Page #1
--------------------------------------------------------------------------
________________
-
श्रीविजयनेमिसूरिग्रन्थमालारत्नम्-२९.
आशैशवशीलशालिने श्रीनेमीश्वराय नमो नमः ॥
wome
न्यायाचार्य-न्यायविशारद-महामहोपाध्यायश्रीमद्यशोविजयगणिमणि
विरचितं
सप्तभङ्गी-नयप्रदीपप्रकरणम् ।
तदुपरितपोगच्छाधिपति-शासनसम्राट्-सरिचक्रचक्रवातजगद्गुरु-श्रीमद्विजयनेमिसूरीश्वर-पट्टालङ्कारेण व्याकरणवाचस्पति-शास्त्रविशारद-कविरत्नेन
श्रीविजयलावण्यसूरिणा विरचिता
बालबोधिनीविवृतिः।
वि० सं० २००३ 81000
Page #2
--------------------------------------------------------------------------
________________
Aasaare -
-
प्रकाशक:श्रीराजनगरस्थजैनप्रकाशकसभायाः कार्यवाहकः
श्रेष्ठी 'ईश्वरदास मूलचन्द्र' इतिनामा । 'कीकाभट्टनी पोल' अमदावाद
प्राप्तिस्थानम् । श्रीगूर्जरग्रन्थरत्नकार्यालय,
श्रीसरस्वतीपुस्तकभंडार गांधीरस्तो
'हाथीखाना' रतनपोल, अमदावाद
अमदावाद
-
-
-
मुद्रक:रामचन्द्र येसू शेडगे, मेचेजर 'निर्णयसागर प्रेस,
२६-२८ कोलभाट स्ट्रीट, मुंबई
- Pram
-
-
-
Page #3
--------------------------------------------------------------------------
________________
પ્રકાશકીય નિવેદન સપ્તભંગી અને સાત નયોનો ટૂંકમાં બોધ આપતો “સપ્તભંગી નયપ્રદીપ પ્રકરણ” નામનો આ ગ્રંથ છે. તેના રચયિતા પૂજ્યપાદ જૈન ન્યાયના પ્રાણદાતા ન્યાયવિશારદ-ન્યાયાચાર્ય મહામહોપાધ્યાય શ્રીમદ્દ યશોવિજયજી મહારાજ છે. તેમના જીવન અને કવન વિશે કેટલાયે વિદ્વાનોએ ખૂબ પ્રકાશ પાડ્યો છે તેથી એ સંબંધે પિષ્ટપેષણ કરવાની જરૂરત નથી. છતાં ન્યાયના પ્રખર પાંડિત્ય વિશે એટલું કહેવું જરૂરી છે કે તેમણે કાશીના સમર્થ બ્રાહ્મણ પંડિતો સાથેના શાસ્ત્રાર્થમાં જીત મેળવવાથી એ જ પંડિત મંડલીએ
ન્યાયવિશારદ'ની પદવીથી તેમને વિભૂષિત કર્યા હતા અને ન્યાયના એકસો આઠ ગ્રંથો બનાવ્યા બાદ “ન્યાયાચાર્ય”ના બિરુદથી નવાજ્યા હતા. તેમની કસાયેલ વિદ્રોગ્ય કલમથી લખાયેલ આ ગ્રંથ આધુનિક પ્રજાને ટીકા વિના સાંગોપાંગ સમજવો મુશ્કેલ હતો, તેથી પૂજ્યપાદ શાસનસમ્રા સર્વતન્ત્ર સ્વતન્ન સૂરિચક્ર ચક્રવર્તી આચાર્ય મહારાજાધિરાજ શ્રીમદ્ વિજયનેમિસૂરી. શ્વરજી મહારાજશ્રીના પટ્ટાલંકાર વ્યાકરણવાચસ્પતિ, કવિરત્ર, શાસ્ત્રવિશારદ પૂજ્ય આચાર્યવર્ય શ્રીમદ્ વિજયલાવણ્યસૂરીશ્વરજી મહારાજશ્રીએ વિદ્રતસમાજ તેમજ તત્ત્વજિજ્ઞાસુ તત્ત્વરસિક જીવને તત્ત્વનો બોધ આપનારી બાલધિની” નામની વિવૃત્તિ-ટીકા રચી, આ સપ્તભંગી-નયપ્રદીપ ગ્રંથને સુગમ બનાવ્યો છે. તેને અમે સહર્ષ પ્રકાશિત કરીએ છીએ. મૂળ ગ્રંથ અપ્રતિમ પ્રતિભાશાલી છે, એ વાત તો નિ:શંક છે. પરંતુ ટીકાકાર મહર્ષિએ પણ તેના ઉપર તલસ્પર્શી વિશદ આલબોધિની વિવૃત્તિ રચી, પોતાની પ્રકાંડ પ્રતિભાને વ્યક્ત કરી છે; જે સાદ્યન્ત સૂમેક્ષિકાથી નિરીક્ષણ કરનારને સહેજે ખ્યાલમાં આવે તેમ છે; એટલું જ નહિ પરંતુ “બાબોધિની” વિવૃત્તિની સાર્થકતાનો સાક્ષાત્કાર થયા વિના રહેતો નથી. જેને ન્યાયની સાહિત્ય સૃષ્ટિમાં આ ગ્રંથ અનેરો પ્રકાશ ફેકે છે. આ ગ્રંથ-રત્નાકરમાં કયાં કયાં વિષયરો ક્યાં ક્યાં છે, તેની જિજ્ઞાસાવાળા મહાનુભાવોને વિશાળકાય વિષયાનુક્રમણિકાનું નિરીક્ષણ કરવા ભલામણ કરીએ છીએ; જેથી ગ્રંથને ટીકાની મહત્તાનો ખરો ખ્યાલ આવી શકશે. પૂજ્ય વિદ્વાન મુનિશ્રી મહિમાપ્રવિજયજી મહારાજે પ્રેસ કોપી મેળવવા વગેરેમાં જે પરિશ્રમ ઉઠાવ્યો છે, તે માટે અને પ્રસ્તુત ગ્રંથનું સાઘન્ત પ્રફ વગેરેનું સંશોધન કાર્ય, વ્યાકરણતીર્થ છે. અંબાલાલ પ્રેમચંદ શાહે, જે કુશળતાથી કરેલ છે તે ધન્યવાદને પાત્ર છે.*
Page #4
--------------------------------------------------------------------------
Page #5
--------------------------------------------------------------------------
________________
श्रीः ॥ सटीकसप्तभङ्गी-नयप्रदीपप्रकरणविषयानुक्रमणिका ।
ans Rana
विषयाङ्काः
विषयाः
पत्र-पतिः जिनेन्द्रनमस्काररूपं मङ्गलम् । श्रीहेमचन्द्रसूरिप्रभृतीनां स्मरणात्मकं मङ्गलम् । श्रीयशोविजयोपाध्यायस्मरणलक्षणं मङ्गलम् । मङ्गलार्थ गुरुप्रवरश्रीने मिसूरीश्वरस्तुतिलक्षणं मङ्गलम् । १ मूलकर्तृकृतमङ्गलम् । [खनाम चाविष्कृतम् ।] २ टीकाकर्ता स्वकृतटीकाया वैशिष्टयोपदर्शनेनोपादेयत्वम् २ मङ्गलस्य प्रयोजनादिकमुपदर्शितम् । मङ्गलपद्यव्याख्यानं तत्र विशेषणसामर्थ्यलब्धातिशयचतुष्टयानुबन्धचतुष्टयोपदर्शनम् । प्रमाणनयतत्त्वालोकालङ्कारचतुर्थपरिच्छेदान्तर्गताना सप्तभङ्गीविषयाणां सूत्राणामुट्टङ्कनम् । जैनानां प्रमाणमात्रप्रामाण्यव्यवस्थापकत्वात् सप्तभङ्गीजिज्ञासितव्यत्वं वादे जयपराजयफलजनकत्वात् खसिद्धान्तरहस्यावेदकत्वाच्चाभ्यसनीयत्वमिति दर्शितम्। ४ एकान्तवादिनां न सप्तभङ्गया जिज्ञासितव्यत्वं किन्तु जैनानामिति व्यवस्थापितं टीकायाम् । सप्तभङ्गीतः प्रमाणानां प्रामाण्यं व्यवस्थितं भवतीति दार्शतम् , मूलाभिप्रायश्च दर्शितः । पद्येन सप्तभङ्ग्याः स्वरूपोपवर्णनपुरस्सरं स्याद्वादिनो वादे जयफलकत्वमुपवर्णितम् । 'या प्रश्नाद्' इति पद्यव्याख्यानम् । वाक्यस्य सप्तभङ्ग्यात्मकत्वे सत्येव प्रमाणवाक्यत्वमिति व्यवस्थापकं तत्त्वालोकालङ्कारसूत्रमुक्कितम् ।
Page #6
--------------------------------------------------------------------------
________________
सटीकसप्तभङ्गी नयप्रदीपप्रकरणस्य विषयाहाः
विषयाः
पत्र-पतिः ___ सप्तभङ्गी प्रतिपादकं तत्त्वालोकालङ्कारसूत्रं तन्या
ख्यानं च। व्याख्याने सूत्रोपात्तविशेषणानां व्यावृत्त्युपदर्शनम् । ७ अनन्तधर्मविवक्षायामपि प्रतिपर्यायं सप्तानामेव भङ्गाना सम्भव इति सप्तभङ्गीनामानन्त्यमित्येतत्प्रतिपादक सूत्रमुल्लिखितम्। सप्तभङ्गीखरूपावगतये क्रमेण 'स्यादस्त्येव सर्वम्' इत्यादि सप्तभङ्गानामुपदर्शनं सङ्गमनपुरस्सरम् । अनेकान्तावबोधकस्यादित्यव्ययेन खद्रव्यादिचतुष्टयापेक्षया घटस्यास्तित्वावगतिः प्रथमभङ्गतो यथा तथोपदर्शनम् । तदुपपादनं टीकायाम् । भङ्गे अवधारणार्थकैवकारोपादानस्यावश्यकत्वं प्राचीनोक्त्या संवादित्वम् । भङ्गे अनेकान्तद्योतकस्यात्पदोपादानावश्यकत्वं व्यव. स्थापितम् । अप्रयुक्तस्यापि स्यात्पदस्यार्थात्प्रतीतौ प्राचीनवचनसंवादो दर्शितः। 'स्यानास्त्येव सर्वम्' इति द्वितीयभङ्गस्योपपादनं सर्वान्तर्गतघटे तदर्थसमनुगमेन । क्षणविनश्वराणामुत्पत्तेरेव विनाशकारणत्वे प्राचीनवचनसंवादो दर्शितः। भावाभावयोरैक्यापत्त्याऽनिष्टप्रसजनमाशा परिहृतम् । 'स्थादस्त्येव स्याभास्त्येव सर्वम्' इति तृतीयभास्योपपादन । 'स्थादवकव्यमेव सर्वम्' इति तुरीयभास्योपपादनम् । १६
Page #7
--------------------------------------------------------------------------
________________
विषयानुक्रमणिका।
३०
विषयाङ्काः
विषयाः
पत्र-पतिः युगपद्विधि-निषेधद्वयप्रतिपादने न कस्यापि शब्दस्य सामर्थ्यमित्युपदर्शितम् । 'स्यादस्त्येव स्यादवक्तव्यमेव सर्वम्' इति पञ्चमभरस्योपपादनम् । 'स्यानास्त्येव स्यादवक्तव्यमेव सर्वम्' इति षष्ठभङ्गस्योपपादनम् । 'स्यादत्येव स्यान्नास्त्येव स्यादवक्तव्यमेव सर्वम्' इति सप्तमभङ्गस्योपपादनम् ।
२० एकत्र वस्तुन्यनन्तधर्मकल्पनयाऽनन्तभहीमाशन तत्प्रति विधानं प्रमाणनयतत्त्वालोकालङ्कारसूत्रोपन्यासेना२० सप्तभङ्गयाः प्रतिभङ्गं सकलादेश-विकलादेशखभावत्वे प्रमाणवाक्यलनयवाक्यसनिमित्ते लक्षिते । २२ कालादिभिरष्टभिरभेदवृत्तिप्राधान्य-तदुपचाराभ्यां योगपद्येनानन्तधर्मात्मकवस्तुप्रतिपादकत्वात् सकलादेशत्वं कालादिभिरष्टभिर्मेदवृत्तिप्राधान्य-तदुपचाराभ्यां योगपयेन निरुक्तवस्ल प्रतिपादकलाद्विकलादेशत्वं यथा तथोपपादितं टीकायाम् । कालादयोऽष्टावुपदर्शिताः तत्सङ्ग्रहप्रवर्ण पद्यं दर्शितम् । २३ सप्तभङ्गीखरूपनिष्कर्षो दर्शितः। तत्र निराकाङ्क्षार्थबोधजनकलात् सप्तभङ्गीवाक्यमेव प्रमाणवाक्यमिति दर्शितम् । घटोऽस्तीति वाक्यमपि निराकाङ्क्षार्थबोधजनकत्वात् प्रमाणवाक्यमेवेति सप्तमजीवाक्योंपासना न कार्यति प्रश्नः तत्प्रति विधानं च। प्रमाणबाधितैकान्तास्तित्वबोधकत्वेन घटोऽस्त्येवेसस्थाप्रामाण्यं 'स्यादस्त्येव घटः' इत्यस्य प्रामाण्यम् एवमप्याकाला समुहसतीवितभित्तथे 'स्थानीस्वेष पा' इति द्वितीयभा इत्युपदर्शितम् ।
X
.
४१
Page #8
--------------------------------------------------------------------------
________________
पत्र-पतिः
२४
सटीकसप्तभङ्गी नयप्रदीपप्रकरणस्य विषयाङ्काः
विषयाः आकाङ्क्षाविशेषनिवृत्त्यर्थ 'स्यादस्त्येव स्यान्नास्त्येव घटः' इति तृतीयभङ्गप्रवृत्तिः, तस्य विषय विशेषव्यवस्थापनेन प्रथम-द्वितीयभनाभ्यामगतार्थत्वं व्यवस्थापितम्। विलक्षणबोधजनकत्वात् तृतीयभङ्गस्य प्रथम-द्वितीयभङ्गाभ्यामगतार्थत्वमुपवर्णितम् । 'स्यादवक्तव्य एव घटः' इति तुरीयभङ्गस्यातीतभङ्गत्रयागतार्थत्वात् समर्थनम् । तुरीयभङ्गजन्यबोधस्य तद्विषयस्यावक्तव्यस्य च भिन्नत्वं स्वरूपोट्टङ्कनेन व्यवस्थापितम् । 'स्थादस्त्येव स्यादवक्तव्य एव घटः' इति पञ्चमभङ्ग. व्यवस्थापनं विषयातिरेकोपदर्शनेन । 'स्यानास्त्येव स्यादवक्तव्य एव घटः' इति षष्ठभजावश्यकत्वं दर्शितम् । 'स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्य एव घटः' इति सप्तमभङ्गावश्यकत्वं व्यवस्थापितम् । वक्तव्यत्वप्रतिपादकाष्टमभङ्गाशकोत्थाप्य प्रतिक्षिप्ता । खतन्त्रवक्तव्यत्वधर्माश्रयणेन सप्तभङ्गीप्रसिद्धिरुपपादिता। उक्तसप्तमभङ्गयामष्टमधर्मासम्भवानाष्टमभङ्गीसम्भव इति भावितम् । सप्तभनयाः कल्पितार्थबोधवैचित्र्यमात्रतैवेत्यस्य खण्डनम् । सप्तभनयाः प्रमाणवाक्यत्वोपपत्तये सकलादेशता. समाश्रयणम् । प्रतिभङ्गं सकलादेशवतः सप्तमायाः प्रमाणवाक्यत्वं दर्शितम्।
४७
२७
५४
Page #9
--------------------------------------------------------------------------
________________
विषयानुक्रमणिका। विषयाङ्काः
विषयाः
पत्र-पतिः प्रतिभङ्गं विकलादेशत्वतो नयवाक्यत्वं तस्या दर्शितम् । २८ १५ मतान्तरेण स्यादस्त्येव घटः १, स्यान्नास्त्येव घटः २, स्यादवक्तव्य एव घटः ३, इति भङ्गत्रयस्य सकलादेशत्वमन्येषां विकलादेशत्वं दर्शितम् । बुधानां ग्रन्थशोधनकर्मसम्मुखीकरणावबोधकपद्य. विवरणम् ।
२९ १० इति सप्तभङ्गीप्रकरण-तट्टीकाविषयानुक्रमणिका ॥
अथ सटीकनयप्रदीपप्रकरणानुक्रमणिका। नयसामान्यस्य लक्षणचतुष्टयोपदर्शनम् । सप्तभङ्गीनिरूपणानन्तरं नयनिरूपणस्य युक्तत्वमुपपादितम् । नयसामान्यप्रथमलक्षणं नयशब्दनिरुक्तिलभ्यमिति दर्शितम् । द्वितीयनयसामान्यलक्षणमुपचाराद्वस्तुगतं ज्ञानगतं पर्यवसितं तदावेदितम् ।। द्वितीय लक्षणेन नयविषयावेदनम् , तृतीयलक्षणेन नयस्वरूपावेदनम् । अभिप्रायस्य जैनमते ज्ञानरूपत्वम् , न्यायमते इच्छाविशेषरूपत्वरूपमिति । श्रुताख्यज्ञानस्यैव नयरूपत्वमिति तुरीयलक्षणेनावेदितम् । अनुयोगवृत्तिकृदुक्तनयपञ्चमलक्षणं ज्ञानमात्रस्यैवैकांशग्राहिण इत्यभिप्रायकम् । देवसूरिसूत्रितं षष्ठं नयसामान्यलक्षणं व्याख्यातं मूले तयाख्यानम्।
Page #10
--------------------------------------------------------------------------
________________
१०
my
१४
m
१५
१६
सटीकसत्तभङ्गी नयप्रदीपप्रकरणस्य विषयाङ्काः
विषयाः
पत्र-पतिः खविषयीभूतांशभिन्नांशे औदासीन्यं भजमानस्य नयत्वमितरोशप्रतिक्षेपिणस्तु नयभासत्वमित्यत्र रत्न. प्रभसूरिकृतपद्यद्वयं संवादकतयोपदर्शितम् । अंशप्रहिणः प्रत्यक्षादेवस्तुगत्या नयत्वेऽपि व्यावहारिकप्रामाण्याश्रयणेन प्रत्यक्षादिप्रमाणेनेत्युक्तिः । 'निश्शेषांशजुषाम्' इत्यादिपद्यद्वयस्य विवरणम् जिनमते न कस्यापि नयविहीनत्वमित्यत्र विशेषा. वश्यकगाथाप्रमाणतयोद्भाविता । नयाभासलक्षणम् । विस्तारतो नयानामानन्त्ये विशेषावश्यकगाथा प्रमाणतयोक्ता। समासतो द्रव्यार्थिक-पर्यायार्थिकभेदेन नयस्य वैविध्यं
तत्र विशेषावश्यकगाथासंवादः । १७ द्रव्यलक्षणमभिहितम् ।
द्रव्यार्थिकनये प्रस्तुते द्रव्यलक्षणाभिधाने बीजमुपदर्शितम् । अर्थक्रियाकार्येव सदित्यत्र प्राचीनपचं प्रमाणतया दर्शितम् । द्रव्यपदव्युत्पत्तिलब्धं द्रव्यलक्षणम्, तथाऽन्यलक्षणम् , तत्र विशेषावश्यकवृत्तिसंवादश्च । संवादकगाथाव्याख्यामम् । प्रसङ्गायातयोः खभाव-विभावपर्याययोः प्रदर्शनम्।। अगुरुलघुद्रव्य स्थिरै सिद्धिक्षेत्रमित्यत्र समवायाजवृत्तिसंवादो दर्शितः।। गुणविकाराणां पर्यायाणां द्वादश विषत्वं दर्शितम् । ३९ गुण विभजनम् , अस्तित्वादयो व्याणों सामान्यगुणा दश तत्र प्रलेकमष्टो अष्टौ सर्वेषाम्। ज्ञान-दर्शनादयो द्रव्याणां षोडशविशेषगुणा एक्षिताः । ३९
३५
or
اس
س
२३
२५
Page #11
--------------------------------------------------------------------------
________________
२७
४१
विषयानुक्रमणिका । विषयाङ्का:
विषयाः
पत्र-पतिः गुणविकाराणां द्वादशभेदाः स्पष्टमुपवर्णिताः
३९९ प्रत्येकमष्टौ अष्टौ सर्वेषामित्यस्यावतरणे विशिष्य चेतनाचेतनद्रव्ययोरष्टसामान्यगुणोपवर्णनम् । विशेषगुणेषु जीवपुद्लयोः षद, अन्येषां त्रयो गुणा दर्शिता अन्त्याश्चत्वारः सामान्यगुणा विशेषगुणाश्च । ४० जीवस्य षट्पुद्गलस्य च षधमोदीनां त्रयस्त्रयश्च विशेषगुणाः स्पष्टीकृताः। खजाति-विजातिभ्यामित्यस्य स्पष्टीकरणम् । द्रव्याणां सामान्यखभावा एकादश, विशेषस्वभावा दश उपदर्शिताः। चेतनादिद्रव्येषु यस्य यत्सङ्ख्याकाः स्वभावास्तस्य ते दर्शिताः, तत्सङ्ग्रहप्रवर्ण पद्यमुल्लिखितम् । खभावानां गुण पर्याययोरन्तर्भावः, उक्तखरूपं ब्रव्यनयं विशेषार्थप्रतिपत्तये भवति तत्र प्राचीनपद्यसंवादश्च । ४२ नानाखभावसंयुक्तमिति पद्य विवरणम् । निरुक्तस्य द्रव्यार्थिकस्यान्वयद्रव्यार्थिकादयो दशभेदा उदाहरणसंवलिता भावितास्तदवान्तरभेदाश्च । पर्यायार्थिकस्य निरुक्तिलभ्यं लक्षणम्, तत्र प्राचीनपद्यसंवादश्च । 'अमादिनिधने' इति पद्यस्य विवरणम् । पर्यायशब्देन षड्गुणहानि-वृद्धिरूपाणां नरनारका. दीनां च ग्रहणम् । सहभावि-क्रमभाविपर्यायभेदेन पर्यायस्य द्वैचिंध्यं तयोरुदाहरणं च । पर्यायाणां स्वभाव-विभाव-द्रव्य-गुण-पर्यायभेदेन चातुर्विध्यम् , तेषां चतुर्विधानां जींचे पुद्गले व निदर्शनपुरस्सरमुपदर्शनम् ।
४२
Page #12
--------------------------------------------------------------------------
________________
م م
४३
م ه
४६
ه م ه
४८
م
सटीकसप्तभङ्गी नयप्रदीपप्रकरणस्य विषयाङ्काः
विषयाः
पत्र-पतिः स्वभावद्रव्यव्यञ्जनपर्यायादीनां खखनिदर्शने यथावत्सङ्गमनम् । एकत्वपृथक्त्वादयः पर्यायाः सूत्रोक्कतया दर्शिताः । ४९ पर्यायार्थिकस्य व्युत्पत्तिलभ्यं लक्षणम् , अनादि नित्यपर्यायार्थिकाद्याः षड्भेदाः सनिदर्शनमुपदर्शिताः । ४९ तेषां निदर्शनानां सङ्गमना विहिता। द्रव्यार्थिकपोयार्थिकयोः स्थानप्रधानोपदर्शनम्, तत्र राजप्रश्नीयवृत्तिसंवादः । द्रव्यार्थिको द्रव्यमेव स्वीकरोति न पर्यायानित्युपदर्शितम् । ५२ तृतीयो गुणार्थिकनयः कथं नेत्याशङ्कायाः प्रति विधानम् । ५२ द्रव्यार्थिकनयात् पर्यायार्थिकनयो युक्त्या भेदेन व्यवस्थापितः। द्रव्यात् पर्यायस्य सूक्ष्मत्वादिकं विशेषप्रतिपत्तिकरमुपदर्शितं तत्र विशेषावश्यकगाथा संवादश्च । क्षेत्रादनन्तगुणत्वं द्रव्यस्य, द्रव्यात् सङ्ख्येयगुणत्वं वा पर्यायस्येत्यत्र विशेषावश्यकगाथासंवादः। द्रव्यार्थिक-पर्यायार्थिकयोभिन्नत्वमुपसंहृतम् । द्रव्यार्थि कपर्यायार्थिकानां परस्परमिलितानामपि स्वस्वपृथग्भावापरित्यागित्वे गाथासंवादो दर्शितः। सामान्यार्थिक-विशेषार्थिकनययोरतिरिक्ततयाऽऽशङ्का प्रतिविहिता। तिर्यक्सामान्योर्चतासामान्यभेदेन सामान्यस्य द्वैविध्यं दर्शितम् । तत्र तिर्यक्सामान्यस्य लक्षणं तस्य लक्ष्यं च दर्शितम्। ५६ ऊर्ध्वतासामान्यस्य लक्षणं तल्लक्ष्यस्य विशेषतो निर्दिष्टस्य त्रिकालानुगामित्वे वृत्तिसंवादो दर्शितः। तिर्यक्सामान्यस्य व्यजनपर्यायत्वे प्रावनिकसिद्धिः । प्रमाणतया दर्शिता।
Ru
م
م م
३
م
س
م م
नीतः।
५७
م
م
Page #13
--------------------------------------------------------------------------
________________
विषयानुक्रमणिका। विषयाकाः
विषयाः
पत्र-पतिः ५९ . ऊर्ध्वतासामान्यस्य द्रव्यरूपत्वं विशेषस्य पर्यायेऽन्त
र्भावात् सामान्यार्थिक-विशेषार्थिकनययोर्द्रव्यार्थिकपर्यायार्थिकनययोरन्तर्भावो निगमितः। द्रव्यार्थिकस्य नैगम-सङ्ग्रह-व्यवहारभेदेन त्रैविध्यम् , पर्यायार्थिकस्य ऋजुसूत्र-शब्द-समभिरूढेवंभूतभेदेन चातुर्विध्यम्, तेषां सङ्ग्रहे सप्त-पञ्च-पद-चत्वारः सङ्ख्या विकल्पाः प्रवचनसारोद्धारवृत्तितोऽवसेयाः। ५९ टीकायां पञ्चव षडेवेत्यादयस्सङ्ख्या विकल्पाः सङ्गमिताः। ५९ नैगमादिनयानामनुयोगद्वार-तद्वृत्तिगतानि लक्षणानि पूर्वभावितखरूपाण्येवेति संवादनार्थमभिहितम् । ६० विशेषतो नैगमादिनयविशेषावगतये द्रव्यार्थिकानों नैगमादित्रयाणां क्रमेण लक्षणान्यावेदितानि । तत्र नेगम-व्यवहारावशुद्धद्रव्यार्थिको, सङ्ग्रहः शुद्धः द्रव्यार्थिक इत्यस्य व्यवस्थापकोऽनुयोगद्वारवृत्तिग्रन्थ उदृङ्कितः । नैगमस्य नाम निरुक्तिलक्षणं धर्मद्वयगोचरादयस्त्रयो भेदा उक्ताः। क्रमेण त्रयाणामपि नैगमनयप्रकाराणामुदाहरणानि भावितानि । प्रकारान्तराश्रयणेन नैगमं निरुच्य तस्य भूत-भविष्यद्वर्तमानभेदेन त्रयो भेदा निदर्शनोपदर्शनेन भाविताः । ६५ धर्म-धार्मिणोरन्यतरस्यैव प्रधानतयाऽवगाहिनो नैगमस्य प्रधानतया तदुभयावगाहिनः प्रमागाद्भेदः प्रतिपादितः। ६५ नैगमाभासलक्षणं तदुदाहरणं नैयायिकादिदर्शनस्य तदाभासत्वं च । सङ्ग्रहनयलक्षणं तस्य स्पष्टीकरणं च । मूलोक्तसङ्ग्रहसामान्यलक्षणस्य परापरसङ्ग्रहद्वयव्यापित्वं भावितम् ।
६४
Page #14
--------------------------------------------------------------------------
________________
७३
*.
