________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandi
पन्यशाली भद्र
महाकाव्यम् | सर्गः १
अथ सर्व गृहारम्भ, प्रविहाय प्रयत्नतः । साधुपादान्नमस्कर्तु-माजग्मुः केऽप्युपासकाः ॥ ९७ ॥ पञ्चाङ्गप्रणिपातेन, तेऽनगारान् ववन्दिरे । साधवोऽपि ददुस्तेभ्यो, धर्मलाभाशिर्ष शुभाम् ॥ ९८॥ ते बद्धाञ्जलयो नम्र-मूर्धानः शुद्धभूतले । श्रावकानप्यनुज्येष्ठं, वन्दित्वोपाविशंस्ततः ॥ ९९।। स तदा कुलपुत्रोऽपि, भ्राम्यंस्तत्र समाययौ । दृष्ट्वा हृष्टमनाः साधून, प्रणम्य समुपाविशत् ॥१०॥ ततस्तन्मध्यतः साधुः, परोपकृतिलालसः। गीतार्थो देशनालब्धिसम्पन्नो देशानां व्यधात् ॥१शातथाहिक्षान्तिर्दिवमार्जवं च सततं मुक्तिस्तपः संयमः, सत्यं शौचमकिञ्चनत्वमतुलं सब्रह्मचर्य तथा । कर्तव्यं यतिनामयं दशविधोधर्मोऽचिरान्मुक्तिदो, ज्ञेयो द्वादशधा क्रमेण शिवदः सुश्रावकाणां पुनः।। सम्यक्त्वमूलानि निकेतभाजा-मणुव्रतानीह भवन्ति पञ्च । गुणव्रतानां त्रितयं च शिक्षा-व्रतानि चत्वारि सुखप्रदानि
या वोतरागेऽर्हति देवबुद्धि-गुरौ विश्रुद्ध गुरुतामनीषा ।
धमऽहंदुक्तऽपि च धर्मबुद्धिः, सम्यक्त्वमेतत्कथितं जिनेन्द्रैः ॥ ४ ॥ अदेवतायां किल देवबुद्धि-गुरावशुद्धे गुरुतामतिश्च । अशुद्धधर्मेऽपि च धर्मबुद्धि-मिथ्यात्वमेतद्भणितं मुनीन्द्रैः॥ विधात्रिधादिना स्थूला-अवेभ्यो विनिवर्त्तनम् । अणुव्रतानि पंचवं, प्राहुस्तीर्थकरादयः ॥६॥ नामतस्तानि चामनि, भवन्ति गृहिणामिह । अहिंसासूनृतास्तैन्य-ब्रह्मचर्यापरिग्रहाः ॥७॥ १ गृहीणाम्
For Private and Personal Use Only