Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली महाकाव्यम् सर्गः१ ॥ १५॥ अन्योन्यं तावयुध्येतां, सहर्षामर्षडम्बरौ । जितो धन्यस्य मेषेणे-तरः पुण्यं हि सिद्धिदम् ।। ६६ ॥ दीनाराणां ततो दत्वा, सहस्रं श्रेष्ठसूनवे । धीरधीस्तं समापृच्छथ, कुमारः स्वगृहं ययौ ॥ ६७ ।। दीनाराणां सहस्रेण, जितेन सममेडकम् । धन्यः स्वगृहमागल, जनकाय ददौ गुणी ॥ ६८ ॥ धनचन्द्रादयः सर्वे, कुर्वाणाः क्रयविक्रयान् । समस्तमतिनिन्युस्ते, वासरं श्रेष्ठिसूनवः ।। ६९ ॥ तथापि नाभवल्लाभो, मूलच्छेदोऽभवत्परम् । केन कर्मपरीणामः, शक्यते कर्तुमन्यथा ॥ ७० ॥ निर्लक्षणा विलक्षास्ते, पितुरन्तिकमाययुः । जनकेनाप्युपालब्धाः, सामर्षा (र्षम् ) इदमृचिरे ॥ ७१ ॥ लाभो घुणाक्षरन्यायादेवमेवाभवद्यदि । धन्यस्यास्य तदात्रायं, पुण्यवानियताऽपि किम् ॥ ७२ ॥ अथ विज्ञाय सामर्षी-श्चतुरश्चतुरोऽपि तान् । प्रत्येक रूपकाणां च, षष्ठिं श्रेष्टी पुनर्ददौ ॥ ७३ ॥ जगाद च पुनर्गत्वा, व्यवसायमनिन्दितम् । निजपुण्यपरीक्षार्थ, यूयं कुरुत सादरम् ॥ ७४ ।। गत्वा विपणिवीथीं ते, विदधुः क्रयविक्रयान् । लाभो नाभूत्परं तेषां, विचित्रा कर्मणां गतिः ॥ ७५ ॥ धन्योऽगात्षष्ठिमादाय, रूपकाणां पुरादहिः । साथै तत्राददे खट्वां, तैरत्यन्त मनोहराम् ॥ ७६ ।। आनीय मन्दिरे मातु-रर्पयामास तामसौ । यावन्निरूपयामास, वहां सम्यक् जनन्यपि ॥ ७७॥ तावदेकत्र देशेऽस्या, अद्राक्षोद गुप्तकीलिकाम् । आचकर्ष ततस्तां सा, बभूव विवरं ततः॥७८ ॥ १ मुदा इति प्रत्यन्तरम्. २ जनसमूहे. यद्वा ' सोऽथ ' इति पाठः ३ रूपक:. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117