.
७१
.२
सटीकसप्तभङ्गी नयप्रदीपप्रकरणस्य विश्याकाः
विषयाः
पत्र-पतिः परापरभेदेन सङ्ग्रहस्य द्वैविध्यम् , तत्र परसङ्ग्रहस्य लक्षणं सोदाहरणमुपदर्शितम् ।
६८ खजातेरित्यादि पर्यवसितसङ्ग्रहलक्षणस्य विवरणेन स्पष्टीकरणम् । अत्र हि विश्वस्यैकत्वमित्या दिमूलोक्ताभिप्रायो दर्शितः। ६९ परसङ्ग्रहाभामलक्षणं सोदाहरणमुपदर्शितम्', अद्वैतदर्शन-साङ्ख्यदर्शनयोस्तदाभासत्वमावेदितम् । ७० अपरसङ्ग्रहलक्षणं तदुदाहरणं तस्योपपादनम् , चैतन्यस्य ज्ञानरूपत्वे प्राचीनपा प्रमाणतया दर्शितम् । 'चैतन्यमनुभूतिः स्याद्' इति प्राचीनपा सम्यक्तया विवृतम् । अपरसंङ्ग्रहाभासलक्षणं तदुदाहरणं तदुपपादनं च। ७२ प्रकारान्तराश्रयणेन सङ्ग्रहस्य सामान्य-विशेषाभ्यां द्वैविध्यं तयोरुदाहरणं च । व्यवहारनयलक्षणवचनं तद्व्याख्यानं तदुदाहरण च। ७३ अपरसङ्ग्रहगृहीतार्थव्यवहारस्योदाहरणं भावितम्। ७४ व्यवहाराभासलक्षणम् ,तदुदाहरणं तत्र लक्षणसङ्गमनं च। ७४ दैगम्बरीयप्रक्रियाश्रयणेन व्यवहार-तद्भेदानामुपदर्शनम् । टीकायां दिगम्बरमतप्रकटीकरणम् , तत्र द्रव्यार्थिकपर्यायार्थिकयोः प्रवेशनेन नयानां नवविधत्वं तत्र कर्मोपाधिनिरपेक्षशुद्धद्रव्यार्थिकादिभेदेन द्रव्यार्थिकस्य दशभेदा दर्शिताः।
___ ७५ १९ अनादि-नित्यपर्यायार्थिकादिभेदेन पर्यायार्थिकस्य षद भेदा दर्शिताः। भूतकालादिभेदेन नैगमस्य त्रैविध्यम् , सामान्य विशेषभेदेन सङ्गहव्यवहारयोद्वैविध्यम् , स्थूल-सूक्ष्मभेदाजु
.
5.
Page #15
--------------------------------------------------------------------------
________________
विषयानुक्रमणिका। विषयाङ्का
विषया:
पत्र-पतिः सूत्रस्य द्वौं भेदौ, त्रयाणां शब्दनयानामेकैकविधत्वं मिलिताः सर्वे अष्टाविंशतिरिति दर्शितम् । दैगम्बरीयमुपनयभेदप्रपश्चनम् , तत्रैकवस्तुभेदविषयस्य सद्भुतव्यवहारस्य शुद्धाशुद्धभेदेन द्विविधस्य लक्षणोदाहरणाभ्यां निरूपणम् ।
७६ १४ संश्लेषसहितवस्तुसंबन्धविषयकस्यानुपचरितासद्भूतव्यवहारस्य खजाति-विजात्युभयविषयभेदेन त्रिविधस्य लक्षणोदाहरणाभ्यां निरूपणम् ।
७६ १७ संशेषरहितवस्तुसंबन्धविषयकस्योपचरितासद्भूतव्यवहारस्य खजातिविजात्युभयविषयभेदेन त्रिविधस्य लक्षणोदाहरणाभ्यां निरूपणम् ।
___ ७६ २२ इत्थं नयोपनयनिरूपण-तत्खभावयोजनादिदिगम्बरप्रक्रियायशोविजयोपाध्यायेनानेकान्तव्यवस्थाप्रकरणे खण्डितेति दर्शितम् । भेदोपचारतया वस्तु व्यवह्रियते इति व्यवहार इत्यस्य स्पष्टीकरणम् ।
७७ ११ दिगम्बरैरुपनयतया सम्मतस्य व्यवहारस्य सद्भुतव्यवहारादयश्चतुर्दशभेदाः स्वखविषयोदाहरणसमन्विताः परिभाविताः,टीकायां ग्रन्थान्तरतस्तत्र तत्र विशेषाश्चोपदर्शिताः। तत्र क्रमेण-१ सद्भूतव्यवहार-२ उपचरितसद्भूतव्यवहार-३ अनुपचरितसद्भूतव्यवहार-४ अशुद्धसद्भूत. व्यवहार-५ खजात्यसद्धृतव्यवहार-६ विजात्यसद्भूत. व्यबहार-७. उभयासद्भूतव्यवहार-८ खजात्युपचरिनासद्भूतव्यवहार-९ विजात्युपचरितासद्भूतव्यवहार१० तदुभयोपचरितासद्भूतव्यवहार-११ असद्भूतव्यवहार-१२ उपचरितासद्भूतव्यवहार-१३ अनुपचरिता
Page #16
--------------------------------------------------------------------------
________________
५४
सटीकसप्तभङ्गी नयप्रदीपप्रकरणस्य विषयाङ्काः
विषयाः
पत्र-पतिः सद्भूतव्यवहारा इत्येवं ते खखविषयलक्षणोदाहरणतो दर्शिताः। असद्भूतव्यवहारविषयस्योपचारस्य द्रव्ये द्रव्योपचार इत्यादिभेदेन नवविधत्वं तस्य पृथगनयत्वापाकरणं च । ८५ उपचारप्रवृत्तिनियमनम् । उपचारनिमित्तस्य सम्बन्धस्याविनाभावादिरूपत्वेन पञ्चविधत्वं दर्शितम् । अविनाभावादिसम्बन्धो यत्र यथा घटते तत्र तथोपदर्शनम् । उपचरितासद्भूतव्यवहारस्य त्रैविध्यमिति सर्वे मिलिताव्यवहारनयार्थाश्चतुर्दश, भेदविषयश्च व्यवहार इति । ८७ पर्यायार्थिकनयप्रथगभेदस्य ऋजुसूत्रस्य लक्षणवचनम्, तद्विवरणम् , तदुदाहरणं च भावितम् । व्यवहारनिरूपणानन्तरमृजुसूत्रनिरूपणे सङ्गति. रावेदिता ।
८८ १०१ कौटिल्यनिरुक्तौ वर्तमानप्रवेशेऽभिप्रायो दर्शितः ।
ऋजुसूत्राभासलक्षणम् । १०३ सुखविवर्तः सम्प्रत्यस्तीत्युदाहरणे द्रव्यस्याप्राधान्य.
तया दर्शयतीत्यस्य सङ्गमनम् । १०४ ऋजुसूत्राभासोदाहरणम् ।।
सूक्ष्मणु-स्थूल सूक्ष्मणुसूत्रभेदेन द्वैविध्यमृजुसूत्रस्य दर्शितम्। पर्यायार्थिकद्वितीयभेदस्य शब्दनयस्य लक्षणवचनं तद्व्याख्यानं कालभेदे उदाहरणं च।
कारकभेदे शब्दनयस्योदाहरणम् । १०८ लिङ्गभेदे संख्याभेदे च शब्दनयस्योदाहरणम् ।
पुरुषभेदे शब्दनयस्योदाहरणं भावितम् ।
१००
Page #17
--------------------------------------------------------------------------
________________
१७
११०
११४
११५
विषयानुक्रमणिका । विषयाकाः
विषयाः
पत्र-पतिः सङ्ख्याभेदोदाहरणे उक्तस्य गेहा इत्यस्यार्थोपवर्णनम् । ९२ . १११ पुरुषभेदे शब्दोदाहरणस्य सम्यग् विवेचनं कृतम् । ९२ ११२ उपसर्गभेदे अर्थभेदे च शब्दस्योदाहरणं दर्शितम् । ९५
भर्थभेदे शब्दस्योदाहरणे 'जहातु नैनं कथमर्थ सिद्धिः' इति किरातार्जुनीयं पद्यं सव्याख्यानमुपदर्शितम् । ९५ शब्दाभासलक्षणवचनं तद्व्याख्यानं तदुदाहरणं च दर्शितम् । पर्यायार्थिकतृतीयभेदस्य समभिरूढनयस्य लक्षण
वचनं तद्व्याख्यानं तदुदाहरणं च दर्शितम् । ११६ समभिरूढाभासलक्षणं तदुराहरणं च दर्शितम् । ९९
पर्यायार्थिकनयतुरीयभेदस्यैवम्भूतस्य लक्षणवचनं तद्व्याख्यानं च । यद्यपि जाति-गुण-क्रिया-सम्बन्धियदृच्छालक्षणा पञ्चतयी शब्दप्रवृत्तिर्भाष्यादावुपदर्शिता तथापि सा व्यवहारतः, एवम्भूतनये तु सर्वे शब्दाः क्रियाशब्दा एवेत्युपपादितम् ।
१०१ एवम्भूतनयस्योदाहरणम् ।
१०२ एवम्भूतनयाभासलक्षणं तदुदाहरणं च । १०२ नैगमादयश्चत्वारोऽर्थनयाः शब्दाद्यास्त्रयः शब्दनया इति दर्शितम् ।।
१०४ सप्तानामपि नयानां प्रत्येक शतविधत्वेन सप्तशतसङ्ख्यकत्वम् , पञ्चनया इति पक्षे पञ्चशतसङ्ख्यकत्वमिति विशेषावश्यकगाथया दर्शितम् । १०४ आदेशान्तरे षदशत-चतुःशतद्विशत-सङ्ख्यकत्वा
न्यपि । २ सप्त० अनु०
११७
११८
११९
१२०
२१
१२२
१२३
१०५
Page #18
--------------------------------------------------------------------------
________________
सटीकसतभङ्गीनयप्रदीपप्रकरणस्य विषयाशा.
विषयाः
पत्र-पतिः १२४ सर्वनयानी मूलनयौ निश्चयव्यवहारी तथा द्रव्यप
र्यायार्थिकाविति कृत्वा द्वौ नयो, तयोः प्रत्येकं शतविधत्वाद् द्विशतसंख्यकत्वमित्यावेदितं गाथया । १०६ 'जावंतो' इत्यादि विशेषावश्यकभाष्यगाथया वचनसमसंख्यकत्वं नयानाम् , नयसमसंख्यकत्वं पर'समयाना समुदिताना समक्त्वं च दर्शितम्। १०६ प्रत्येकं मिथ्यात्वेऽपि समुदितानां सम्यक्त्वं दृष्टान्तावष्टम्भतो भावितम् ।
१०७ उक्तार्थप्रतिपादकविशेषावश्यकभाष्यगाथाया विवरणम् ।
१०८ नैगमादिषु सप्तसु नयेषु पूर्वपूर्वनयस्योत्तरोत्तरनयापेक्षया प्रचुर विषयत्वं पूर्वपूर्वनयापेक्षयोत्तरोत्तर. नयस्याल्पविषयत्वं विशिष्योपदर्शितम् । १०९ प्रमाणवाक्यवनयवाक्यमपि खविषये प्रवर्तमान सप्तभङ्गीमनुसरति तद्वत् सफलं चेति दर्शितम्। ११० अनन्तरितपरम्परितभेदाद् द्विविधं प्रमाणफल. वनयफलमिति दर्शितम् , टीकायामुपपादितं च । १११ नयविचारमयोक्तप्रन्थतः सतामानन्दावाप्तिः फलं प्रार्थितम् । सप्तभङ्गीनयप्रदीपप्रकरणटीकाकर्तुः श्रीलावण्यसूरेः प्रकृतकृती दोषस्य कस्यचिद्भावेऽपि हास्यानास्पदत्वं कृतिना खत एव तदपनयनव्यापृतत्वमिति प्रन्थ. विषयाभिरामत्वप्रतिपादनायोपदर्शितम् । ११२ १७ समाप्तेयं विषयानुक्रमणिका ॥ शुभं भूयात् ॥
१२९
१३०
१३१
१३२
Page #19
--------------------------------------------------------------------------
________________
___ अहम् । न्यायविशारद-न्यायाचार्य-महामहोपाध्यायश्रीयशोविजयगणिविरचितं सप्तभङ्गी-नयप्रदीपप्रकरणम् ।
तदुपरि तपोगच्छाधिपति-श्रीविजयनेमिसूरीश्वरपट्टालङ्कार
श्रीविजयलावण्यसूरिविरचिता
बालबोधिनी विवृतिः। यज्ज्ञानाभावतायां भवति नियमतः शून्यताऽलीकता वा
यद्वाणीत्यक्तरूपे कथमपि न भवेद् वाच्यभावव्यवस्था । तान् दोषातीतरूपान् सकलजनगुरून् पूज्यपूज्यान् जिनेन्द्रान्
विघ्नवाताऽपनुत्त्यै हृदयमुपगतान् नौमि माङ्गल्यगेहान् ॥१॥ येषां तत्त्वार्थवार्ता प्रचरति जगति प्राज्यनीतिप्रचारा
तत्तद्वस्तुव्यवस्था तत इह नियता भाति मानकसारा । आचार्या हेमचन्द्रप्रमुखबुधवरास्तेऽत्र कृत्ये निसर्गात्
साहाय्यं खानुसृत्या विदधतु महिता वाग्मिनामग्रगण्याः ॥२॥ यन्मूलालोकमात्रान्निज-परसमयाभीष्टराद्धान्तकान्ता ।
वाणी निर्दुष्टभावा विलसति गहने तत्त्वमार्गेऽमिताऽऽमा । - स श्रीमान् वाचकाग्र्यो नवनवविषयालोचनैकान्तवृत्ति. भूयात् कल्याणहेतुः स्मृतिततिकलितः श्रीयशोनामधेयः ॥३॥ मेषां स्वमेऽपि जैनागममननपरैवोन्नता चित्तवृत्तिः
शास्त्रे सर्वत्र कामं विलसति घिषणा काप्यपूर्वाऽनवद्या । सरित्रातैकमान्या नृपनुतचरणास्तीर्थवृद्धयैककृत्या
ने श्रीमन्नेमिसूरीश्वरगुरुप्रवराः सन्तु नो मनलाय ॥४॥
Page #20
--------------------------------------------------------------------------
________________
बालबोधिनीविवृतिविभूषितं ऐन्द्रादिगणतं देवं ध्यात्वा सर्वविदं हृदि ।
सप्तभङ्ग-नयानां च वक्ष्ये विस्तरमाश्रुतम् ॥१॥ स्पष्टाभीष्टार्थबोधाऽप्यभिभवतितरां वाक्छटा मन्दबुद्धीन्
यस्मात् तस्मान्मदीयाऽप्युपकृतिफलिका भाविनी तत्र वृत्तिः । नोपेक्ष्या स्याद् बुधानामितिधृतधिषणो यत्नमास्थाय योग्यं __व्याख्यामेनां प्रकुर्वे मितनयविमलां श्रीललावण्यसूरिः ॥ ५॥ शिष्टाचारपरिपालनाय विघ्नविघाताय वा कृतं मङ्गलं शिष्यशिक्षायै अन्थादौ निबध्नन्, श्रोत्रवधानाय तत्प्रवृत्तिफलकानुबन्धचतुष्टयप्रतिपचये च कर्तव्यं प्रतिजानीते-ऐन्द्रादिप्रणतमित्यादि । 'ऐन्द्रादिप्रणतम्' इत्यनेनान्यसत्त्वपूज्यैरपीन्द्रसमूहादिभिः प्रणतस्यान्यैरपि प्रणतत्वमागतमेवेति पूजातिशयो. लभ्यते । दिव्यति आन्तरकाम-क्रोधाद्यशेषशत्रून्मूलनात् सर्वोत्कर्षेण वर्तत इति देव इति 'देवम्' इत्युक्त्याऽपायापगमातिशयो लभ्यते । 'सर्वविदम्' इत्यनेन ज्ञानातिशयः प्रतीयते। एतादृशस्य भगवतो ध्यानं तदुक्तसप्तभङ्ग-नयविस्तरवचननिर्विघ्नपरिपू.
