________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्यशाली भद्र
महाकाव्यम्
सर्गः२ ॥ २९॥
المال وتقلل الفن الفن الملل
المحافل السلطانيليا والثالثة
परिस्फूर्जत्प्रतिध्वानः, पूरयन्तीव रोदसी । युगपद्वादयामासु-र्यतूर्याणि तौर्यिकाः ॥ १२ ॥ कचिद् गृहबहिभूमि-प्रदेशेषु सुगन्धिभिः । जलैः सिक्तेषु मुक्तेषु भूयसा रजसाभितः ॥ १३ ॥ शल्योज्झितेष्ववक्रेषु, सर्वत्राऽविषमेषु च । सर्वसङ्गविमुक्तानां मुनीनां मानसेष्विव ॥ १४ ॥ पटुपाटपदिष्ठे तु (?) मृदङ्गे मंजु गुञ्जति । मन्दिरोद्यानमायूर-ताण्डवाडम्बराम्बुदे ॥ १५ ॥ जिनसन्मुनिसद्भूत-गुणोत्कीर्तनपूर्वकम् । मन्द्रतारतरोद्गानै-युगपद्दत्ततालिकाः ॥ १६ ॥ नानावेषजुषो योषा, भूरिभूषणभूषिताः । अकार्षुमण्डलीनृत्य, हर्षोत्कर्षपुषो मिथः ॥१७॥पञ्चभिःकुलम् भंद्रा कल्पलतेवादा-दर्थिभ्यो दानमद्भुतम् । इयं लोकस्थितिर्दान-मव्ययं पुत्रजन्मनि ॥ १८ ॥ गीतैर्मङ्गलपाठक प्रपठनैश्चद्योटोद्घोषणै-ओम्यद्वामविलोचनाजनरणन्मञ्जीरमंजुकणैः । दीनानाथवनीपकार्थनरवैस्तूपस्वनैश्चोध्धुरैः । शब्दाद्वैतमिवाभवजनिमंहे सूनोस्तदा श्रेष्ठिनः ॥१९॥ एकादश दिनानित्थं, क्रमेण व्यतिचक्रमुः । कुर्वतामुत्सवं तेषां, प्रमोदादेकयामवत् ॥ २०॥ ततोह द्वादशे कृत्वा, सूतकस्य विशोधनम् । बभूवुः शुचिभूतास्ते, स्नानकर्मादिपूर्वकम् ॥२२॥ प्रविधायाहतां स्नात्रं, वस्त्रस्रक्चन्दनादिभिः। भद्रा सर्वेषु चैत्येषु विधिनाऽर्चामचीकरत् ॥ २२ ॥ तत्पुरो बलिमाधाय, भक्त्या देवानवन्दत । विधाप्य प्रेक्षणं रम्य, साधुपाश्रयमाययौ ॥ २३ ॥ १ आकाशपृथिव्यौ. २ 'पटिप्ठेत्तर्मुद' प्रत्यन्तरपाठोऽपि न सम्यग्ज्ञायते. ३ सुन्दरदीर्घतरगानः ४ स्त्रियः ५ वामविलोचना .. मनोहराक्ष्यः त्रिय इति यावत्. ६ वनीपका भिक्षुकाः. जन्मोत्सवे. ८ एकप्रहरवत्..
ی
For Private and Personal Use Only