाजनानि च सर्वेषां सा प्रत्येकमदीदपत् ॥ ३१ ॥ तदर्श सूपकलम - शालिप्रभृति भोजनम् । सर्पिः सुगन्धि बंहोयो, वरशालनकानि च ॥ ३२ ॥ मृदुमण्डकवृन्दानि, नानापक्कान्नसंहतीः । मोदकान् खण्डखाद्यानि, विशालाः सुकुमारिकाः ॥३३॥ दघ्नो दुग्धस्य तक्रस्य, संस्कृतस्य घनस्य च । दध्योदनस्य भाण्डानि, द्राक्षादेः पानकस्य च ॥ ३४ ॥ इत्यादि भक्तपानादि, तत्र भोजनमण्डपे । समुपाढौकयद्भद्रा, श्रेष्ठिनी विपुलाशया ।। ३५ ।। तस्मिंश्चावसरे तत्र, साधुयुग्मं समागमत् । दृष्ट्वा तन्मुमुदे भद्राऽम्भोधिवेलेव शीतम् ॥ ३६ ॥ १ ग्रहीतुमिच्छया २ प्रमदाभिः ३ आसनेषु ४ प्रभूततरम्. ५ चन्द्रम्
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
महाकाव्यम् सर्गः २
॥ ३० ॥