र्त्यर्थम् , अतस्तस्य श्रुतानुगतिमत्त्वावगतये आश्रुतमिति । ततो वचनातिशयोऽप्याल्लभ्यत इति । एतादृशातिशयचतुष्टयसम्पत्समन्वितस्य भगवतो ध्यानं हृदय एव, इत्येवमपि 'हृदि' इत्युक्तिर्हदयस्थितस्य तस्य तद्वचननिर्दिष्टसप्तभङ्ग-नयनिरूपणयुक्तत्वायुक्तत्वविचारसाक्षित्वावगतये, तथा च येन भगवता सप्त भङ्गा नयाश्चोपदिष्टाः स एव भगवान् मद्धृदि व्यवस्थितोऽनन्तराभिधीयमानसप्तभङ्ग-नयविस्तरसाक्षीति स एवात्रार्थे प्रमाणमित्याशयः । सप्तभङ्ग-नयविस्तरकथनरूपग्रन्थे सप्तभङ्ग-नयविस्तर एवाभिधेयः, तेन समं ग्रन्थस्य प्रतिपाद्य-प्रतिपादकभावः सम्बन्धः, तदधिगतिः प्रयोजनम् , तदधिगतिकामोऽधिकारीत्यनुबन्धचतुष्टयावगतिरिति ।
Page #21
--------------------------------------------------------------------------
________________
सप्तभङ्गी नयप्रदीपप्रकरणम् । . [श्रीवादिदेवसूरिपुरन्दरप्रणीतप्रमाणनयतत्वालोकालङ्कारचतुर्थपरिच्छेदान्तर्गतानि सप्तभङ्गीगोचराणि कानिचित् सूत्राणि
सर्वत्रायं ध्वनिर्विधि-प्रतिषेधाभ्यां खार्थमभिधानः सप्तभङ्गीमनुगच्छति ॥१३॥
एकत्र वस्तुन्येकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्तयोश्च विधि-निषेधयोः कल्पनया स्यात्काराङ्कितः सप्तधा वाक्प्रयोगः सप्तभङ्गी ॥१४॥ । तद्यथा-स्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमो भङ्गः॥१५॥ स्थानास्त्येव सर्वमिति निषेधकल्पनया द्वितीयः ॥ १६॥ .. स्यादस्त्येव स्यान्नास्त्येवेति क्रमतो विधि-निषेधकल्पनया तृतीयः ॥१७॥ . स्यादवक्तव्यमेवेति युगपद्विधि-निषेधकल्पनया चतुर्थः ॥ १८ ॥ - स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च पश्चमः ॥१९॥ - स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्विधिनिषेधकल्पनया च षष्ठः ॥२०॥ __ स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति क्रमतो विधिनिषेधकल्पनया युगपद्विधि-निषेधकल्पनया च सप्तम इति ॥२१॥ • एकत्र वस्तुनि विधीयमान-निषिध्यमानानन्तधर्माभ्युपगमेनाऽ. नन्तभङ्गीप्रसङ्गादसङ्गतैव सप्तभङ्गीति न चेतसि निधेयम् ॥ ३७ ॥ । विधि-निषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुन्यनन्तानामपि सप्तभङ्गीनामेव संभवात् ॥३८॥
प्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव सम्भवात् ॥३९॥ ... इयं सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा विकलादेशखभावा च ॥४३॥
प्रमाणप्रतिपन्नाऽनन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराद् वा योगपद्येन प्रतिपादकं वचः सकलादेशः ॥४॥ तद्विपरीतस्तु विकलादेशः ॥४५॥]"
Page #22
--------------------------------------------------------------------------
________________
बालबोधिनीविवृतिविभूषितं
अथ सप्तभङ्गी प्रारभ्यते । जैनानां तावत् सप्तभङ्गी विजिज्ञासितव्या, सैव तेषां प्रमाणभूमिमारचयति । दुर्दमपरवादिवाद
सप्तभङ्ग-नयविस्तरकथनप्रतिज्ञायां
सप्तभङ्गाऽऽत्मकमहावाक्यरूपसप्तभन्या निरूपणस्य प्राथम्यं मनसिकृत्य तामधिकरोति - अथेति । एकान्तवादिमते विधि-निषेधयोः परस्परं विरुद्धयोर्नैकस्मिन् समावेश इति विधि - निषेधप्रतिपादकभङ्गद्वयस्याभावे नास्त्येव सप्तभङ्गीति तज्जिज्ञासाया अप्यभावान्नैकान्तवादिजिज्ञासितव्यत्वं सप्तभङ्गयाः, तथाऽप्यनेकान्तवादिमतेऽनन्तधर्मात्मके वस्तुनि एकैकधर्ममभिमुखीकृत्य विधि - निषेध - कल्पनया सप्तानां धर्माणां सम्भवे तत्प्रतिपादकसप्तभङ्गसमूहाऽऽत्म कसप्तभङ्गीत एव निराकाङ्क्षार्थावबोध इति तत्प्रभवसंस्कारमाहात्म्यतः प्रमाणान्तरेऽप्यनेकान्तात्मार्थाध्यवसायस्योल्लेखः सप्तभङ्गपरिकर्मित इति तत एव प्रामाण्यावसितिः, अन्यथा स्याद्वादिनां निराकाङ्क्षबोध एव न भवेदिति सप्तभङ्गी जिज्ञासितव्येत्याह - जैनानामिति । सप्तभङ्गघाः फलवत्त्वे सत्येव तज्जिज्ञासा प्रेक्षावतां स्याद्, अतस्तस्याः सकलप्रमाणविषयोल्लेखशेखरत्वेन प्रमाणमूर्धाभिषिक्तत्वादुपादेयत्वमित्याह - सैवेति । सप्तभयेवेत्यर्थः । तेषां जैनानाम् । प्रमाणभूमिं प्रमाणभावम् । आरचयति व्यवस्थापयति, सप्तभङ्गीत एव खखप्रतिनियत निमित्तापेक्षायाsविरोधेन विधि - निषेधादिलक्षणधर्मव्यवस्थितौ तथा तत्तद्धर्मावगाहिबोधस्वरूपस्य प्रमाणस्य प्रमाणत्वं सम्यग् व्यवस्थितं भवति, अन्यथा स्वस्व - निमित्तभेदाप्रतिसन्धानतोऽवधारणमेव विरोधाघातत्वान्न भवेदिति न कस्यापि प्रमाणस्य प्रामाण्यं व्यवतिष्ठेत, एकान्तवादिनस्तु न विरुद्धधर्मद्वयसन्निपात इति न निमित्त मेदापेक्षेति न सप्तभङ्गी जिज्ञासितव्येति भावः ।
Page #23
--------------------------------------------------------------------------
________________
सप्तमङ्गीनयप्रदीपप्रकरणम् । मतङ्गजान् परिजिघृक्षवः सम्यक् स्वीयसिद्धान्तरहस्सं विजिज्ञासवो वादिमतल्लिकाः सम्यक् तामवश्यमभ्यसन्ति, यदुक्तम्-- "या प्रश्नाद् विधि-पर्युदासभिदया बाधच्युता सप्तधा धर्म धर्ममपेक्ष्य वाक्यरचना नैकाऽऽत्मके वस्तुनि । निर्दोषा निरदेशि देव! भवता सा सप्तभङ्गी यया जल्पन जल्परणाऽङ्गणे विजयते वादी विपक्षं क्षणात्" ॥१॥
- रत्नाकरावतारिका । स्वपक्षसाधनाङ्गत्वात् परपक्षबाधनाङ्गत्वाच्च स्याद्वादवादिनः सप्तमजी सम्यगभ्यस्यन्तीत्याह-दुर्दमेति-दुःखेन दमनं निग्रहः खण्डनं येषां ते दुर्दमाः, दुर्दमाश्च ते परवादिवादमतङ्गजाश्च दुर्दमपरवादिवादमतङ्गजा-स्तान्, परिजिघृक्षवः परितः सर्वतो ग्रहीतुमिच्छवः, परमतखण्डनैकावधाना इति यावत् । सम्यग् यथार्थतया । खीयसिद्धान्तरहस्यं जैन'सिद्धान्ताभिप्रेतम् । विजिज्ञासवो विशेषेण ज्ञातुमिच्छवः । वादिमतल्लिका वादिप्रवराः । सम्यक् समीचीनतया । तां सप्तभङ्गीम् । अभ्यस्यन्ति स्याद्वादसंस्कारदायि भूयः परिशीलयन्ति । सम्यगभ्यस्ता च सप्तभङ्गी सभाक्षोभादिकारणेनाऽप्यप्रतिबद्धप्रचारा वादिपराजयाय जैनराद्धान्तेष्टतत्त्वसमर्थनाय च स्याद्वादिनां भवत्येवेति जिज्ञासिता सा निरूपणाहेति भावः । सप्तभङ्गया वादिविजयहेतुत्वे प्राचीनानुमतिमुपदर्शयति-यदुक्तमिति । या वाक्यरचना प्रश्नात् प्रश्नवशेन तदुत्तररूपतया जायमाना, धर्म धर्ममपेक्ष्य विधि-पयुदासभिदया सप्तधा सप्तप्रकारा, बाधच्युता बाधरहिता, नैकात्मके अनेकान्तात्मके, वस्तुनि धर्मिणि, हे देव! भवता सर्वज्ञेन, निरदेशि प्रत्यपादि, सा सप्तभङ्गी भण्यते, जल्परणाङ्गपणे जल्पकथात्मकसंग्रामभूमौ, यया सप्तभझ्या, जल्पन वादी विपक्ष प्रतिवादिनम् , क्षणात झटिति विजयत इत्यर्थः । प्रमाणवाक्यं सप्तभङ्गीस्वरूपतामासादयदेव खीयार्थ
Page #24
--------------------------------------------------------------------------
________________
बालबोधिनीविवृतिविभूषितं - तथा चायं शब्दो यत्किञ्चित् सदंशाऽसदंशभागाभ्यां च स्वीयमर्थ प्रतिपादयन् सप्त भङ्गानेव प्रत्यवतिष्ठते ।
"सर्वत्रायं ध्वनिर्विधि-निषेधाभ्यां स्वार्थमभिदधानःसप्तभङ्गीमनुगच्छति" ॥ १३ ॥ इति सूत्रम् । .: सा कीडक्वरूपति लक्षणमाह
"एकत्र वस्तुन्येकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयो समस्तयोश्च विधि-निषेधयोः कल्पनया स्यात्काराङ्कितः सप्तधा वाझयोगः सप्तमङ्गी" ॥ १४ ॥ इति सूत्रम् । - एतस्यार्थः-एकस्य जीवाजीवादेः पदार्थस्य, एकैकशो धर्मविषयपरिप्रश्ने सकलप्रमाणाबाध्यत्वेन भिन्नाभिन्नविधि-प्रतिषेध
प्रतिपादनप्रत्यलमित्याह-तथा चेति । प्रत्यवतिष्ठते अनुसरति । शब्दस्य विधि-निषेधाभ्यां स्वार्थावबोधने सप्तभङ्ग्यनुसरणावश्यम्भावे श्रीदेवसूरीशसूत्रं प्रमाणयति-सर्वत्रेति-लोके लोकोत्तरे चेत्यर्थः। अयं ध्वनिः प्रमाणत्वेन सम्मतः शब्दः । विधि-निषेधाभ्यां सत्त्वासत्त्वादिभावाभावरूपधर्माभ्याम् । सा सप्तभङ्गी । लक्षणं सप्तभङ्गीलक्षणम् । एकत्रेत्यादि श्रीदेवसूरीशसूत्रम् । एतस्य 'एकत्र' इत्यादिसूत्रस्य । 'एकत्र वस्तुन्येकैकधर्मपर्यनुयोगवशा' इत्यस्य व्याख्यानम्-'एकस्य जीवाज्जीवादेः पदार्थस्य, एकैकशो धर्मविषयपरिप्रश्ने' इति । 'अविरोधेन' इत्यस्यार्थः-'सकलप्रमाणाबाध्यत्वेन' इति । 'व्यस्तयोः समस्तयोश्च विधि-निषेधयोः कल्पनया' इत्यस्यार्थः-'भिन्नाभिन्नविधिप्रतिषेधविभागाभ्याम्' इति, तृतीयान्तस्य 'वाक्प्रयोगः' इत्यत्रान्व
Page #25
--------------------------------------------------------------------------
________________
सप्तभङ्गी - नयप्रदीपत्रकरणम् ।
विभागाभ्यां प्रयुक्तः, स्याच्छब्दाङ्कितः, सप्तविधत्वेन वाक्योपन्यासः, सा सप्तभङ्गी विज्ञेया । विधिः-सदंशः । प्रतिषेधः-असदंशः । पदार्थसार्थस्य सदंशाऽसदंशधर्माद्यनेकप्रकारविभजनयाsनन्तभङ्गीप्रसङ्गः तन्निरासायैकपदोपादानम् । विधि-निषेधाद्यनन्तधर्माऽध्यासिते एकस्मिन् जीवाजीवादिवस्तुनि अनन्तधर्मपरिप्रश्नकालेऽनन्तभङ्गसम्भवः, तद्व्यावृत्त्यर्थमेकैक धर्मपर्यनुयोगस्योपादानम् । एतेनानन्तधर्माध्यासितेष्वनन्तपदार्थेषु सत्खपि
यात् 'प्रयुक्तः' इति लब्धस्य कथनम् । 'स्यात्काराङ्कितः' इत्यस्यार्थः'स्याच्छब्दाङ्कितः' इति । 'सप्तधा वाक्प्रयोग : ' इत्यस्यार्थः - 'सप्तविधत्वेन वाक्योपन्यासः' इति । 'सदंशः' इत्यनेन नित्यादिभावमात्रांशपरिग्रहः । ' असदंशः' इत्यनेनाऽनित्याद्यभावमात्रांशपरिग्रहः । 'एकत्र वस्तुनि' इत्यत्रैकपदोपादानप्रयोजनमुपदर्शयति-पदार्थसार्थस्येति - घटः सन् घटोsसन्नित्यादिभङ्गा यथा घटरूपधर्मिणि, तथा पटः सन् पटोsसन्नित्यादिभङ्गाः पटरूपधर्मिणि, तथा मठादिधर्मिण्यपीत्येवं पदार्थसार्थस्य सदंशाद्यनेकधर्म विभजनयाऽनन्तभङ्गीप्रसङ्ग इति तन्निरासायैकत्र वस्तुनीत्यर्थः । 'एकैकधर्मपर्यनुयोगवशाद्' इत्यत्र 'एकैकधर्मपर्यनुयोगः' इत्युपादानप्रयोजनमुपदर्शयति - विधि-निषेधाद्यनन्तधर्माध्यासित इति । अनन्तधर्मपरिप्रश्नकाल इति - जीवः किं सन्नेव किमसन्नेव : किं नित्य एव : किमनित्य एव ? किं भिन्न एव : किमभिन्न एव ? इत्येवंप्रश्नकाले प्रश्नसमसङ्ख्योत्तरवचनाभिधानतोऽनन्तभङ्गीप्रसङ्ग इति तद्व्यावृत्तये एकैकधर्मपर्यनुयोगस्योपादानम्, एकैकधर्ममधिकृत्य प्रश्नस्य सप्तविधत्वेन सप्तभन्या एव सम्भव इति । एतेन'
-
Page #26
--------------------------------------------------------------------------
________________
बालबोधिनीविवृतिविभूषितं
प्रतिपदार्थं प्रतिधर्मं परिप्रश्नकाले एकैकशो वस्तुधर्मे एकैकैव सप्तभङ्गी भवतीति नियमः ।
अनन्तधर्मविवक्षया सप्तभङ्गीनामपि नानाकल्पनमभीष्टमेव, एतत् तु सूत्रकारेणैव ज्ञापितम्, तथाहि
“विधि निषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुन्यनन्तानामपि सप्तभङ्गीनामेव सम्भवात् ॥ ३८ ॥ प्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव सम्भवात् " ॥ ३९ ॥ इति ॥
अथ सप्तभङ्गी स्वरूपतः प्रदर्श्यते, तथाहि - 'स्यादस्त्येव
इत्यस्य 'नियमः' इत्यनेनान्वयः, यद्यप्यनन्तधर्माध्यासिता अनन्ता एव पदार्थाः, तथाऽप्येकस्मिन् पदार्थे एकधर्ममधिकृत्य प्रश्नाः सप्तैवेति तदुचरवाक्यरूपा एकैव सप्तभङ्गी भवतीति नियमः, 'एकत्र धर्मिणि' इत्युपादानेन 'एकैकधर्मपर्यनुयोगवशाद्' इत्युपादानेन चेत्यर्थः । यद्येकधर्मविवक्षया एका सप्तभङ्गी, तर्हि अनन्तधर्मविवक्षया अनन्ता सप्तभक्त्यपि स्यादित्यत्रेष्टापत्तिमाह- अनन्तधर्मविवक्षयेति - एकत्र धर्मिणि यावन्तो धर्मास्तत्र प्रत्येकधर्मविवक्षया एकैकसप्तभङ्गीसम्भवे तावत्यः सप्तभङ्ग्यः स्युरेवेत्यर्थः । एतत् तु सप्तभङ्गीनामनन्तत्वं पुनः । सूत्रकारे - णैव प्रमाण - नयतत्वालोकालङ्कारसूत्रकृता श्रीदेवसूरिणैव । तज्ज्ञापके सूत्रे उल्लिखति-विधि - निषेधप्रकारापेक्षयेति सूत्रे स्पष्टे । सप्तभङ्गसमूहरूपायाः सप्तभञ्ज्याः समूहिनां सप्तानामपि भङ्गानां प्रत्येकं स्वरूपपरिचये खरूपावगतिरित्याशयेन क्रमेण सप्तानामपि भङ्गानां स्वरूपमुपदर्शयति - तथाहीत्यादिना । सत्त्वासत्त्वादिसप्तविधधर्मपरिकर्मिते वस्तुनि अखण्डे सदंशस्य कल्पनया यद् विभजनं पृथक्करणं तेन 'स्यादस्त्येव
Page #27
--------------------------------------------------------------------------
________________
सप्तभङ्गी नयप्रदीपप्रकरणम् । सर्वम्' इति सदंशकल्पनाविभजनेन प्रथमो भङ्गः ॥१५॥ 'स्यानास्त्येव सर्वम्' इति पर्युदासकल्पनाविभजनेन द्वितीयो मङ्गः ॥ १६ ॥ 'स्यादस्त्येव स्यान्नास्त्येव' इति क्रमेण सदंशाऽसदंशकल्पनाविभजनेन तृतीयो भङ्गः ॥॥१७॥ 'स्यादवक्तव्यमेव
सर्वम् इति प्रथमो भङ्गो भवति, सर्वस्य कथञ्चिदस्तित्वे सर्वान्तर्गतघटादावपि प्रत्येकं कथञ्चिदस्तित्वं समनुगतमिति सर्वस्य धर्मितयोपन्यासः, तेन 'स्यादस्त्येव घटः' 'स्यादस्त्येव पटः' इत्येवंदिशा घटादिधर्मिणि अस्तित्वप्रतिपादकः प्रथमो भङ्गः, अस्तित्वं च विध्यंशस्य नित्यत्वादेरप्युपलक्षणमिति 'स्याद् नित्यमेव सर्वम्' इत्येवंदिशा प्रथमो भङ्गो भावनीयः।
'स्यान्नास्त्येव सर्वम्' इति द्वितीयो भङ्गः सर्वस्य धर्मिण उपादानेन यथा भवति तथा 'स्यान्नास्त्येव घटः' 'स्यान्नास्त्येव पटः' इत्येवं घटादिधर्मिण उपादानतोऽपि सम्भवति, एवं भङ्गान्तरेऽपि, नास्तित्वलक्षणपर्युदासकल्पनाविभजनेन यथा द्वितीयो भङ्गस्तथाऽनित्यत्वादिलक्षणपर्युदासकल्पनाविभजनेनापि, तेन 'स्यादनित्यमेव सर्वम्' 'स्यादनित्य एव घटः' इत्येवंदिशा द्वितीयो भङ्गो भावनीयः।
प्रथम-द्वितीयभङ्गाभ्यां विधि-निषेधरूपधर्मद्वयव्यवस्थितौ तयोः क्रमेण विवक्षया क्रमिकतदुभयप्रतिपादकः ‘स्यादस्त्येव स्यान्नास्त्येव च सर्वम्' इति तृतीयो भङ्ग इत्याह-'स्वादस्त्येव स्थानास्त्येव' इति । युगपत् तदुभयविवक्षायां युगपदेव तयोः प्राधान्येन प्रतिपादकं किमपि वचनं नास्तीत्यनिर्वचनीयतांशकल्पनाविभजनेन चतुर्थो भङ्ग इत्याह-'स्यादवक्तव्यमेव' इति । विधिप्राधान्येन युगपद्विधि-निषेधप्राधान्येन च सदंश-युगपद्विधिनिषेधांशकल्पनाविभजनया 'स्यादस्त्येव स्यादवक्तन्य
Page #28
--------------------------------------------------------------------------
________________
बालबोधिनीविवृतिविभूषितं इति समसमये विधि-निषेधयोरनिर्वचनीयख्यापनाकजल्पनाविभनया चतुर्थो भङ्गः ॥१८॥ 'स्यादस्त्येव स्यादवक्तव्यमेव' इति विधिप्राधान्येन युगपद्विधि-निषेधाऽनिर्वचनीयख्यापनाकल्पनाविभजनया पञ्चमो भङ्गः ॥ १९ ॥ 'स्यान्नास्त्येव स्यादवक्तव्यमेव' इति निषेधप्राधान्येन युगपद्विधिनिषेधाऽनिर्वचनीयख्यापनाकल्पनाविभजनया षष्ठो भङ्गः ॥ २० ॥ 'स्थादस्त्येव स्थानास्त्येव स्यादवक्तव्यमेव' इति क्रमात् सदंशाऽसदंशप्राधान्यकल्पनया युगपद्विधि-निषेधानिर्वचनीयख्यापनाकल्पनाविभजनया च सप्तमो भङ्गः ॥२१॥ __ अथार्थतः प्रथमभङ्गं प्रचिकटयिषुराह-स्थादस्त्येवेति-विधिप्राधान्यविवक्षायामयं भङ्गः । स्याद्' इत्यनेकान्तद्योतकमव्ययम्, मेव सर्वम्' इति पञ्चमो भङ्ग इत्याह-'स्थादस्त्येव स्यादवक्तव्यमेव' इति । निषेधप्राधान्येन युगपद्विधिनिषेधप्राधान्येन च नास्तित्वानिर्वचनीयत्वांशकल्पनाविभजनया 'स्यान्नास्त्येव स्यादवक्तव्यमेव सर्वम्' इति षष्ठो भङ्ग इत्याह-'स्यान्नास्त्येव स्यादवक्तव्यमेव' इति । क्रमेण सदंशाऽसदंशप्राधान्यकल्पनया युगपद्विधि-निषेधप्राधान्यकल्पनया च 'स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेव सर्वम्' इति सप्तमो भङ्ग इत्याह-'स्थादस्त्येव स्यान्नास्त्येव यादवक्तव्यमेव' इति । सामान्यतोऽभिहिता अपि सप्त भङ्गा यथावदनुपपादिता न परीक्षकाणामभ्युपगमपदवीमारोहन्तीत्यतो विशिष्यार्थदिदर्शयिषयाऽऽह-अथेति । अस्तित्व-नास्तित्वादिसप्तविधधर्माऽऽकलिते वस्तुनि सप्तापि धर्मा अवबोधनीया इति किमर्थमेकधर्मप्रतिपादक एवायं भङ्ग इत्यपेक्षायामाहविधिप्राधान्यविवक्षायामिति–सन्ति वस्तुनि सप्तापि धर्माः, ते सर्वे
Page #29
--------------------------------------------------------------------------
________________
११
सप्तभङ्गी नयप्रदीपप्रकरणम् । 'स्याद्' इत्यनेन कथञ्चित् स्वकीयद्रव्य-क्षेत्र-काल-भावचतुष्टयरूपेण, अस्त्येव घटादिवस्तु, नास्त्येवान्यदीयद्रव्य-क्षेत्र-कालभावचतुष्करूपेण, तथाहि-घटो द्रव्यतः पार्थिवत्वरूपेण, नास्ति जलादिरूपेण क्षेत्रतः पाटलिपुत्रकत्वेन, नास्ति कान्यकुब्जत्वेन कालतः शैशिरत्वेन, नास्ति वासन्तिकत्वेन; भावतो रक्तत्वेन, नास्ति पीतत्वेन । एवं सर्वमन्यदेव ज्ञातव्यम् । खद्रव्यादिचतु
स्वस्वनिमित्तभेदेनैवैकत्रावस्थितिमासादयन्ति, प्रयोजनवशतश्च प्राधान्यमनुभवन्ति, ततश्च सदंशस्य प्रयोजनवशात् प्राधान्यविवक्षायां तथातत्प्रतिपादकः प्रथमो भङ्ग उपतिष्ठत इत्यर्थः। 'स्यादस्त्येव घटः' इत्यत्र 'स्या इत्यनेन किमुक्तं भवतीत्यपेक्षायामाह-स्यादितीति-अनेकान्तता तदा स्याद् यद्यस्तित्ववन्नास्तित्वमपि भवेत् , तथा च नास्तित्वालिङ्गितेऽस्तित्वं नापेक्षाभेदमन्तरेणेति तदवबोधकः 'स्याद्' इति शब्दः कथञ्चिदित्यर्थकः । कथञ्चिदस्तित्वावगमेऽपि निमित्तविशेषजिज्ञासा नोपशाम्यति, ततश्च न निराकाङ्क्षार्थबोध इत्यत आह-स्वकीयद्रव्य-क्षेत्र-कालभावचतुष्टयरूपेणेति । स्वकीयद्रव्य-क्षेत्र-काल-भावचतुष्टयस्यास्तित्वावच्छेदकत्वे तदनवच्छेदकस्य परकीयद्रव्य क्षेत्र-काल-भावचतुष्टयस्थ तत्प्रतिपक्षनास्तित्वावच्छेदकत्वमर्थात् प्राप्तमेव, तथा च स्वकीयद्रव्यादिचतुष्टयैरस्त्येव घट इति ‘स्यादस्त्येव घटः' इत्यनेनाभिहितेऽर्थात् प्राप्तमेव परकीयद्रव्यादिचतुष्टयैर्नास्त्येव घट इत्याह-नास्त्येवेति । स्वद्रव्यादिनाऽस्तित्वं परद्रव्यादिना नास्तित्वं च घटे भावयति-तथाहीति । यच्च स्वद्रव्यादिभ्योऽन्यत् तत् सर्वं परद्रव्यादि, तद्रूपेण नास्तित्वमवसेयमित्याह-एवमिति । तथा च 'स्यादस्ति घटः' इत्यस्य विशेषतः कीदृग् उल्लेख इत्यपेक्षायामाह-वद्रव्यादीति । यदि च घटस्यास्तित्वे
Page #30
--------------------------------------------------------------------------
________________
१२
बालबोधिनीविवृतिविभूषितं ष्टयापेक्षया कथञ्चिदस्ति, परद्रव्यादिचतुष्टयापेक्षया नास्ति च घट इत्युल्लेखः, अन्यस्यान्यदीयरूपापत्तौ स्वरूपहानिप्रसक्तिः। एवकारेण त्वीदृगुल्लेखको भङ्ग इत्यवधारणं स्यात् । अवधारणं च कर्तव्यम्, यदुक्तम्
"वाक्येऽवधारणं तावदनिष्टार्थनिवृत्तये । कर्तव्यमन्यथाऽनुक्तसमत्वात् तस्य कुत्रचित्" ॥१॥
-[ रत्नाकरावतारिका ] तथाप्यस्त्येव कुम्भ इत्येतावन्मात्रीपादाने कुम्भस्य स्तम्भाधस्तित्वेनापि सर्वप्रकारेणास्तित्वप्राः प्रतिनियतस्वरूपानुपपत्तिः स्यात् , तत्प्रतिपत्तये 'स्याद्' इत्यप्यव्ययं प्रयुज्यते ।
निमित्तभेदो नाश्रीयेत तर्हि सर्वात्मना घटस्याऽस्तित्वप्रसक्तौ घटस्य पटा• दिव्यावृत्तत्वेन यद् घटस्वरूपत्वं तदेव विलीयेतेत्याह-अन्यस्येति । 'स्याद्' इत्यनेन कथञ्चिदर्थावबोधनेऽपि एवकारोपादानाभावे खद्रव्यादिनाऽस्तित्वस्येव तदभावस्यापि प्राप्तिरप्रतिषिद्धत्वात् स्याद् , अतस्तन्निवृत्तयेऽवधारणार्थकैवकारोपादानमावश्यकमित्याह-एवकारेण विति । ईगुल्लेखकः स्वद्रव्यादिचतुष्टयापेक्षया कथञ्चिदस्ति परद्रव्यादिचतुष्टयापेक्षया नास्ति च घट इत्येवमुल्लेखकः । भङ्गेऽवधारणस्य कर्त्तव्यत्वे प्राचामनुमतिमुपदर्शयति-यदुक्तमिति । अन्यथा अनिष्टार्थनिवृत्तिप्रयोजनकावधारणार्थकैवकारानुपादाने । प्रतिनियतनिमित्तावबोधकस्यात्पदोपादानाभावे एवकारोपादानेऽपि सर्वप्रकारास्तित्वप्राप्तौ प्रतिनियतस्वरूपहानिः प्रसज्यत इति स्यात्पदमवश्यं प्रयोक्तव्यमित्याह-तथापीति । अवधारणार्थकैवकारोपादानेऽपीत्यर्थः । तत्प्रतिपचये प्रतिनियतस्वरूप
Page #31
--------------------------------------------------------------------------
________________
सप्तभङ्गी-नयप्रदीपप्रकरणम् । कथञ्चिद्रूपेण स्वद्रव्यचतुष्टयापेक्षयाऽस्ति परद्रव्यचतुष्टयापेक्षया नास्तीति प्रयोगप्रतिपत्तये तस्य तु प्रयोगो व्यवच्छेदफलैवकारवदनुक्तोऽपि द्रष्टव्यः, यदुक्तम्
"सोऽप्रयुक्तोऽपि वा तज्ज्ञैः सर्वत्रार्थात् प्रतीयते । यथैवकारोऽयोगादिव्यवच्छेदप्रयोजन" ॥१॥ तत एवकार-स्यात्कारयोः सप्तस्वपि भङ्गेषु ग्रहणं प्रतिपत्तव्यम् । विधिप्रधानत्वाद् विधिरेव प्रथमो भङ्गः।
अथार्थतो द्वितीयभङ्गं प्रदर्शयन्ति-स्थानास्त्येवेति-निषेधप्रधानकल्पनयाऽयं मङ्गः । यदेव नियतं साध्यसद्भावेऽस्तित्वं
प्रतिपत्तये । स्यात्कारलाञ्छितप्रयोगे सति यादृशप्रयोगप्रतिपत्तिभवति तमुपदर्शयति-कथञ्चिद्रूपेणेति । तस्य तु स्यात्पदस्य पुनः । स्थात्पदप्रयोगस्यावश्यकत्वे प्राचां सम्मतिमुपदर्शयति-यदुक्तमिति । स स्थाच्छब्दः। तज्ज्ञैः स्याद्वादज्ञैः । 'अयोगादि०' इत्यादिपदादन्ययोगाऽत्यन्तायोगयोग्रहणम् । एवं च सति सप्तस्वपि भङ्गेषु स्यादेवकारयोः प्रयोग आवश्यक इत्युपसंहरति-तत इति । विधिरूपार्थप्रधानकत्वेन प्रथमभङ्गस्य विधिरूपत्वमित्याह-विधीति । द्वितीयभङ्गमधिकरोतिअथेति । अयं भङ्गा-द्वितीयभङ्गः । अस्तित्वं नास्तित्वाविनाभूतमिति यत्रास्तित्वं तत्रावश्यं नास्तित्वमिति तत्प्रतिपादकस्य द्वितीयभङ्गस्यावश्यकत्वमित्याह-यदेवेति। वह्रिसद्भावे प्रमेयत्वस्यास्तित्वं न नियत ययभावेऽपि प्रमेयत्वस्य भावादिति न वयभावे प्रमेयत्वस्य नास्तित्वमित्यवबोधनाय-नियतमिति । सपक्षसत्त्व-विपक्षासत्त्वयोरविनाभावनिदर्शनेन प्रकृते विधि-निषेधयोरविनाभावस्य साधयितुमभिप्रेतस्य
Page #32
--------------------------------------------------------------------------
________________
बालबोधिनीविवृतिविभूषितं तदेव साध्याभावे साधनस्य नास्तित्वमभिधीयते, यथा घट: खद्रव्यचतुष्टयैरस्तित्वेन सिद्धः, तथा मुद्गरसंयोगादिना नष्टः सन् नास्तित्वरूपेण सिद्धो भवति, अस्तित्वस्य नास्तित्वाविनाभावित्वात् । तथा च क्षणविनश्वराणां भावानामुत्पत्तिरेव विनाशे कारणमिष्यते, तदुक्तम्
"उत्पत्तिरेव भावानां विनाशे हेतुरिष्यते । यो जातश्च न च ध्वस्तः [ स हि नाम न विद्यते ]" ॥१॥ इति उत्पत्तिरस्तित्वस्य सिद्धिं करोति सैव विनाशाऽपरपर्यायनास्तित्वस्य, मूलकारणत्वादविनाभावः सिद्धश्च । न च तेनैव खरूपेणास्तित्व-नास्तित्वयोरेकत्र स्थाने निरूपणाद् भावाऽभावयोरेक्यापत्तेरनिष्टप्रसङ्ग इति? भिन्नभिन्नसमयप्ररूपणायां नैष
साम्यमावेदयति-यथेति । तथा च अस्तित्वस्य नास्तित्वाविनाभूतत्वे च । उत्पत्तेविनाशं प्रति कारणत्वे प्राचां सम्मतिमाह-तदुक्तमिति । ननूत्पत्ति-विनाशयोरविनाभावसिद्धावपि सवासत्त्वयोरविनाभावो न सिद्ध इत्यत आह-उत्पत्तिरिति-नबसत उत्पत्तिरस्तीत्युत्पत्तितोऽस्तित्वं सिद्धं भवति, उत्पत्तेविनाशकारणत्वाद् यत्रोत्पत्तिस्तत्रावश्यं विनाशः, विनाशश्च नास्तित्वमिति कार्यकारणभावादुत्पत्ति-विनाशयोरविनाभावे सत्त्वाऽसत्त्वयोरविनाभावोऽपि सिद्ध इत्यर्थः । ननु येनैव स्वरूपेणोत्पत्तिस्वभावं वस्तु तेनैव स्वरूपेण विनाशस्वभावमपीति स्वरूपाभिन्नत्वात् तयोरैक्यप्रसङ्ग इत्याशङ्कय प्रतिक्षिपति-न चेति । उत्पत्तिस्वभावता यस्मिन् क्षणे ततो द्वितीयक्षणे विनाशस्वभावतेति भिन्नसमये भावाभावस्वभावत्वेऽपि नैकसमये तत्त्वमिति न सर्वथैक्यम् , कथञ्चिदैक्यं विष्टमेवेति प्रतिक्षेपहेतुमुपन्यस्यति-भिन्नभिनेति-यद्यपि एकक्षणेऽप्यु
Page #33
--------------------------------------------------------------------------
________________
सप्तभङ्गी नयप्रदीपप्रकरणम् । दोषः, प्रतिसमयक्षयित्वाद् भावानाम् , नापि यस्मिन् समये उत्पादस्तसिन् विनाश इति मन्यतेऽस्माभिः, ततोऽस्तित्वस्याचिनाभावि नास्तित्वं सिद्धम् । एवं सर्व वस्तु स्व-परद्रव्यचतुष्टयापेक्षयाऽस्ति नास्ति, अस्तित्वप्रधानदशायां प्रथमो भङ्गः । निषेधदशायां तु द्वितीयो भङ्गः। - अथार्थतस्तृतीयभङ्गं प्रकटयन्ति-स्थादस्त्येव स्यान्नास्त्येवेति सर्व वस्तु क्रमेणैव स्व-परद्रव्यादिचतुष्टयाऽऽधाराऽनाधारविवक्षया प्राप्तपूर्वाऽपरभावाभ्यां विधि-निषेधाभ्यां प्रधानतया विशेषितं तृतीयभङ्गभाग भवति, घटवत् , यथा-घटः स्वीयद्रव्या
त्पाद-विनाशौ समनुगतौ तथाऽपि यद्रूपेणोत्पादो न तद्रूपेण विनाशस्तदानी किन्त्वेकरूपेणोत्पादोऽन्यरूपेण विनाशः, यद्पेणोत्पादस्तद्रूपेण विनाशस्तु भिन्नसमय एवेत्याशयः, प्रतिसमयक्षयित्वेऽपि रूपभेदादेवोत्पाद-विनाशाविति न दोषः। वस्तुतः स्थैर्याभ्युपगन्तृभिरस्माभि:वमभ्युपगम्यतेऽपीत्याह--नापीति-एकरूपेणोत्पाद-विनाशयो कसिन् । क्षणे भाव इत्यत्रैव तात्पर्यमवसेयम् । प्रथम-द्वितीयभङ्गयोर्निर्गलितार्थस्वरूपमुपदर्शयति-एवमिति । निषेधदशायां नास्तित्वप्रधानदशायाम् । - तृतीयभङ्गमधिकरोति-अथेति । क्रमेणैवेति-एवकारेण योगपद्यव्यवच्छेदः, योगपद्येनास्तित्व-नास्तित्वयोः प्रधानतया विवक्षायां चतु, र्थभङ्गो दर्शयिष्यते, वस्तुनि विधि-निषेधौ समकक्षौ न पूर्वापरीभूतौतथाऽपि क्रमेण स्वद्रव्यादिचतुष्टयाधारस्य परद्रव्यादिचतुष्टयानाधारस्य घ विवक्षया प्राप्तपूर्वापरभावाभ्यां सत्त्वासत्त्वाभ्यां प्रधानतया विशेषितस्य वस्तुनः प्रतिपादकः 'स्यादस्त्येव स्यान्नास्त्येव घटः' इति तृतीयो भङ्ग इत्यर्थः । उदाहरति-~यथेति ।
Page #34
--------------------------------------------------------------------------
________________
१६
बालबोधिनीविवृतिविभूषितं
द्यपेक्षया कथश्चिदस्त्येव स्यात्, परद्रव्याद्यपेक्षया नास्त्येव स्यात् । विधि प्रतिषेधप्रधानोऽयं तृतीयो भङ्गः ।
अथार्थतश्चतुर्थभङ्गं व्यक्तीकुर्वन्ति - स्यादवक्तव्य [मेवेति-] युगपद्विधि-निषेधकल्पनया चतुर्थ इति सर्दशाऽसदंशयोद्वयोः समकालप्ररूपणानिषेधप्रधानोऽयं भङ्गः तथाही - विधिप्रतिषेधधर्मयोर्युगपत्प्रधानभूतयोरेकस्य पदार्थस्य युगपद्विधि-निषेधद्वय इति प्रधान विधान विवक्षायां तादृक्शब्दस्या[ भावेना] निर्वचनीयत्वादवक्तव्यं घटादि वस्तु, तस्य विधिप्रतिषेधधर्माक्रान्तस्यापि युगपद्द्द्वय धर्मस्यावक्तव्यरूपत्वाद् युगपद्विरुद्धद्वयधर्मस्याप्रयोगः शीतोष्णयोरिव सुखदुःखयोरिवानयोः क्रमेणैवार्थप्रत्यायने साम
तुरीयभङ्गनिरूपणमधिकरोति — अथेति - विधि - निषेधयोर्युगपदेव प्रधानतया विवक्षितयोः समकालमेव तत्प्ररूपणप्रवणस्य कस्यचिच्छब्दस्याभावात् 'स्यादवक्तव्यमेव सर्वं वस्तु' इति तुरीयभङ्ग इत्यर्थः । तुरीयभङ्गं भावयति - तथाहीति । तादृक्शब्दस्य युगपत्प्रधानीभूतविधिनिषेधप्रतिपादकशब्दस्य । अनिर्वचनीयत्वाद् वक्तुमशक्यत्वात्, कोऽपि शब्दो युगपत्प्रधानीभूतविधि-निषेधप्रतिपादको नास्तीत्यभावादेव तादृशशब्दस्यानिर्वचनीयत्वादित्यर्थः । युगपद्विवक्षितप्रधानीभूत-विधिनिषेधधर्मद्वयस्य घटादिवस्तुनोऽवक्तव्यत्वं स्पष्टयति-— तस्येति - घटादिवस्तुनो विधि - निषेधधर्माक्रान्तस्य सतोऽपि युगपद् धर्मद्वयस्यावक्तव्यत्वेन तत्प्रतिपादकशब्दप्रयोगाभाव इति कृत्वा 'स्यादवक्तव्यो घटः' इति तुरीयभङ्ग इत्यर्थः । शीतोष्णशब्दौ सुख-दुःखशब्दौ वा यथा क्रमेणैवार्थप्रत्यायने समर्थी तथा सदसच्छब्दावपि क्रमेणैवार्थप्रत्यायने समर्थौ न तु युगपदित्याह - शीतोष्णयोरिवेति । क्त-क्तवत्वोः सङ्केतितोऽपि
Page #35
--------------------------------------------------------------------------
________________
सप्तभङ्गी - नयप्रदीपत्रकरणम् ।
१७
र्थ्यात्, न तु युगपदितिः क्त क्तवतुसङ्केतितनिष्ठाशब्दवत्, अथवा पुष्पदन्तशब्देन सङ्केतितवत्, निष्ठाशब्देन पुष्पदन्तशब्देन वा क्रमेणैव क्तक्तवत्वोः सूर्य-चन्द्रमसोश्चार्थप्रत्ययः; तेन द्वन्द्वादिपदानामपि युगपदर्थप्रत्यायकत्वमपास्तम्, 'धव - खदिरौ स्तः ' इत्यत्र क्रमेणैव ज्ञानं न युगपदिति, तथैव प्रत्ययत्वात् सम
निष्ठाशब्दो यथाक्रमेणैव क्तक्तवत्वोः प्रतिपादको न तु युगपत्, तथा यः कश्चिदेकः शब्दः सदसतोः सङ्केतितः स्यात् सोऽपि क्रमेणैव तयोः प्रतिपादकः स्यान्न तु युगपदित्याह -- क्त क्तवतुसङ्केतितनिष्ठाशब्दबदिति । एवम् 'एकयोक्त्या पुष्पदन्तौ दिवाकर - निशाकरौ' इति कोशात् पुष्पदन्तशब्दो दिवाकर-निशाकरयोः सङ्केतितोऽपि क्रमेणैव तयोः प्रतिपादको न तु युगपत्, तथा सदसतोः सङ्केतितादप्येकस्माद् यस्मात् कस्मादपि शब्दात् क्रमेणैव तयोः प्रतिपादनं न तु युगपदित्याह — अथवेति । समासवाक्यस्यापि क्रमेणैवार्थद्वयप्रतिपादकत्वं न तु युगपदिति न सदसतोः युगपत् प्रतिपादकं समासवचनमपीत्याह तेनेति । एकस्य शब्दस्य युगपदर्थद्वयप्रतिपादनसामर्थ्यविरहेणेत्यर्थः, अस्य 'अपास्तम्' इत्यनेनान्वयः समासेषु द्वन्द्वसमासस्यैव समस्यमानयावदर्थप्रधानकत्वम्, तस्यापि यदि न युगपदर्थद्वयप्रतिपादकत्वं तर्हि समासान्तरस्य युगपदर्थद्वयप्रतिपादकत्वाभावः प्राप्त एवेति विशिष्य द्वन्द्वस्य ग्रहणम्, आदिपदात् कर्मधारयादीनामुपग्रहः । ' धवखदिरौ स्तः' इत्यत्र यद्यपि धवखदिरयोरुभयोरपि प्राधान्यं तथापि क्रमेणैव धवखदिरयोज्ञानं न युगपदित्याह -धवेति । तथैव क्रमेणैव । प्रत्ययत्वाद्, अनुभक्तलात् खदिरौ स्तः' इति वाक्यतो धवखदिरावगाहिज्ञाने क्रमे२ सप्तभङ्गी -
"
Page #36
--------------------------------------------------------------------------
________________
बालबोधिनीविवृतिविभूषितं कालावाचकत्वात् । अवक्तव्यं जीवा-ऽजीवादि वस्तु युगपद्विधिप्रतिषेधविकल्पनया सक्रान्तमेव प्रत्यवतिष्ठते, अस्तित्व-नास्तित्वधर्मविशिष्टोऽपि समकालमस्तित्व-नास्तित्वाभ्यां वक्तुमनिर्वच. नीयो घट इति फलितार्थश्चतुर्थो भङ्गः ॥
अथार्थतः पञ्चमभङ्गं प्रादुष्कुर्वन्ति-"स्यादस्त्येव स्यादवक्तव्यम्" इति सदंशपूर्वको युगपत्सदंशा-ऽसदंशाऽनिर्वचनीयकल्पनाप्रधानोऽयं भङ्गः । स्वस्वद्रव्यादिचतुष्टयैर्विद्यमानत्वेऽपि
दिन अवता जीवाजीवाधान्येन युगमय जीव
णैव धवखदिरयोरवभासो भवतीति क्रमेणैव धवखदिरप्रत्ययत्वं तज्ज्ञान इत्यर्थः । धवखदिरयोर्युगपदेवामिलापकं नास्ति तत्र किमपि वचनम् , धवशब्दो यदा धवमभिधत्ते तदा नास्ति खदिरशब्दो यस्तदानीमेव खदिरमभिदध्यात् , खदिरशब्दश्च यदा खदिरमभिधत्ते तदा नास्ति धवशब्दो यस्तदानीं धवमभिदध्यादिति समकालं धवखदिरयोरवाचकत्वादित्याह-समकालावाचकत्वादिति । चतुर्थभङ्गाभिप्रेतमर्थमुपदर्शयति-अवक्तव्यमिति-युगपद्विधि-निषेधकल्पनया सङ्क्रान्तमेव-विषयीकृतमेव यदा जीवाजीवादि वस्तु भवति तदा तज्जीवाजीवादि वस्तु अवक्तव्यं प्रत्यवतिष्ठते, प्राधान्येन युगपद् विधिनिषेधविवक्षायां जीवाजीवादि वस्तु कीदृशमिति प्रश्ने 'अवक्तव्यं जीवादि वस्तु' इत्येवमुत्तरवचनाक्रान्तं भवतीत्यर्थः । वक्तुमनिर्वचनीयः वक्तुमयोग्यः । पञ्चमभङ्गमधिकरोति-अथेति-प्रथमभङ्गप्रतिपाद्येन कथञ्चिदस्तित्वेन सह तुरीयभङ्गप्रतिपाद्यस्यावक्तव्यत्वस्य संयोजनया 'स्यादस्त्येव स्यादवक्तव्यमेव सर्वं वस्तु' इति पञ्चमभङ्गः सदंशपूर्वको युगपत्सदसदंशानिर्वचनीयकल्पनाप्रधान इत्यर्थः। पञ्चमभङ्गाभिप्रेतमर्थमुपदर्शयति-वखेति।
Page #37
--------------------------------------------------------------------------
________________
सप्तभङ्गी नयप्रदीपप्रकरणम् । सदंशोऽसदंश इति प्ररूपणां कर्तुमसमर्थेऽसिन् भङ्गे सर्व वस्तु जीवादि स्वद्रव्यचतुष्टयापेक्षया समस्त्यपि विधि-प्रतिषेधरूपाभ्यां वक्तुमनिर्वचनीयम् । अस्त्यत्र प्रदेशे घटः, सद्रूपा-ऽसद्रूपाभ्यां योगपधेन स्वरूपं निर्देष्टुमसमर्थत्वात् विधित्वेऽपि अवक्तव्य इति फलितार्थः पश्चमो भङ्गः॥ ___ अथार्थतः षष्ठं भङ्गं प्रकटयन्ति-"स्यान्नास्त्येव स्यादवक्तव्यम्" इति-निषेधपूर्वको युगपद्विधि-निषेधानिर्वचनीयप्रधानोऽयं भङ्गः। परद्रव्यादिचतुष्टयैरविद्यमानत्वेऽपि सदंशोऽसदंश इति प्ररूपणां कर्तुमसमर्थेऽस्मिन् भङ्गे सर्व वस्तु जीवाजीवादि परद्रव्यचतुष्टयापेक्षया नास्त्यपि विधि-प्रतिषेधरूपाभ्यां वक्तुमनिर्वचनीयम् । नास्त्यत्र प्रदेशे घटः, सद्रूपा-ऽसद्रूपाभ्यां यौगपद्येन खरूपं निर्देष्टुमसमर्थत्वान्नास्तित्वेऽपि अवक्तव्य इति फलितार्थः षष्ठो भङ्गः॥
'स्यादस्त्येव' इत्यनेन खद्रव्यादिचतुष्टयैरस्तित्वविशिष्टः प्रतिपादितो भवति, 'स्यादवक्तव्यम्' इत्यनेन युगपत्प्रधानभावविवक्षानिबन्धनसदंशासदंशानिर्वचनीयस्वरूपविशिष्टः प्रतिपादितो भवति, एकः सदंशोऽपरोऽवक्तव्यांशश्च पञ्चमभङ्गप्रतिपाद्यः, तथाप्रतिपादके च पञ्चमभङ्गे सर्व वस्तु वद्रव्यादिचतुष्टयापेक्षया समस्त्यपि विधि-निषेधरूपाभ्यामनिर्वचनीयमित्यर्थः । पञ्चमभङ्गफलितमर्थमावेदयति-अस्त्यत्रेति । षष्ठं भङ्गमधिकरोति-अथेति। द्वितीयभङ्गप्रतिपाद्येन नास्तित्वेन सह तुरीयभङ्गप्रतिपाद्यस्यावक्तव्यत्वस्य योजनया षष्ठो भङ्गः 'स्यान्नास्त्येव स्यादवक्तव्यमेव सर्वम्' इत्याकारको निषेधपूर्वको युगपद्विधिनिषेधानिर्वचनीयप्रधानक इत्यर्थः । षष्ठभङ्गाभिप्रेतार्थमुपदर्शयति-खद्रव्यादिचतुष्टयैरिति । फलितार्थमाह-नास्त्यत्रेति । सप्तमभङ्गमधिकरोति
Page #38
--------------------------------------------------------------------------
________________
बालबोधिनीविवृतिविभूषितं इदानीमर्थतः सप्तमं भङ्गमाविष्कुर्वन्ति-"स्सादस्त्येव स्यामा स्त्येव स्यादवक्तव्यमिति" इति-अनुक्रमेणास्तित्व-नास्तित्वपूर्वको युगपद्विधिनिषेधप्ररूपणानिषेधप्रधानोऽयं भङ्गः । इतिः सप्तभङ्गीसमाप्तौ । स्वद्रव्यादिचतुष्टयापेक्षयाऽस्तित्वेऽपि परद्रव्यादिचतुष्टयापेक्षया नास्तित्वेऽपि 'विधिर्वा प्रतिषेधो वा' इति प्रतिपादयितुमसमर्थेऽसिन् भङ्गे सर्व जीवादि वस्तु स्वद्रव्यापेक्षयाऽस्ति, परद्रव्यापेक्षया नास्त्यपि समसमयं विधि-प्रतिषेधरूपाभ्यां सह युगपत्प्रतिपादयितुमसमर्थम् , यथा-स्वद्रव्यापेक्षयाऽस्त्यत्र प्रदेशे घटः, परद्रव्यापेक्षया नास्त्यत्र घटः, विधि-निषेधरूपाभ्यां योगपद्येन स्वरूपं निर्देष्टुमशक्यत्वादवक्तव्यम् , इति स्फुटार्थः, इत्यतः 'स्थादस्त्येव स्यानास्त्येव स्यादवक्तव्यम्' इति भङ्गेनोपदर्यत इति ॥
नन्वेकस्मिन् वस्तुनि अनन्तधर्मकल्पनाऽङ्गीकारादनन्तभङ्गी
इदानीमिति-तृतीयभङ्गार्थेन ऋमिकास्तित्वनास्तित्वेन सह चतुर्थभङ्गार्थस्थावक्तव्यत्वस्य योजनया सप्तमो भङ्गः 'स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेव सर्व वस्तु' इति क्रमेणास्तित्वनास्तित्वपूर्वको युगपद्विधिनिषेधप्ररूपणानिषेधप्रधानक इत्यर्थः । सप्तमभङ्गाभिप्रेतमर्थमुपदर्शयतिखद्रव्यादिचतुष्टयापेक्षयेति । फलितार्थमाह-यथेति । ननु सप्तधर्मकल्पनया सप्तमसम्भवतो यथा सप्तभङ्गी तथाऽनन्तधर्मकल्पनाङ्गीकारस्यापि एकस्मिन् वस्तुनि सम्भवादनन्तभद्यपि स्यादिति प्रश्न-प्रतिविधानपरतया 'एकत्र वस्तुनि०' इत्यादिसूत्रत्रयमवतारयितुमाह-नन्विति ।
Page #39
--------------------------------------------------------------------------
________________
सप्तभङ्गी -नयमदीपप्रकरणम् ।
प्रसङ्ग इति ? तत्रोक्तं प्रमाणनयतत्त्वालोकालङ्कारे चतुर्थपरि०" एकत्र वस्तुनि विधीयमान निषिध्यमानानन्तधर्माभ्युपगमेनानन्तभङ्गीप्रसङ्गादसङ्गतैव सप्तभङ्गीति न चेतसि निधेयम् ||३७|| विधि प्रतिषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुन्यनन्तानामपि सप्तभङ्गीनामेव सम्भवात् || ३८ ॥ प्रतिपर्यायं प्रतिपाद्य पर्यनुयोमानां सप्तानामेव सम्भवात् " ॥ ३९ ॥ इति । तथा च
२१
तत्र उक्तप्रने । उक्तं श्रीदेवसूरीशैरुक्तम् । एकत्रेति - एकस्मिन् 'घटादिवस्तुनि विधीयमानाः स्वद्रव्यादिचतुष्टयैः सत्त्वादयः, निषिध्यमानाः परद्रव्यादिभिः सत्त्वादयः, अर्थात् परद्रव्यादिभिरसत्त्वादिलक्षणधर्माः, ते चानन्तधर्मा इति तदभ्युपगमेन तत्प्रतिपादकानन्तभङ्गसमूहलक्षणानन्तभङ्गीप्रसङ्गतः सप्तभङ्गी न सङ्गतेति चेतसि न निधेयमित्यर्थः । एकं सत्त्वधर्ममपेक्ष्य विधिनिषेधकल्पनया सप्तधर्मसम्भवतः सप्तभङ्गी, एवमेकं नित्यत्वधर्ममपेक्ष्य विधिनिषेधकल्पनया सप्तधर्मसम्भवतः सप्तभङ्गी, इत्येवं क्रमेणानन्तानामपि सप्तभङ्गीनामेव सम्भवो न त्वनन्तभङ्गीसम्भव इत्याह-- विधिनिषेधेति । यतः सत्त्वधर्ममाश्रित्य किमस्तित्वमेव किं नास्तित्वमेव ? किं क्रमिके ते एब ? इत्येवं सप्तैव प्रतिपाद्यपुरुषस्य प्रश्नाः, तत उत्तरवाक्यरूपा भङ्गा अपि सप्तैव युक्ता इत्याह-- प्रतिपर्यायमिति । सप्तभङ्ख्याः प्रमाणवाक्यत्वोपपत्तये सकलादेशत्वं नयवाक्यत्वोपपत्तये विकलादेशत्वं देवसूरय आमनन्ति, अन्ये पुनः 'स्यादस्त्येव, स्यान्नास्त्येय, - स्यादवक्तव्यमेव' इति भवन्त्रयस्याखण्डार्थत्वात् सकलादेशत्वम्, 'स्याद- स्त्येव स्याम्नास्त्येव' इत्यादिचतुर्णां भवानां सखण्डार्थत्वाद विकलादेशत्यमित्यभ्युपगच्छन्ति, तत्र श्रीदेवसुस्मितमेवाभिमुखीकृत्याह-राथा चेति
www
Page #40
--------------------------------------------------------------------------
________________
२२
बालबोधिनीविवृतिविभूषितं तत्रैव-"इयं सप्तभङ्गी प्रतिभङ्ग सकलादेशस्वभावा विकलादेशखभावा च ॥४३॥ प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरमेदवृत्तिप्राधान्यादभेदोपचाराद् वा यौगपद्येन प्रतिपादकं वचः सकलादेशः ॥४४॥ तद्विपरीतस्तु विकलादेश" ॥४५॥
तिपालकानयादेशादेकस्यातिपर्यायार्थिकनयादेशान् तदभिन्नतया
उक्तदिशा सप्तभङ्गीव्यवस्थितौ चेत्यर्थः । तत्रैव प्रमाणनयतत्त्वालोकालङ्कार एव, उक्तमिति शेषः। सकलादेशः कः? इत्यपेक्षायामाहप्रमाणेति । 'स्यादस्त्येव घटः' इति भङ्गोऽस्तित्वधर्मात्मकवस्तुन एव प्रतिपादको नानन्तधर्मात्मकवस्तुन इत्यत आह-कालादिभिरिति । द्रव्यार्थिकनयादेशादेकस्यास्तित्वादिधर्मस्य नास्तित्वादिधर्मैः सह कालादिभिरभेदवृत्तिप्राधान्यात् , पर्यायार्थिकनयादेशाद् धर्माणामभेदवृत्तेरसम्भवेनाभेदोपचाराश्रयणाद् वा, एकधर्मप्रतिपादने तदभिन्नतयाऽशेषधर्मप्रतिपादकत्वसम्भवेन यौगपद्येनानन्तधर्मात्मकवस्तुनः प्रतिपादकं 'स्यादस्त्येव घटः' इत्यादिकं वचनं सकलादेशः। तद्विपरीतस्त्विति । सकलादेशविपरीतस्तु, कालादिभिर्भेदवृत्तिप्राधान्याद् भेदोपचाराद् वा क्रमेण वस्त्वेकदेशप्रतिपादकं वचो विकलादेश इत्यर्थः । अयमभिप्रायः- घटे यत्कालेऽस्तित्वं समस्ति तत्काल एव नास्तित्वादिकमपीत्येककालाः सर्वेऽपि धर्माः, तेषां च कालेन सह कथञ्चिदभेदे तदभिन्नाभिन्नस्य तदभिन्नत्वमिति नियमेनास्तित्वाभिन्नकालाभिन्ननास्तित्वादेरस्तित्वाभिन्नत्वमिति 'स्थादस्त्येव' इति वाक्यमस्तित्वप्रतिपादकं सद् अस्तित्वाभिन्नाशेषधर्मप्रतिपादकमित्यस्तित्वाद्यनन्तधर्मात्मकवस्तुप्रतिपादकमित्यतः सकलादेशः । एवं 'स्यान्नास्त्येव' इत्यादिभङ्गा अपि सकलादेशाः । तथाऽस्तित्वस्य घटधर्मत्वं यदात्मरूपं तदेव नास्तित्वादीनामपीत्यस्तित्वा
Page #41
--------------------------------------------------------------------------
________________
सप्तभङ्गी - नयप्रदीपप्रकरणम् ।
२३
के पुनः कालादयः ?, कालः, आत्मस्वरूपम्, अर्थः, सम्बन्धः, उपकारः, गुणिदेशः, संसर्गः, शब्द इत्यष्टौ । सङ्ग्रहश्व
"काला - ssत्मरूप - सम्बन्धाः, संसर्गोपक्रिये तथा । गुणिदेशार्थ - शब्दाचेत्यष्टौ कालादयः स्मृताः” ॥ १ ॥ विशेषार्थजिज्ञासुभिः स्याद्वादरत्नाकरे लघुवृत्तौ च द्रष्टव्यमिति ॥
इति सप्तभङ्गीसमर्थनः प्रथमः सर्गः ॥
भिन्नात्मरूपाभिन्नत्वान्नास्तित्वादीनामस्तित्वाभिन्नत्वमित्येवमप्यस्तित्वप्रतिपादने तदभिन्नत्वान्नास्तित्वादिप्रतिपादनमपीत्यस्तित्वाद्यनन्तधर्मात्मकवस्तुप्रतिपादकत्वाद् भवति 'स्यादस्त्येव' इति भङ्गः सकलादेशः । एवं 'स्यान्नास्त्येव' इत्यादिभङ्गा अपि ज्ञेयाः । एवमर्थादिद्वारकान्तित्वाद्यशेषधर्माभेदभावतः सकलादेशता 'स्यादस्त्येव' इत्यादिभङ्गानां भावनीया ! यः कालादिरस्तित्वस्य स न नास्तित्वादेः, अस्तित्वादिपर्यायाणां भेदे तत्कालादेरपि भिन्नत्वाद्, इत्यस्तित्वात्मकै कधर्मप्रतिपादकमेव 'स्यादस्त्येव' इति वचनम्, तथा 'स्यान्नास्त्येव' इत्यादिवचनमपीति धर्माणां द्रव्यार्थिकनया देशाद् भेदोपचारात् पर्यायार्थिकनया देश द् भेदवृत्तिप्राधान्याद् वा एकैकधर्ममात्रप्रतिपादकत्वात् 'स्यादस्त्येव' इत्यादिभङ्गा विकलादेशा इति । विशेषजिज्ञासुभिरेतत्स्वरूपावगतये स्याद्वादरत्नाकरतदवतारिके विलोकनीये, ग्रन्थगौरवभयान्नात्र विस्तरतः सकलादेशविकलादेशौ भावितावित्युपदिशति - विशेषार्थजिज्ञासुभिरिति । तदयमत्रेत्थं सप्तभङ्गीस्वरूपनिष्कर्षः - प्रतिपाद्यपुरुषसंशया-ज्ञान- विप्रतिपत्त्यपाकरणाय प्रमाणवाक्यमुच्चारयन्ति प्रेक्षादक्षा वक्तारः, येन च वाक्येन
.
Page #42
--------------------------------------------------------------------------
________________
२४
शाक्यं निरस्तस्याः
का
. बालबोधिनीधिवृतिविभूषितं निराकाङ्क्षार्थावबोधस्तदेव वाक्यं प्रमाणवाक्यम्, निराकाङ्क्षार्थावबोधश्च जैनाभ्युपगतसप्तभनयात्मकमहावाक्यत एवेति सप्तभङ्गीवाक्यमेव प्रमाणवाक्यम् । ननु घटेऽस्तित्वस्यैकस्य धर्मस्यावगतिनिबन्धनं घटोऽस्तीति वाक्यं निराकाङ्क्षार्थावबोधजनकत्वाद् भवति प्रमाणवाक्यम् , उररीकुर्वन्ति चैकान्तवादिनस्तस्य घटविशेष्यकास्तित्वप्रकारकप्रमात्मकबोधजनकत्वेन प्रमाणवाक्यत्वमिति नार्थः कश्चित् सप्तभङ्गीवाक्यस्येति तदुपासना महामोहविजृम्भितेति चेत्, न यतो यद् वस्तु तद् अस्तीति सामान्यतः सकलजननिर्णीतमेवेति न तद्विषयकः सामान्यतोऽस्ति संशयः, किन्तु विशेषत एवेति तयपोहाय यदि घटोऽस्तीति वाक्यमस्तित्वविशेषपराऽस्तीतिपदघटितं प्रयुञ्जीत वक्ता, तदा सर्व वाक्यं सावधारणमिति कृत्वा घटोऽस्त्येवेत्येवंरूपं तद्वाक्यमेषितव्यम् , एवं चास्तित्वं यथा घटस्य तथा पटादेरपीति यद्रूपेण पटस्यास्तित्वं तद्रूपेण घटस्याप्यस्तित्वं सर्वथाऽस्तित्वस्वरूपं प्रसज्यत इति घटोऽस्त्येवेति वाक्येन सर्वात्मना घटस्यास्तित्वं बाधितमेव प्रतीयत इति बाधितार्थविषयकप्रतीतिजनकत्वान्न प्रमाणवाक्यत्वमस्येति घटाऽसाधारणास्तित्वावगतिनिबन्धनमेव वाक्यं प्रमाणवाक्यमास्थयम्, तच्च 'स्यादस्त्येव घटः' इत्येवंरूपमेव भवितुमर्हति, तत्रानेकान्तद्योतकेन त्याद्यन्तप्रतिरूपकेण 'स्याद' इत्यनेन कथञ्चिदर्थे निवेदिते स्वद्रव्य-क्षेत्र-काल-भावैरस्तित्वमेव घटस्य प्रतीयते, ततश्च तत् किं नास्तित्वमपि घटस्य ? येन स्वद्रव्यक्षेत्रकालभावरस्तित्वं विशिष्यत इत्याकाङ्क्षा समुपतिष्ठत इति न निराकाङ्क्षपरिपूर्णार्थबोधः 'स्यादस्त्येव घटः' इति वाक्यात् , तत उक्ताकासानिवृत्तये 'स्मानास्त्येव घटः' इति वाक्यमवश्यमेव प्रयोक्तव्यम् ,तत्र सर्वप्रकारनास्तित्वं शून्यतामेष द्रढयेदिति परद्रव्यादिभिर्नास्तित्वावगतये स्यादिति । एवं प्रथमभनेन कथञ्चिदस्तित्वात्मकैकधर्मस्यैवायवोषः, द्वितीयभनेन च कथञ्चिन्नास्ति
Page #43
--------------------------------------------------------------------------
________________
सप्तभङ्गी नयप्रदीपप्रकरणम् । त्वात्मकैकधर्मस्यैवावबोधः, इति विधि-निषेधधर्मद्वयाकलितवस्तुप्रतिपत्त्यभावे तद्विषयिणी आकाङ्क्षा नोपशाम्यतीति विधिनिषेधधर्मद्वयावगतिनिबन्धनं वाक्यमवश्यमेषितव्यम्, तत्र धर्मद्वयावबोधः क्रमसन्निविष्टधर्मद्वयप्रतिपादकवचनद्वयसमनुगतवाक्यात् , तच्च वाक्यं 'स्यादस्त्येव स्यान्नास्त्येव घटः' इति । प्रथमभङ्गेन कथञ्चिदस्तित्वनिष्ठप्रकारतानिरूपितघटनिष्ठविशेष्यताको बोधो भवति, द्वितीयभङ्गेन कथञ्चिन्नास्तित्वनिष्ठप्रकारतानिरूपितघटनिष्ठविशेष्यताको बोधो भवति, उक्तभङ्गयोः सम्मेलनेनैकवाक्यतायामपि कथञ्चिदस्तित्वनिष्ठप्रकारतानिरूपितघटनिष्ठविशेष्यताकः कथञ्चिन्नास्तित्वनिष्ठप्रकारतानिरूपितघटनिष्ठविशेप्यताकश्च समूहालम्बनबोध एव भवेत् , न तु कथञ्चिदस्तित्वनिष्ठप्रकारतानिरूपिता सती कथञ्चिन्नास्तित्वनिष्ठप्रकारतानिरूपिता या घटनिष्ठविशेष्यता तन्निरूपको बोध इति तादृशबोधनिवाकाङ्खानिवर्तकः 'स्यादस्त्येव स्यान्नास्त्येव घटः' इति तृतीयभन्न आवश्यकः । अपि च द्रव्यार्थिकसवहनयादेशाद् यथा कथञ्चिदस्तित्वं धर्मस्तदवबोधनिबन्धनमेकं वचनम् , व्यवहारनयादेशात् कथञ्चिन्नास्तित्वं धर्मस्तदवबोधनिबन्धनं द्वितीयं वचनम् , तथा क्रमेणोक्तनयद्वयार्पणातः कथञ्चिदस्तित्वविशिष्टकथञ्चिन्नास्तित्वखरूपं धर्मान्तरमेव वस्तुनि समुपतिष्ठत इति तत्प्रतिपादकं तृतीयं वचनम् , तेन च कथञ्चिदस्तित्वविशिष्टकथञ्चिन्नास्तित्वनिष्ठप्रकारतानिरूपितघटनिष्ठविशेष्यताको बोधो विशिष्टलक्षणधर्मान्तरविषयको जायते, तादृशश्व बोधो न सममिन्याहृताभ्यामात प्रथम-द्वितीयभङ्गाभ्यामिति तृतीयभास्यावश्यकत्वम् । अस्तित्वं नास्तित्वं च नययविषयो युगपदेव वस्तुनि प्रधानभावेन तिटन इति युगपदेव प्रधानभावेन विवक्षितौ तौ नातीतभात्रमसमधिगती, न च युगपलपान
Page #44
--------------------------------------------------------------------------
________________
२६
वालबोधिनीविवृतिविभूषितं भावविवक्षितधर्मद्वयप्रतिपादने किमपि वचनं प्रगल्भत इति तथाभूतं तद् अवक्तव्यतास्वभावमेव बिभर्तीति तस्य धर्मान्तरत्वव्यवस्थितौ तदवबोधकं वचनमावश्यकम् , तदन्तरेण तद्धर्मविशिष्टतया वस्त्वनवगमे निराकाङ्क्षार्थबोधासम्भवादिति तत्प्रतिपादकं 'स्यादवक्तव्य एव घटः' इति तुरीयभङ्ग आवश्यकः, तेन च कथञ्चिदवक्तव्यत्वनिष्ठप्रकारतानिरूपितघटनिष्ठविशेष्यताको बोधो जायते, युगपत्प्रधानभावविवक्षित धर्मद्वयमवक्तव्यताख्यधर्मभावं भजत इति, यथा च नास्तित्वेऽस्तित्व वैशिष्टयपरिप्रापितं धर्मान्तरं तृतीयभङ्गविषयः, एवं युगपत्प्रधानभावकलितस्यैकदैकेन शब्देन वक्तुमशक्यस्य विधि-निषेधलक्षणधर्मद्वयस्यावक्तव्यतालक्षणस्वभावान्तरशालित्वाद् धर्मान्तरत्वम् , अतस्तत्प्रतिपादकस्तुरीयो भङ्गः । तथाऽस्तित्वांशविधिकल्पना-युगपद्विधिनिषेधावक्तव्यांशकल्पनाभ्यां कथञ्चिदस्तित्व-कथञ्चिदवक्तव्यत्वयोर्वैशिष्ट्याकलननिबन्धनधर्मान्तरस्य प्राप्त्या तत्प्रतिपादकः 'स्यादस्त्येव स्यादवक्तव्य एव घटः' इति पञ्चमभङ्ग आवश्यक एव, तमन्तरेणोक्तविशिष्टलक्षणधर्मान्तरानधिगमे निराकासबोधासम्भवात् । तथा निषेधांशकल्पना-युगपद्विधिनिषेधकल्पनाभ्यां च कथञ्चिन्नास्तित्ववैशिष्टयानुरञ्जितकथञ्चिदवक्तव्यत्वधर्मप्राप्तौ तत्प्रतिपादकः 'स्यान्नास्त्येव स्यादवक्तव्य एव घटः' इति षष्ठो भङ्ग आवश्यकः । एवं क्रमिकविधिनिषेधकल्पना-युगपद्विधिनिषेधकल्पनाभ्यां कथञ्चिदस्तित्वकथञ्चिन्नास्तित्ववैशिष्टयानुस्यूतकथञ्चिदवक्तव्यत्वलक्षणधर्मान्तरप्राप्तौ तदवबोधकः 'स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्य एव घटः' इति सप्तमो भङ्ग आवश्यकः । एकमस्तित्वपर्यायमाश्रित्य विधि-निषेधधर्मद्वयपरिकल्पनयोक्तदिशा सप्तैव धर्माः सम्भवन्ति । न चावक्तव्यत्ववद् वक्तव्यत्वधर्मोऽपि कथं न भवेदिति तत्प्रतिपादकाष्टम
Page #45
--------------------------------------------------------------------------
________________
सप्तभनी नयप्रदीपप्रकरणम् । भङ्गसम्भवतोऽष्टभङ्गी अपि किं न स्यादिति वाच्यम् , यतः कथञ्चिदस्तित्वादिनैव वक्तव्यत्वं भवेदिति यद्यद्र्येण वक्तव्यं भवति वस्त्विति तत्तद्रूपमेवास्तित्वादिकं वक्तव्यत्वमित्यस्तित्वादिप्रतिपादकभङ्ग एव वक्तव्य त्वप्रतिपादक इति नाष्टमः सः, यथा च स्वातन्त्र्येणाऽस्तित्वपर्यायमवलम्ब्य विधि-निषेधकल्पनया सप्तभङ्गी, तथा वस्तुनि वक्तव्यत्वपर्यायोऽपि समस्तीति तद्विधि-निषेधकल्पनापेक्षया कथञ्चिद्वक्तव्यत्व-कथञ्चिदवक्तव्यत्वादिसप्तधर्मप्रतिपादकसप्तभङ्गसम्भवतोऽपरा सप्तभङ्गी सम्भवन्ती न निरोढुं शक्येति; यथा चास्तित्वपर्यायं समाश्रित्य विधिनिषेधविभजनकल्पनया परिप्राप्तेषु धर्मेषु नाष्टमो वक्तव्यत्वाख्यधर्मः प्रविशति तथा निरुक्तसप्तधर्मव्यतिरिक्तधर्मान्तरस्य न प्रवेशसम्भवः । तथाहि-कथञ्चिदस्तित्वं प्रथमभङ्गेन कथञ्चिन्नास्तित्वं द्वितीयभङ्गेन प्रतिपाद्यत इति विधि-निषेधौ तौ स्वातत्र्येणावधृतौ स्तः, अथास्तित्वनास्तित्वे क्रमिकप्रधानभावकल्पनया यदा बोधनीये तदा तयोर्वैशिष्टयं समाश्रित्यास्तित्वविशिष्टनास्तित्वात्मकं यत् तदुभयस्वरूपमापतति, तत्प्रतिपादकं 'स्यादस्त्येव स्यान्नास्त्येव घटः' इति तृतीयभङ्गः, अस्तित्वनास्तित्वयोवैशिष्टयं चास्तिविशिष्टनास्तित्वस्वरूपे नास्तित्वविशिष्टास्तित्वस्वरूपे च पर्यवस्यति, तत्र विशेष्य-विशेषणभावे कामचार इति तद् विशिष्टद्वयं वस्तुगत्यैकरूपमिति तदाधिक्यनिबन्धनातिरिक्तभङ्गस्य न प्रसङ्गः । समसमयं प्रधानतया कल्पनागोचरीकृते वचनपथातीते भवत इति 'स्यादवक्तव्य एव घटः' इति तुरीयभङ्गस्तत्प्रतिपादकः, तत्प्रतिपायेऽवक्तव्यत्वे प्रथम-द्वितीयभङ्गविषयवैशिष्टयतः पञ्चम-षष्ठ-सप्तमभङ्गविषया धर्माः सम्भवन्तीति पञ्चम-षष्ठ-सप्तमभङ्गाः । एवं व्यवस्थिते, पञ्चमभाप्रतिपाद्येऽस्तित्वविशिष्टावक्तन्यत्वे अस्तित्वस्यावक्तव्यत्वस्य वैशिष्ट्यं पुनरुतत्वादेव न प्रविशति, नास्तित्ववैशिष्टयप्रवेशे तु स
Page #46
--------------------------------------------------------------------------
________________
૨૮
बालबोधिनीविवृतिविभूषितं धर्मः सप्तमङ्गप्रतिपाद्य एवेति न ततोऽधिकमासम्भावना । षष्ठमङ्गप्रतिपाद्ये नास्तित्वविशिष्टावक्तव्यत्वेऽपि पुनरुक्तत्वादेव न नास्तित्वावक्तव्यत्वयोर्वैशिष्ट्वं प्रविशति, अस्तित्ववैशिष्ट्यप्रवेशे तु सप्तमभङ्गविषयीभूतधर्मप्राप्तिरेवेति तत्प्रतिपादकः सप्तमभङ्ग एवेति नाधिकभङ्गसम्भवः । सप्तमभङ्गप्रतिपाद्येऽस्तित्व-नास्तित्वविशिष्टावक्तव्यत्वेऽस्तित्व-नास्तित्वाऽवक्तव्यत्वानां मध्यान्न कस्यापि वैशिष्टयं पुनरुक्तभयात् प्रविशति, इत्थमष्टमधर्माभावतोऽष्टमभङ्गासम्भवान्माष्टमङ्गीति भवति सुव्यवस्थितासप्तभङ्गी । तस्याः प्रतिभङ्गमुपपादने कल्पनाविभजनाशब्दसङ्घरचनातस्तत्तद्भङ्गप्रतिपाद्यानां तत्तद्धर्माणां कल्पितत्वमिति कल्पितार्थबोधवैचित्र्यमात्रं सप्तभङ्गया इति न चेतसि निधेयम् , यतः प्रतिपर्यायमाश्रित्यान्योऽन्याऽविभागवृत्तयः सप्तापि धर्मा वस्तुस्थित्याऽनन्तधर्मात्मके वस्तुनि समवयन्ति,तेषां प्रत्येकं स्वस्खनिमित्तापेक्षया वर्तनं यद् अस्ति तत्स्पष्टप्रतिपत्त्यर्थमेव तत्तत्कल्पनातो विभजनाऽऽश्रीयत इति सदर्थविषयिण्येव सा कल्पना, नैतावता काल्पनिकत्वं तत्तद्धर्माणाम् , नहि शाखावच्छेदेन वृक्षे कपिसंयोगो मूलावच्छेदेन तदभाव इति कल्पनया विभज्योपदर्शने वृक्षे कपिसंयोग-तदभावयोः काल्पनिकत्वमिति । सप्तधर्मप्रतिपादनतो निराकाङ्क्षार्थावबोधकत्वेऽपि सप्तभङ्गयाः प्रमाणप्रतिपन्नानन्तधर्मात्मकबस्तुविषयकबोधजनकत्वाभावे प्रमाणवाक्यत्वं न स्यादित्येतदर्थ सकलादेशता समाश्रीयते । द्रव्यार्थिकनयादेशात् कालादिभिरष्टभिरस्तित्वादिनैकधर्मेण सह तदन्येषामशेषधर्माणामभेदवृत्तिप्राधान्यात् पर्यायार्थिकनयादेशादभेदोपचाराद् वाऽस्तित्वाघेकधर्मावभासकत्वतस्तदभिन्नाशेषधर्मावभासकत्वेनामन्तधर्मात्मकवस्तुनो योगपचेन प्रतिपादकत्वं प्रतिमा सकलादेशत्वम्, ततश्च प्रतिभङ्गं प्रमाणवाक्यत्वम् , कालादिभिस्टमि
Page #47
--------------------------------------------------------------------------
________________
सप्तभङ्गी नयप्रदीपप्रकरणम् ।
यदत्र रभसात् किश्चिद् दुरुक्तं मयका बुधैः।। सप्तभङ्गीविवक्षायां शोध्यं शास्त्रानुसारतः॥१॥
र्मेदवृत्तिप्राधान्याद् भेदोपचारादेकैकधर्मावभासकवचनत्वं विकलादेशत्वम्, ततश्च नयवाक्यत्वमित्येवं प्रतिभङ्गं सकलादेशस्वभावा सप्तभङ्गी प्रमाणवाक्यं प्रतिभङ्गं विकलादेशस्वभावा सप्तभङ्गी नयवाक्यमिति देवसूरीणां मतम् । अन्ये पुनः ‘स्यादस्त्येव घटः, स्यान्नास्त्येव घटः, स्यादवक्तव्य एव घटः' इति भङ्गत्रयस्य सकलस्याखण्डस्य प्रतिपादकत्वेन सकलादेशत्वम्, 'स्यादस्त्येव स्यान्नास्त्येव घटः' इत्यादिचतुष्टयस्य विकलस्य सखण्डस्य प्रतिपादकत्वेन विकलादेशत्वमिति स्वीकुर्वन्तीति दिक् । ग्रन्थकारो निरुक्तसप्तभङ्गीस्वरूपनिरूपणसंशोधने बुधान् सम्मुखीकरोति-यदत्रेति । अत्र सप्तभङ्गीस्वरूपनिरूपणे, रभसात् वेगाद् हर्षात् पौर्वापर्याविचाराद् वा मया यत् किश्चिद् दुरुक्तं तत् शास्त्रानुसारतो बुधैः शोध्यम् । एतेन शास्त्रानुसारेण शोधनप्रवृत्तौ दुरुक्तत्वं वस्तुस्थित्या नास्त्येवेति खयमेव ज्ञास्यन्ति बुधाः, ततश्च तेषामेतद्रन्थत आनन्दसमुल्लासोऽप्यनुपचरित इति ॥ इति न्यायविशारद-न्यायाचार्य-कूर्चालसरखती-पूर्वधरासन्नवर्तिचतुश्चत्वारिंशदुत्तरचतुर्दशशतग्रन्थसूत्रणसूत्रधारसूरिपुङ्गवश्रीहरिभद्रसूरिलघुबान्धवप्रभृतिविशदबिरुदावलीभूषित-महामहोपाध्याय-श्रीयशोविजयगणिमणिगुम्फिते सप्तभङ्गी-नयप्रदीपप्रकरणे सप्तभङ्गीनिरूपणात्मकप्रथमसर्गस्य तपोगच्छाधिपतिशासनसम्राट्-सूरिचकचक्रवर्ति-स्वपरसमयपारावारपारीण-बालब्रह्मचारिजगद्गुरुश्रीविजयनेमिसूरीश्वरपट्टालङ्कारेण व्याकरणवाचस्पति-शास्त्रविशारद-कविरत्नेत्युषाधिकलितेनाचार्यविजयलावण्यसूरिणा निर्मिता बालबोधिनी नाम विवृतिः सम्पूर्णा ॥
M
Page #48
--------------------------------------------------------------------------
________________
बालबोधिनी विवृतिविभूषितं [अथ द्वितीयसर्गे नयप्रदीपप्रकरणम् ।] अथानुसप्तभङ्ग नयलक्षणान् प्रारभन्ते-१ नानास्वभावेभ्यो व्यावृत्त्यैकस्मिन् स्वभावे वस्तु नयति-प्राप्नोतीति नयः। २ प्रमाणेन
अथ नयनिरूपणमधिकरोति___ अथेति । अनुसप्तभङ्ग सप्तभङ्गनिरूपणानन्तरम् , यतः "सप्तभङ्गनयानां च वक्ष्ये विस्तरमाश्रुतम्" इत्यनेन सप्तभङ्ग-नयोभयनिरूपणस्य प्रतिज्ञातत्वेन तत्र सप्तभङ्गनिरूपणे वृत्ते सति नयनिरूपणमेवावसरप्राप्तम् , तथा सङ्ग्रहादिनयविषयीकृतार्थस्य सप्तभिर्भङ्गैः प्ररूपणम् , नयद्वययोजनयैव च सप्तभङ्गीप्रवृत्तिरिति नयनिरूपणे सत्येव सप्तभङ्गीस्वरूपावगतिः स्पष्टेति युक्तं सप्तभङ्गनिरूपणानन्तरं नयनिरूपणमिति ।
नयलक्षणान् प्रारभन्त इति-लक्षणशब्दस्य नपुंसकलिङ्गत्वाद् 'नयलक्षणानि प्रारभन्ते' इति पाठो युक्तः । निरुक्तिबलेन नयलक्षणं तावदाह-नानाखभावेभ्य इति-यथा सामान्य-विशेषादिनानास्वभावात्मकं घटादिवस्तु प्रमाणविषयः, तच्च घटादिवस्तु नानास्वभावेभ्यो व्यावृत्त्य-व्यवच्छिद्य एकस्मिन् स्वभावे- सामान्यात्मनि विशेषात्मनि वा सङ्ग्रहनयो व्यवहारादिनयो वा प्राप्नोति- तथावद्वस्तु गृह्णातीति सङ्ग्रहादिर्नय इत्यर्थः।
प्रमाणेनेति-अनन्तधर्मात्मकवस्तुग्राहि प्रमाणम् , तेन सङ्ग्रहीतस्यसम्यग् गृहीतस्य, अर्थस्य-अनन्तधर्मात्मकवस्तुनः, एकोऽशः-सामान्यात्मा विशेषात्मा वा, नया-नयविषयत्वान्नय उपचर्यते, तथा च प्रमाणसङ्ग्रहीतार्थेकांशग्राही नय इत्यर्थः ।
Page #49
--------------------------------------------------------------------------
________________
सप्तभङ्गी नयप्रदीपप्रकरणम् । संगृहीतार्थैकांशो नयः, ३ ज्ञातुरभिप्रायः ४ श्रुतविकल्पो वा इत्येके।
अनुयोगद्वारवृत्तिकृतस्तु [सूत्र० ५९] ५ "सर्वत्रानन्तधर्माध्यासिते वस्तुनि एकांशग्राहको बोधो नयः" इति । ६ "नीयते येन श्रुताख्यप्रमाणविषयीकृतस्यार्थस्यांशस्तदितरांशीदासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नयः" ।
-[प्रमाणनयतत्त्वालोकालङ्कारस्य सप्तमपरिच्छेदे सूत्रम्-१] एतस्यार्थ:-येन प्रत्यक्षादिप्रमाणेन, शब्दप्रमाणेन विषयी
WAN
एतावता ग्राह्यस्वरूपं तस्यावधृतं भवति, ग्राहकं च तत्स्वरूपं किमित्यपेक्षायामाह-ज्ञातुरभिप्राय इति-अभिप्रायश्च जैनमते ज्ञानविशेष एव न्यायादिमते च इच्छाविशेषः । न ज्ञानमात्रं नयः किन्तु श्रुताख्यज्ञानस्यैव विशेषः स इत्याह--श्रुतविकल्पो वेति ।
अनुयोगद्वारवृत्तिकृतामभिमतनयस्वरूपमुपदर्शयति-अनुयोगद्वारवृत्तिकृतस्त्विति-एतन्मते एकांशग्राहिज्ञानमात्रस्यैव नयत्वं न श्रुतविकल्पस्यैवेति । __ श्रीदेवसूरीशसूत्रितं नयलक्षणमाह-नीयत इति । एतस्यार्थः "नीयते येन.” इत्यादिसूत्रस्यार्थः। 'येन' इत्यस्य व्याख्यानम्प्रत्यक्षादिप्रमाणेनेति-अस्य 'नीयते' इत्यनेनान्वयः। श्रुतास्वप्रमाणविषयीकृतस्य' इत्यस्य व्याख्यानम्-शब्दप्रमाणेन विषयीकृतस्पेति । 'अंशः' इत्यत्रैकवचनमविवक्षितम् , तेनांशस्यांशयोरंशानां च ग्रहणम् , तेन नैगमनयस्य सामान्या-ऽवान्तरसामान्य-विशेषग्राहिणः सङ्ग्रहः । एतावता प्रत्यक्षादिप्रमाणात्मैव प्रतिपत्तुरभिप्रायविशेषो नयः,
"नीयज्ञादिप्रमाणेनेति व्याख्यानम तिम् , तेनांशस्थानविशेष
Page #50
--------------------------------------------------------------------------
________________
३२
बालबोधिनीविवृतिविभूषितं
कृतस्त्र पदार्थस्यांशो अंशा वा ( अंशोंऽशावंशा वा ), नीयतेप्राप्यते, इतरांशौदासीन्यभावेन स नयः, 'अंश:' इत्येकवचनं जातावेकवचनम् । तदितरांशप्रतिक्षेपे तु तदाभासताप्रसङ्गः, तदुक्तं पञ्चाशति
“निःशेषांशजुषां प्रमाणविषयीभूयं समासेदुषां
वस्तूनां नियतांशकल्पनपराः सप्त श्रुता भ(ssस) ङ्गिनः । औदासीन्यपरायणास्तदपरे चांशे भवेयुर्नयाश्वेदेकान्तकलङ्कपङ्ककलुषास्ते स्युस्तदा दुर्नयाः " ॥१॥
अंशादिग्राहिणश्च प्रत्यक्षादेर्वस्तुस्थित्या न प्रमाणत्वं किन्तु नयत्वमेव, 'प्रत्यक्षादिप्रमाणेन' इत्युक्तिश्च तद्वति तत्प्रकारकत्वलक्षणव्यावहारिकप्रामाण्य समाश्रयणेन नयेऽपि च तादृशप्रामाण्यमनुमतमेवेति बोध्यम् । यदि अंशों शावंशा वा 'अंश:' इत्यनेन परिगृह्यन्ते तर्हि 'अंशः' इत्येकवचनं कथं संगतमित्यपेक्षायामाह -- अंश इत्येकवचनमिति । इतरांशौदासीन्यभावेन नीयत इति यदुक्तं तत्प्रयोजनमुपदर्शयति-तदित
शप्रतिक्षेपे त्विति । तदाभासताप्रसङ्गः नयाभासताप्रसङ्गः ।
वस्तुनो नियतांशग्राहिण इतरांशाऽप्रतिक्षेपिणो नयत्वम्, इतरांशप्रतिक्षेपिणस्तु नयाभासत्वमित्यत्र पञ्चाशद्वचनं प्रमाणयति - तदुक्तमिति । निःशेषेति - समस्तांशवतां प्रमाणविषयाणां वस्तूनां नियतांशकल्पनपराः - प्रतिनियतांशविषयाः, अपरस्मिन्नंशे चौदासीन्यपराः सप्तप्रकारा आगमोक्ता नया भवेयुः, ते पुनः, एकान्तकलङ्कपङ्ककलुषाःप्रतिनियतांशमात्रमवगाहमानाः सन्तस्तदितरांशप्रतिक्षेपिणः स्युश्चेत् तदा दुर्नया ज्ञेया इत्यर्थः ॥ १ ॥
-
Page #51
--------------------------------------------------------------------------
________________
३३
सप्तभङ्गी नयप्रदीपप्रकरणम्। "अहो! चित्रं चित्रं तव चरितमेतन्मुनिपते!
स्वकीयानामेषां विविधविषयव्याप्तिवशिनाम् । विपक्षापेक्षाणां कथयसि नयानां सुनयतां विपक्षक्षेतॄणां पुनरिह विभो ! दुष्टनयताम्" ॥२॥
-[रत्नप्रभाचार्यकृतस्तुतिद्वात्रिंशिका ] जिनमते यत् किञ्चिन्नयैर्विहीनं न भवति, यदुक्तं विशेपावश्यके
"नत्थि नएहि विहूणं सुत्तं अत्थो अ जिणमए किंचि । आसज्ज उ सोयारं नए नयविसारओ बूया ॥"
[ गाथा-२२७७ ]
लौकिकराजनीतीनां विपक्षापेक्षाणां दुष्टत्वं विपक्षक्षेतृणां सुनयत्वम्, तद्वैपरीत्यं च श्रीमतो भगवतो वीरस्य नीतीनामिति चित्रमेतदित्याह–अहो इति, हे मुनिपते ! श्रीमन्महावीर! एतत् तव चरितं चित्रं चित्रम् । किं तदित्यपेक्षायामाह-स्वकीयानामिति-विविधविषयव्याप्तिकशिनां स्वसम्बन्धिनां विपक्षापेक्षाणां नयानां सुनयतां त्वं कथयसि, हे विभो ! विपक्षक्षेतृणां तेषां नयानां पुनः दुष्टनयतां कथयसीति महदाश्चर्यमित्यर्थः ॥ १ ॥
जिनमते वस्तुमात्रव्यापित्वं नयानामित्युपदिशति-जिनमत इति । उक्तार्थे विशेषावश्यकसंवादमुपदर्शयति-यदुक्तमिति । नत्थीति
"नास्ति नयैर्विहीन सूत्रमर्थश्च जिनमते किञ्चित् । आसाद्य तु श्रोतारं नयान् नयविशारदो ब्रूयात्" ॥ इति संस्कृतम् । ३ सप्तभङ्गी.
NAMMAR
Page #52
--------------------------------------------------------------------------
________________
३४
बालबोधिनीविवृतिविभूषितं । प्रसङ्गानयाभासलक्षणमाह"स्वाभिप्रेतादशादितरांशापलापी [पुनः] नयाभास"
-[ प्रमाण० परि० ७ सूत्रम्-२] स्वस्येप्सितादांशादन्यार्थ प्रतिपद्य(षिध्य)मानो नयवदाभासमान इत्यर्थः, न तु नयः, यथा-अन्यतीर्थिकानां नित्याऽनित्याद्यन्यतरैकान्तप्रदर्शकं वाक्यमिति । ते च नया विस्तारविवक्षायामनेकधा भवन्ति, नानावस्तुन्यनन्तांशानामेकैकांशविधायिनो ये वक्तुरुपन्यासास्ते सर्व नयाः, यदुक्तम्
"जावइया वयणपहा तावइया चेव हुंति नयवादा । जावइया नयवादा तावइया चेव हुंति परसमया" ॥
[विशे० गा० ४५१]
नयलक्षणमभिधाय नयाभासलक्षणमुपदर्शयति-प्रसङ्गादिति । 'स्वाभिप्रेताद्' इतिसूत्रार्थमुपदर्शयति-स्वस्पेप्सितादिति । नयाभासानुदाहरति-यथेति । नयानां व्यासतो भेदा अनन्ता एव, न वक्तुं शक्या इत्युपदर्शयितुमाह-ते च नया इति । कथमनेकप्रकारत्वं तेषामित्यपेक्षायामाह-नानावस्तुनीति-तथा च तत्तद्धर्मप्रतिपादकवक्तवचनानामानन्त्यात् तदात्मकानां तज्जन्यानां च नयानामानन्त्यमित्यर्थः । __ एकैकांशविधायिनां सर्वेषामपि वक्तरुपन्यासानां नयत्वमित्यत्रागमसंवादमाह-यदुक्तमिति । जावइयेति
“यावन्तो वचनपथास्तावन्तश्चैव भवन्ति नयवादाः। यावन्तो नयवादास्तावन्तश्चैव भवन्ति परसमयाः" । इति संस्कृतम् ।
Page #53
--------------------------------------------------------------------------
________________
३५
सप्तभङ्गी-नयप्रदीपप्रकरणम् । इति व्यासतो नयान् प्रवक्तुं न शक्यते । समासतो नयं प्रकटयन्ति-स द्वेधा द्रव्यार्थिकः, पर्यायार्थिकश्व; यदुक्तम्
"णिच्छयववहारनया मूलिमभेदा णयाण सव्वाणं । णिच्छयसाहणहेऊ दव्ययपजट्ठिया मुणह" ॥
[विशे० गा० २३८१] अथ द्रव्यलक्षणमाह-सत् द्रव्यलक्षणम्, सीदति-खकीयान् गुण-पर्यायान् व्यामोतीति सत्, उत्पाद-व्यय-ध्रौव्ययुक्तम् , अर्थक्रियाकारि च सत्;
इति एतस्मात्कारणात् । व्यासतो नयप्रकाराणां वक्तुमशक्यत्वे व्यवस्थिते समासतो नयप्रकार उपदर्शयितुं शक्य इत्यत आहसमासत इति । स नयः, द्रव्यार्थिक-पर्यायार्थिकभेदेन नयो द्विप्रकार इत्यर्थः ।
उक्तार्थे संवादमाह-यदुक्तमिति । णिच्छयेति“निश्चय-व्यवहारनयो मूलभेदौ नयानां सर्वेषाम् । . निश्चयसाधनहेतू द्रव्यपर्यायार्थिको जानीहि" ॥ इति संस्कृतम् । अथ द्रव्यार्थिकनयनिरूपणम्
द्रव्यमर्थो विषयो यस्य स द्रव्यार्थिक इति व्युत्पत्त्या द्रव्यविषयको नयो द्रव्यार्थिकनयः, तत्र द्रव्यरूपविषयस्य ज्ञाने सत्येव, तद्विषयकनयस्य ज्ञानं सुशकमिति द्रव्यलक्षणमुपदर्शयितुमाह-अथेति । सद् इति यदि द्रव्यलक्षणं तर्हि किं नाम जगति वस्तु यन्न सद् ? इति सत्त्वलक्षणयोगात् सर्वस्य वस्तुनो द्रव्यत्वं स्यादित्यत आह-सीदतीतिस्वकीयान् गुण-पर्यायान् यद् व्याप्नोति तत् सद् इत्येतावता गुण-पर्याय
Page #54
--------------------------------------------------------------------------
________________
बालबोधिनीविवृतिविभूषितं
“यदेवार्थक्रियाकारि तदेव परमार्थसत् ।
यच नार्थक्रियाकारि तदेव परतोऽप्यसत्" | इति निज निजप्रदेशसमूहैरखण्डवृच्या स्वभाव-विभावपर्यायान् द्रवति, द्रोष्यति, अदुद्रुवदिति द्रव्यम्, गुण-पर्यायवद् द्रव्यं वा, गुणाश्रयो द्रव्यं वा; यदुक्तं विशेषावश्यकवृत्तौ
३६
"दव दुयए दोरवयवो विगारो गुणाण संदावो । दव्वं भव्यं भावस्स भूयभावं च जं जोग्गं" ॥ २८ ॥ द्रवति- तांस्तान् खपर्यायान् प्राप्नोति मुञ्चति वा, तथा द्रूयते
वदिति द्रव्यलक्षणम् । अथवा उत्पाद-व्यय-धौव्ययुक्तं सत्, तदेव च द्रव्यम् । अथवा यद् अर्थक्रियाकारि तत् सत्, यन्नार्थक्रियाकारि तद्सदिति । तथा च सद् द्रव्यमित्युक्तेऽपि यत्र द्रव्यपदव्युत्पत्तिनिमित्तं घटते तदेव द्रव्यमित्यभिप्रायेणाह - निजनिजेति - तथा च कालत्रयेsपि निजनिजप्रदेश समूहैरविच्छिन्नतया स्वभाव-विभावपर्यायव्यापनस्वभावं वस्तु द्रव्यमित्यर्थः । अस्यैव फलितार्थमाश्रित्याह -- गुण पर्यायवद् द्रव्यं चेति । अत्र गुणस्य द्रव्यमात्रवृत्तित्वे गुणवद् द्रव्यमित्युक्तेऽपि न कश्चिद् दोष इत्यतस्तथैवाह — गुणाश्रयो द्रव्यं वेति ।
विशेषावश्यकवृत्तावुदितं द्रव्यलक्षणमपि द्रव्यपदव्युत्पत्तिमाश्रित्येत्यु
यदर्शयति - यदुक्तमिति । दवए० इति -
- ।
" द्रवति द्र्यते द्रोरवयवो विकारो गुणानां सन्द्रावः ।
द्रव्यं भव्यं भावस्य भूतभावं च यद् योग्यम्" ॥ इति संस्कृतम् । एतद्ाथार्थं दर्शयति---द्रवतीत्यादिना । 'द्रवति' इत्यस्य प्राप्नोतीति यदाऽर्थस्तदा 'स्वपर्यायान्' इत्यनेन 'भविष्यतः स्वपर्यायानू'
Page #55
--------------------------------------------------------------------------
________________
सप्तभङ्गी-नयप्रदीपप्रकरणम् ।
३७ स्वपर्यायैरेव प्राप्यते मुच्यते वा; द्रुः सत्ता, तस्या एवावयवो विकारो वेति द्रव्यम् । अवान्तरसत्तारूपाणि द्रव्याणि महासत्ताया अवयवो विकारो वा भवन्त्येवेति भावः । तथा गुणा रूपरसादयस्तेषां संद्रावः समूहो घटादिरूपो द्रव्यम् । तथा 'भव्यं भावस्स'त्ति भविष्यतीति भावस्तस्य भावस्य, भाविनः पर्यायस्य, यद् भव्यं योग्यं तदपि द्रव्यम्, राज्य(ज)पर्यायार्हकुमारवत् । तथा 'भूतभावं च' इति भूतः पश्चात्कृतो भावः पर्यायो यस्य तद् भूतभावम् , तदपि द्रव्यमनुभूतघृताधारत्वपर्यायरिक्तघृतघटवत्; चशब्दाद् भूत-भविष्यत्पर्यायं च द्रव्यं भूत-भविष्यद्घृताधारत्वपर्यायरिक्तघृतघटवत् । यद् योग्यम्-भूतस्य भावस्य भूत-भविष्यतोश्च भावयोरिदानीमसत्त्वेऽपि यद् योग्यमह तदेव
इत्यस्य ग्रहणम् , 'मुञ्चति' इति यदाऽर्थस्तदा 'भूतान् स्वपर्यायान्' इत्यस्य ग्रहणम् , एवमग्रेऽपि । महासामान्यरूपसत्ताया अवयक्त्वं विकारत्वं वा यथा द्रव्यस्य तथोपपादयति-अवान्तरसत्तारूपापीति । गुणानां सन्द्रावस्य द्रव्यत्वं भावयति-तथा गुणा इति । तेषां रूपादीनाम् , रूपरसगन्धस्पर्शसमूह एव घटादि तिरिक्तस्तेभ्य इति मतमवलम्ब्य । भाविनः पर्यायस्य यद् योग्यं तद् द्रव्यमिति भावयन्नाह-तथेति । भविष्यत्पर्याययोग्ये द्रव्यव्यवहारे दृष्टान्तमाह-राजपर्यायार्हकुमारवदिलि-यः कुमारो नेदानी राजा किन्तूसरकाले राजा भविष्यतीति कृत्वा तद्योग्यतालक्षणव्यतामादाय राजेति व्यवह्रियते । अनुभूतपर्यायस्य वस्तुनो भूतपर्यायापेक्षया द्रव्यत्वं दर्शयति-तथेति । योग्ये द्रव्यत्वं भावयति-यद् योग्यमिति ।
Page #56
--------------------------------------------------------------------------
________________
३८
बालबोधिनीविवृतिविभूषितं द्रव्यमुच्यते, नान्यत्, अन्यथा सर्वेषामपि पर्यायाणामनुभूतत्वादनुभविष्यमाणत्वाच्च सर्वस्यापि पुद्गलादेईच्यत्वप्रसङ्गादिति गाथार्थः॥
प्रसङ्गायातौ स्वभाव-विभावौ पर्यायौ प्रदश्यते-तत्रागुरुलघुद्रव्यविकाराः स्वभावपर्यायाः, तद्विपरीतः स्वभावादन्यथाभवनं विभावः। तत्रागुरुलधुद्रव्यं स्थिरं सिद्धिक्षेत्रम् यदुक्तं समवायाङ्गवृत्तौ___ "गुरुलघुद्रव्यं यत् तिर्यग्गामि वाय्वादि, अगुरुलघु यत् स्थिरं सिद्धिक्षेत्रं घण्टाकारव्यवस्थितज्योतिष्कविमानादीनि" इति ।
R
अन्यथा योग्यस्यैव द्रव्यत्वमित्यस्यानभ्युपगमे ।
'निजनिजप्रदेशसमूहैरखण्डवृत्त्या स्वभाव-विभावपर्यायान् द्रवतीति द्रव्यम्' इति यदुक्तं प्राक् तत्र कः स्वभावपर्यायः? कश्च विभावपर्यायः? इत्याकाङ्क्षानिवृत्तये आह-प्रसङ्गायाताविति । तत्र स्वभाव-विभावपर्याययोर्मध्ये । तद्विपरीतः खभावपर्यायाद् विपरीतः। यस्य यः खभावस्तद्रूपेण प्रतिक्षणं यद् भवनं तत् स्वभावपर्यायः, अगुरुलघुद्रव्यं सिद्धिक्षेत्रं घण्टाकारव्यवस्थितज्योतिष्कविमानादि च स्थिरखभावं प्रतिक्षणं तथाभावेनैव परिणमद् आस्ते, न कदाचिदन्यथाभावेनाऽस्थिरतया परिणमतीति; यच्च पूर्वखभावतोऽन्यथाभावेन परिणमनं तद् विभावपर्याय इत्यर्थः । अगुरुलघुद्रव्यं किम् ? यद्विकारः खभावपर्याय इत्यपेक्षायामाह-तत्रागुरुलघुद्रव्यमिति । गुरुलघुद्रव्यं वाय्वादि यत् तिर्यक् पवते, तद्विपरीतमगुरुलघुद्रव्यं स्थिरं सिद्धिक्षेत्रादिकमित्यत्र समवायाङ्गवृत्तिसंवादमाह-यदुक्तमिति । गुणविकाराणां पर्यायाणां द्वादशविध
amM
Page #57
--------------------------------------------------------------------------
________________
सप्तभङ्गी नयप्रदीपप्रकरणम् । गुणविकाराः पर्यायाः, ते च द्वादशधा-अनन्ता-ऽसङ्ख्यातसङ्ख्यातभागगुण-वृद्धिभ्यां तथानन्ताऽसङ्ख्यातसङ्ख्यातभागगुणहानिभ्यां च षट् षट् इति । विभावपर्यायास्तु नरनारकादिचतुर्गतिरूपाश्चतुरशीतिलक्षयोनयो वा । गुणान् विभजते-अस्तित्वम्१, वस्तुत्वम् २, सामान्यविशेषात्मकं द्रव्यत्वम् ३, प्रमेयत्वम् ४, अगुरुलघुत्वम् ५, प्रदेशत्वम् ६, चेतनत्वम् ७, अचेतनत्वम् ८, मूतत्वम् ९, अमूतत्वम् १०, चेति द्रव्याणां सामान्यगुणा दश, प्रत्येकमष्टौ अष्टौ सर्वेषाम् । ज्ञान-दर्शन-सुख-वीर्य-स्पेर्श-रस
अगर २, सामायोनयो।
त्वमुपदर्शयति अनन्तेत्यादिना-अनन्तभागवृद्धिः १, असंख्यातभागवृद्धिः २, संख्यातभागवृद्धिः ३, अनन्तगुणवृद्धिः ४, असंख्यातगुणवृद्धिः ५, संख्यातगुणवृद्धिः ६, अनन्तभागहानिः ७, असंख्यातंभागहानिः ८, संख्यातभागहानिः ९, अनन्तगुणहानिः १०, असंख्यातगुणहानिः ११, संख्यातगुणहानिश्च १२, तत्कृता द्वादशप्रकारा गुणविकारा इत्यर्थः। विभावपर्यायाणां भेदान् समाख्याति-विभावपर्यायास्विति । 'नरनारकादि' इत्यादिपदात् तिर्यगमरयोरुपग्रहः । गुणान् विभज्य दर्शयति-गुणान् विभजत इति । 'सामान्यविशेषात्मकम्' इति 'द्रव्यत्वम्' इत्यस्य स्वरूपोपरञ्जकं विशेषणम् । अत्र अस्तित्वादिदशसामान्यगुणेषु चेतनद्रव्ये अस्तित्वम् १, वस्तुत्वम् २, द्रव्यत्वम् ३, प्रमेयत्वम् ४, अगुरुलघुत्वम् ५, प्रदेशत्वम् ६, चेतनत्वम् ७, अमूर्त्तत्वम् ८, इत्येवमष्टौ सामान्यगुणाः, अचेतनद्रव्ये च अस्तित्वम् १, वस्तुत्वम् २, द्रव्यत्वम् ३, प्रमेयत्वम् ४, अगुरुलघुत्वम् ५, प्रदेशत्वम् ६, अचेतनत्वम् ७, मूर्त्तत्वम् ८, चेत्यष्टौ सामान्यगुणा इत्याह--- प्रत्येकमष्टौ अष्टौ सर्वेषामिति । विशेषगुणानुपदर्शयति--ज्ञानेत्या
Page #58
--------------------------------------------------------------------------
________________
बालबोधिनी विवृतिविभूषितं
गन्ध-वर्ण-गतिहेतुत्व-स्थिं तिहेतुत्वा-र्वगाहन हेतुत्वं- (त्व) - वर्तनाहेतुत्वं चेतनत्वमॅचेतनत्वं मृर्तत्वममूर्तत्वं चेति द्रव्याणां षोडश विशेषगुणाः । प्रत्येकं जीव- पुद्गलयोः पद, इतरेषां त्रयो गुणाः । अन्त्याश्चत्वारो गुणाः स्वजाति-विजातिभ्यां सामान्या विशेषाश्च ।
४०
दिना - अत्र द्वादश विशेषगुणा एव, चेतनत्वाऽचेतनत्व-मूर्त्तत्वाऽमूर्त्तत्वानां सामान्यगुणत्वेऽपि विशेषगुणत्वमाश्रित्य षोडश विशेषगुणा उद्दिष्टाः । तत्र ज्ञान-देर्शन- सुख- वीर्य चेतनत्वा मूर्त्तत्वानि षड् जीवस्य विशेषगुणाः, स्पर्श-रस- गन्ध-वर्णाऽचेतनत्वा मूर्त्तत्वानि षट् पुद्गलस्य विशेषगुणाः, गतिहेतुत्वाऽचेतनत्वाऽर्तत्वानीति त्रयो धर्मास्तिकायस्य विशेषगुणाः, स्थितिहेतुत्वाऽचेतनत्वा-मूर्त्तत्वानीति त्रयोऽधर्मास्तिकायस्य विशेषगुणाः, अवगाहनहेतुत्वाऽचेतेन त्वा-ऽमूर्त्तत्वानीति त्रय आकाशास्तिकायस्य विशेषगुणाः वर्तनाहेतुत्वाऽचेतनत्वा मूर्त्तत्वानीति त्रयः कालस्य विशेषगुणा इत्याह---- प्रत्येकमिति । इतरेषां धर्मास्तिकायादीनाम् | अन्त्याश्चत्वारो गुणाः चेतनत्वा-ऽचेतनत्व-मूर्त्तत्वामूर्त्तत्वाख्याश्चत्वारो गुणाः । स्वजाति - विजातिभ्यां सामान्या विशेषाश्च चेतनत्वं जीवजातीय सकलवृत्तित्वात् सामान्यगुणः, विजातीयेभ्योऽजीवेभ्यो व्यावृत्तत्वाद विशेषगुणः अचेतनत्वमजीवत्वेन सजातीय सकलाऽजीववृत्तित्वात् सामान्यगुणः, विजातीयेभ्यो जीवेभ्यो व्यावृत्तत्वाद् विशेषगुणः मूर्त्तत्वं पुद्गलत्वेन सजातीयपुद्गलमात्रवृत्तित्वात् सामान्यगुणः, विजातीयेभ्योऽपुद्गलेभ्यो व्यावृत्तत्वाद् विशेषगुणः ; अमूर्त्तत्वमपुद्गलत्वेन सजातीयाऽशेषवृत्तित्वात् सामान्यगुणः, विजातीयपुद्गुलमात्रावृत्तित्वाद् विशेषगुण इत्यर्थः ।
-
-
Page #59
--------------------------------------------------------------------------
________________
सप्तभङ्गी-नयप्रदीपप्रकरणम् । प्रसङ्गतो जीवादिद्रव्याणां स्वभावाः प्ररूप्यन्ते-अस्तिस्वभावः १, नास्तिस्वभावः २, नित्यस्वभावः ३, अनित्यस्वभावः ४, एकस्वभावः ५, अनेकस्वभावः ६, भेदस्वभावः ७, अभेदखभावः ८, भव्यस्वभावः ९, अभव्यस्वभावः १०, परमस्वभाव: ११ (च) एते स्वभावा द्रव्याणां सामान्याः। चेतना-ऽचेतनमृता-ऽमूर्तेकप्रदेशा-ऽनेकप्रदेश-विभाव-स्वभाव-शुद्धा ऽशुद्धोपचरितखंभावा एते दश विशेषस्वभावाः । तत्र चेतन-मूर्त-विभावाऽशुद्धोपचरितस्वभावान् एतान् पश्च मुक्त्वा धर्मादित्रयाणां षोडश स्वभावाः । बहुप्रदेशस्वभावं मुक्त्वा कालस्य पञ्चदश स्वभावाः। जीव-पुद्गलयोरेकविंशतिः खभावाः । संग्रहश्च
"एकविंशतिभावाः स्युर्जीव-पुद्गलयोर्मताः। धर्मादीनां षोडश स्युः काले पञ्चदश स्मृताः" ।
यथा च गुणानां सामान्य-विशेषभावेन द्वैविध्यं तथा स्वभावानामपीति प्रसङ्गतः स्वभावानां निरूपणमधिकरोति-प्रसङ्गत इति । सामान्यखभावा एकादशापि पञ्च च विशेषस्वभावा इति मिलित्वा षोडश स्वभावा धर्माऽधर्माऽऽकाशानामित्याह-धर्मादित्रयाणां षोडश खभावा इति । चत्वारश्च विशेषस्वभावा एकादशापि सामान्यस्वभावा मिलित्वा पञ्चदश स्वभावाः कालस्येत्याह-बहुप्रदेशेति । जीवस्य पञ्चविधकाययोगतः पुद्गलस्वभावस्याऽचेतनत्वादेरपि सम्भवः पुद्गलस्यापि शरीराद्यात्मनो जीवसम्बन्धात् चेतनत्वादिसम्भव इति सामान्यखभावा विशेषस्वभावाश्च सर्वेऽपि जीवपुद्गलयोत्येकविंशतिः स्वभावास्तयोरित्याह-जीवपुद्गलयोरेकविंशतिः खभावा इति । ये च सहभाविनः
Page #60
--------------------------------------------------------------------------
________________
बालबोधिक्निीविवृतिभूषितं स्वभावा अपि गुण-पर्याययोरन्तर्भूता एव द्रष्टव्याः, अन्यथा द्रव्यलक्षणे तयोरिव तेषामपि ग्रहणमभविष्यत् । उक्ता गुणाः । गुणविकाराः पर्यायास्तेऽप्युक्ता एव ॥ एतच्च द्रव्यनयमिश्रितं विशेषार्थप्रतिपत्तये भवति; यदुक्तम्
"नानास्वभावसंयुक्तं द्रव्यं ज्ञात्वा प्रमाणतः । तच सापेक्षसिद्ध्यर्थ स्थानमिश्रितं कुरु"॥
स्वभावास्ते गुणे, ये च क्रमभाविनः स्वभावास्ते पर्यायेऽन्तर्भवन्तीत्याह-स्वभावा अपीति । अन्यथा स्वभावानां गुण-पर्याययोरनन्तर्भावे । द्रव्यलक्षणे गुण-पर्यायवद् द्रव्यमित्येवं द्रव्यलक्षणे । तयोरिव गुण-पर्याययोरिव । तेषामपि स्वभावानामपि, तथा च गुण-पर्यायखभाववद् द्रव्यमिति द्रव्यलक्षणमकरिष्यदाचार्यः, तथाऽकरणाच्च ज्ञायते-यदुत, स्वभावा गुण-पर्याययोरेवान्तर्भूता इति । क्रमेण गुण-पर्यायनिरूपणे उपसंहरते-उक्ता गुणा इति ।
एतच्च गुण-पर्यायवद्र्व्यमित्येवं लक्षितं द्रव्यं च । द्रव्यनयमिश्रितं द्रव्यनयविषयीकृतं सत् । द्रव्यनयमिश्रितस्य निरुक्तखभावद्रव्यस्य विशेषार्थप्रतिपक्तिहेतुत्वे प्राचां संवादमाह-यदुक्तमिति-नाना स्वभावाः सामान्यात्मका विशेषात्मकाश्च येऽनन्तरमभिहितास्तैः संयुक्तं द्रव्यं प्रमाणतः-प्रमाणैात्वा तत्र ये स्वभावा येनापेक्षानिमित्तेन वर्तन्ते तत्सापेक्षसिद्धयर्थं तच्च-निरुक्तद्रव्यं पुनः स्यादित्येतदर्थम् , नयैः-तत्तत्स्वभावग्राहिनयमिश्रितं कुरु, तत्तत्स्वभावसंयुक्तस्य द्रव्यस्य तत्तन्निमित्तसापेक्षस्य सिद्ध्यर्थं तत्तत्स्वभावग्राहिनयविषयीकरणं युक्तं तदन्तरेण तथा तत्सिद्ध्यसंभवादित्याशयः । द्रव्यार्थिकनयेन सिद्ध्यति द्रव्यमतस्तस्य द्रव्यं
Page #61
--------------------------------------------------------------------------
________________
सप्तभङ्गी नयप्रदीपप्रकरणम् । तदेवं द्रव्यमर्थःप्रयोजनं यस्यासौ द्रव्यार्थिकः । सोऽपि युक्तिकल्पनया दशधा, तथाहि--अन्वयद्रव्यार्थिकः, यथा-गुणपर्यायस्वभावं द्रव्यम् १ । स्वद्रव्यादिग्राहको वा, यथा-स्वद्रव्यचतुष्टयापेक्षया द्रव्यमस्ति २ । परद्रव्यादिग्राहको वा, यथा-परद्रव्यादिचतुष्टयापेक्षया द्रव्यं नास्ति ३ । परमभावग्राहको वा, यथा-ज्ञानमय आत्मा, अत्रानेकेषां स्वभावानां मध्याज्ज्ञानाख्यः
प्रयोजनमित्यभिप्रायेण द्रव्यार्थिकनयस्वरूपं निगमयन्नाह-तदेवमिति । द्रव्यार्थिकनयस्य दशविधत्वं प्रतिपादयति-सोऽपीति-द्रव्यार्थिकनयोऽपीत्यर्थः । यद्विषयानुगमनेन द्रव्यार्थिक इति व्यपदिश्यते स विषयोऽन्वयात्मा द्रव्यार्थिकनयविषयत्वाद् द्रव्यार्थिक इत्यन्वयद्रव्यार्थिक इत्याह-अन्वयद्रव्याथिक इति । उदाहरति-यथेति-अत्र गुणपर्यायखभावव्यमपि भवेदन्वयद्रव्यार्थिकः, तद्विषयकज्ञानमपि तथा, तत्र ज्ञानस्य मुख्यं द्रव्यार्थिकत्वम् , तद्विषयत्वाद् गुण-पर्यायखभावद्रव्यस्यापि तत्त्वम् । खद्रव्यादिग्राहको नयो द्वितीयो द्रव्यार्थिक इत्याह-स्वद्रव्यादिग्राहको वेति । तमुदाहरति-यथेति-स्वद्रव्यक्षेत्र-काल-भावापेक्षया द्रव्यमस्तीति ज्ञानं स्वद्रव्यादिग्राहको द्रव्यार्थिक इत्यर्थः । परद्रव्यादिग्राहकस्तृतीयो द्रव्यार्थिक इत्याह-परद्रव्यादिग्राहको वेति । तमुदाहरति-यथेति-परद्रव्य-क्षेत्र-काल-भावापेक्षया द्रव्यं नास्तीति यज्ज्ञानं तत् परद्रव्यादिग्राहको द्रव्यार्थिकनय इत्यर्थः, निषेध्यत्वेन द्रव्यविषयकत्वादस्य द्रव्यार्थिकत्वमवसेयम् । परमभावग्राहकश्चतुर्थो द्रव्यार्थिक इत्याह-परमभावग्राहको वेति । तमुदाहरति-यथेति । स्वभावान्तरेभ्यो ज्ञानाख्यः खभाव आत्मनः परमस्वभावः, तद्राहकत्वाद् ज्ञानमय आत्मेति ज्ञानं परमभावग्राहको द्रव्या
Page #62
--------------------------------------------------------------------------
________________
४४ बालबोधिनीविवृतिविभूषितं परमस्वभावो गृहीतः ४ । कर्मोपाधिनिरपेक्षः शुद्धद्रव्यार्थिको वा, यथा-जीवः सिद्धसदृशः शुद्धात्मा ५। उत्पादव्ययगौणत्वेन .. सत्ताग्राहकः शुद्धद्रव्यार्थिको वा, यथा-द्रव्यं नित्यम् ६। भेदकल्पनानिरपेक्षः शुद्धद्रव्यार्थिको वा, यथा-निजपर्यायस्वभावत्वादभिन्नं द्रव्यम् ७ । कर्मोपाधिसापेक्षोऽसावशुद्धद्रव्यार्थिको वा, यथा-क्रोधादिकर्मजभाव आत्मा ८ । उत्पाद-व्ययसापेक्षो
र्थिकनय इति स्पष्टयति-अत्रेति-ज्ञानमय आत्मेति ज्ञान इत्यर्थः । कर्मोपाधिविनिर्मुक्तशुद्धजीवद्रव्यग्राही नयः कर्मोपाधिनिरपेक्षः शुद्धद्रव्यार्थिक इति पञ्चमो दुव्यार्थिक इत्याह-कोपाधिनिरपेक्ष इति । उदाहरति-यथेति-जीवो यद्यपि संसारी कर्मोपाधिविशिष्टस्तथापि तस्य कर्मोपाधिविमुक्ततयैव शुद्धात्मत्वेन ग्राहकमिदं ज्ञानमुक्तव्यपदेशाहमित्याशयः । षष्ठमुत्पाद-व्ययगौणत्वेन सत्ताग्राहकं शुद्धद्रव्यार्थिकमाह-उत्पादेति । उदाहरति-यथेति-द्रव्ये पर्यायात्मनोत्पादव्यययोः सत्त्वेऽपि तावविवक्षयित्वा प्रधानतया ध्रौव्यांशमात्रमवगाहत इति । पर्यायेण सह भिन्नत्वं तिरस्कृत्याभिन्नत्वमेव द्रव्यस्य प्रधानतयाऽवगाहमानो भेदकल्पनानिरपेक्षः शुद्धद्रव्यार्थिकः सप्तमद्रव्यार्थिक इत्याह-भेदकल्पनेति । तमुदाहरति-यथेति । शुद्धद्रव्यार्थिकस्त्रिधोपदाशुद्धद्रव्यार्थिकोऽपि विधा-कर्मोपाधिसापेक्षः, उत्पादव्ययसापेक्षः, भेदकल्पनासापेक्षश्चेति, तत्र प्रथमं द्रव्यार्थिकस्याष्टमं भेदमाह-कर्मोपाधिसापेक्ष इति । असौ द्रव्यार्थिकः, एवमग्रेऽपि । उदाहरति-यथेति। द्वितीयं द्रव्यार्थिकस्य नवमं भेदमाह---उत्पाद
Page #63
--------------------------------------------------------------------------
________________
सप्तभङ्गी-नयप्रदीपप्रकरणम् । ऽसावशुद्धद्रव्यार्थिको वा, यथैकस्मिन् समये द्रव्यमुत्पाद-व्ययध्रौव्ययुक्तम् ९ । भेदकल्पनासापेक्षोऽसावशुद्धद्रव्यार्थिको वा, यथाऽऽत्मनो दर्शन-ज्ञानादयो गुणाः १०। उक्ता द्रव्यार्थिकस्य भेदाः ॥
साम्प्रतं पर्यायार्थिकनयं व्याचिख्यासुराह-पयति-उत्पादमुत्पत्तिं [ व्ययं ] विपत्तिं च प्राप्नोतीति पर्यायः, यदुक्तम्
"अनादिनिधने द्रव्ये स्वपर्यायाः प्रतिक्षणम् । उन्मजन्ति निमज्जन्ति कूलकल्लोलवजले" ।।
व्ययसापेक्ष इति । उदाहरति-यथेति । तृतीयं द्रव्यार्थिकस्य दशमं भेदं दर्शयति--भेदकल्पनासापेक्ष इति । उदाहरति—यथेति ॥
इति सप्रभेदद्रव्यार्थिकनयनिरूपणम् ॥ अथ पर्यायार्थिकनयनिरूपणम्
समासतो नयो द्विविधः-द्रव्यार्थिकः पर्यायार्थिकश्च, तत्र प्रथमोद्दिष्टो द्रव्यार्थिक एतावता निरूपितः, अथ क्रमप्राप्तं पर्यायार्थिकनयं निरूपयति—साम्प्रतमिति । पर्याय एवार्थः प्रयोजनमस्यासौ पर्यायार्थिक इति निरुक्तिमाश्रित्य पर्यायार्थिकनयस्वरूपं व्याख्यातुकाम आचार्यों व्युत्पत्तितः पर्यायस्वरूपं तावदाह-पर्येतीति । पर्येतीति पर्यायः, तत्र पर्येतीत्यनेन किमुक्तं भवतीत्यपेक्षायामाह-उत्पादमुत्पत्तिं विपत्तिं च प्रामोतीति । उत्पत्तिं विपत्तिं च य आमोति स पर्याय इत्यत्र प्राचां सम्मतिमुपदर्शयति-यदुक्तमिति । अनादिनिधने उत्पाद-विनाशरहिते द्रव्ये, स्वपर्यायाः द्रव्यस्य परिणामाः, प्रतिक्षणमुन्मजन्ति उत्पद्यन्ते निमजन्ति विनश्यन्ति जले समुद्राद्यात्मनि कूलकल्लोलवत् तटे आगच्छद्विगच्छत्तरङ्गवदित्यर्थः । उत्पाद-विनाश
Page #64
--------------------------------------------------------------------------
________________
बालवोधिनीविवृतिविभूषितं पूर्वोक्ता अपि षट् हानि-वृद्धिरूपा नर-नारकादिरूपाचह पर्यायशब्देन गृह्यन्ते । पर्यायो हि द्वेधा-सहभाविपर्यायोऽथ च क्रमभाविपर्यायः; तदुक्तम्
“पर्यायो द्विविधः-क्रमभावी सहभावी च, सहभावी गुण इत्यभिधीयते, पर्यायशब्देन तु पर्यायसामान्यस्य स्वव्यक्तिव्यापिनोऽभिधानान्न दोषः" इति ।
तत्र सहभाविनः पर्याया गुणाः, यथाऽऽत्मनो विज्ञानव्यक्तिशत्यादयः । क्रमभाविनः पर्यायास्त्वात्मनः, यथा-सुखदुःख-शोक-हर्षादयः।
शालिनः परिणामाः पर्यायाः के ? इत्यपेक्षायामाह---पूर्वोक्ता अपीति"अनन्ताऽसङ्ख्यात-सङ्ख्यातभाग-गुणवृद्धिभ्याम् , तथाऽनन्ताऽसङ्ख्यातसङ्ख्यातभाग-गुणहानिभ्याम्" इति ग्रन्थेनाभिहिता अपीत्यर्थः । 'नारकादि इत्यादिपदात् तिर्थगमरयोरुपग्रहः। सहभावि-क्रमभाविभेदाभ्यां पर्यायस्य द्वैविध्यं दर्शयति--पर्यायो हि द्वेधेति । तत्र प्राचां सम्मतिमुपदर्शयति-तदुक्तमिति । ननु पर्यायः क्रममाव्येवेति कथं तेन सहभाविनो ग्रहणमित्यत आह~-पर्यायशब्देन विति । स्वव्यक्तिव्यापिनः स्वस्य पर्यायसामान्यस्य पर्यायत्वस्य व्यक्तिः सहभावी क्रमभावी च तव्यापिनः तदुभयानुगतस्य, पर्यायसामान्यस्य पर्यायशब्देनाऽभिधानात् कथनात् , न दोषः नैकस्य पर्यायस्य ग्रहणं किन्तु द्वयोरपि क्रमभावि-सहभाविनोर्ग्रहणमिति पर्यायो द्विविध इत्युपपद्यत इत्यर्थः । तत्र तयोः पर्याययोर्मध्ये । सहभाविपर्यायानुदाहरति-यथेति-विज्ञानव्यक्तिशक्त्यादय आत्मना सहैवावतिष्ठन्त इति गुणाः सन्तस्ते पर्याया इत्यर्थः । क्रमभाविनः पर्यायानुदाहरति-यथेति-वैषयिकसुख-दुःखा
Page #65
--------------------------------------------------------------------------
________________
सप्तभङ्गी- नयप्रदीपप्रकरणम् ।
पर्याया अपि स्वभाव-विभावाभ्यां द्रव्य-गुणाभ्यां च चतुभेदाः, तथाहि खभावद्रव्यव्यञ्जनपर्यायाश्चरमशरीरात किंचिन्यूनसिद्धपर्यायाः १ | स्वभावगुणव्यञ्जनपर्यायाः, यथा जीवस्थानन्तचतुष्टयरूपाः २ | विभावद्रव्यव्यञ्जनपर्याया गत्यादयः ३ । विभावगुणव्यञ्जनपर्याया मत्यादयः ४ ।
૪૭
दयः कदाचिदेवात्मनः सम्भवन्तीति ते क्रमभाविनः पर्याया इत्यर्थः । पर्यायाणां चातुर्विध्यमुपदर्शयति- पर्याया अपीति । स्वभावद्रव्यव्यञ्जनपर्याया इति-सिद्धस्य स्वभाव एवैषः, यदुत --चरमशरीरात् किञ्चिन्न्यूनपरिमाणक इति, स च सिद्धपर्यायः सिद्धत्वे सत्येव जात इति क्रमभावित्वात् पर्याय इति, सिद्धो जीवद्रव्यमिति द्रव्यस्यैवैष इति, अनन्तरं सर्वदाऽवतिष्ठत इति सिद्धपदप्रवृत्तिनिमित्तत्वाद् व्यञ्जन इति भवन्तिं किञ्चिन्यून सिद्धपर्यायाः स्वभावद्रव्यव्यञ्जनपर्याया इति १ । स्वभावगुणव्यञ्जन पर्याया इति - अनन्तज्ञानाऽनन्तदर्शनाऽनन्तचारित्राऽनन्तवीर्यस्वभावा ज्ञानादिगुणानामिति, ते उत्तरकालं सर्वदाऽवतिष्ठन्त इति शब्दप्रवृत्तिनिमित्ततामुपयान्तीति व्यञ्जनभूतास्त इति जीवस्याऽनन्तचतुष्टयरूपाः पर्याया भवन्ति स्वभावगुणव्यञ्जनपर्याया इति २। विभावद्रव्यव्यञ्जनपर्याया इति - देवादिगत्यादयो जीवद्रव्यस्य क्रमजन्मान इति पर्यायाः, नोत्तरं तथैवावतिष्ठन्त इति विभावाः, देवादिपदप्रवृत्तिनिमित्ततया व्यञ्जनतामुपयान्तीति भवन्ति गत्यादयो विभावद्रव्यव्यञ्जनपर्याया इति ३ । विभावगुणव्यञ्जनपर्याया इति-मत्यादयो ज्ञानादिगुणस्य पर्यायाः क्रमेण भवन्ति नोत्तरकालं सर्वदाऽवतिष्ठन्ते, अथ च मत्यादिशब्दप्रवृत्तिनिमित्ततामुपयान्तीति ते विभावगुणव्यञ्जनपर्यायाः ४ । इति जीवस्य चतुर्भेदाः पर्याया उपदर्शिताः ।
Page #66
--------------------------------------------------------------------------
________________
૪૮
बालवोधिनीविवृतिविभूषितं पुद्गलस्यापि व्यणुकादयो विभावद्रव्यव्यञ्जनपर्यायाः १ । रसरसान्तरगन्धगन्धान्तरादयो विभावगुणव्यञ्जनपर्यायाः २ । अविभागिपुद्गलपरमाणवः स्वभावद्रव्यव्यञ्जनपर्यायाः ३। वर्णगन्धरसैकैकाविरुद्धस्पर्शद्वये च स्वभावगुणव्यञ्जनपर्यायाः ४ ।
अथ पुद्गलस्य ते उपदर्श्यन्ते-पुद्गलस्यापीति । विभावद्रव्यव्यञ्जनपर्याया इति-व्यणुकादयो भूत्वा न सर्वदाऽवतिष्ठन्त इति पुद्गलद्रव्यस्य विभावाः, अथ च घ्यणुकादिसंज्ञानिमित्ततामुपयान्तीति विभावद्रव्यव्यञ्जनपर्याया व्यणुकादयः १ । विभावगुणव्यञ्जनपर्याया इति-रस-गन्धादिगुणस्य रसान्तर-गन्धान्तरादिभावेन परिणमनं गुणपर्यायाः, ते च परावर्तन्त इति विभावाः, अथ च मधुरादिसंज्ञानिमित्ततामुपयान्तीति व्यञ्जनस्वभावा इति भवन्ति रसरसान्तर-गन्धगन्धान्तरादयो विभावगुणव्यञ्जनपर्याया इति २ । स्वभावद्रव्यव्यञ्जनपर्याया इति-पुद्गलद्रव्यस्य तु परमाणवो नियमेनानुस्यूता एव, यद्यप्येके परमाणवो व्यपगच्छन्ति अन्ये समागच्छन्ति तथाऽपि परमाणुसामान्यं पुद्गलाविभक्तमवतिष्ठत इति अविभागिपुद्गलपरमाणवः पुद्गलस्य स्वभावाः, अथागमनव्यपगमनादिपरिणामासादनात् पर्यायाः, परमाणुसंज्ञानिमित्तत्वाद् व्यञ्जनात्मका इति स्वभावद्रव्यव्यञ्जनपर्याया भवन्ति अविभागिपुद्गलपरमाणव इति ३ । स्वभावगुणव्यञ्जनपर्याया इति-एको वर्ण एको गन्ध एको रसः स्पर्शद्वयं चाविरुद्धमिति पुद्गले नियमेनावतिष्ठन्त इति वर्णादिगुणस्वभावोऽयम् , अन्यान्यभावेन परिणमतीति पर्यायः, संज्ञानिमित्ततामुपयान्तीति व्यञ्जनात्मक इति भवन्ति स्वभावगुणव्यञ्जनपर्याया वर्ण-गन्ध-रसैकैका अविरुद्धस्पर्शद्वये
Page #67
--------------------------------------------------------------------------
________________
सप्तभङ्गी नयप्रदीपप्रकरणम् । एवमेकत्व पृथक्त्वादयोऽपि पर्यायाः । उक्तं च--
"एगत्तं च पुहत्तं च संखा संठाणमेव च । संजोगो य विभागो य पञ्जवाणं तु लक्षणम्" ॥
-[ उत्तरा० अ० २८ गाथा-१३ ] । पर्याय एवार्थः प्रयोजनमस्थासौ पर्यायार्थिकः । सोऽपि षड्विधः, तद्यथा-अनादिनित्यपर्यायार्थिकः, यथा-पुद्गलपर्यायो
Www
च ४ । एकत्व-पृथक्त्वादयोऽपि पर्याया अवसेया इत्याह-एवमिति, 'पृथक्त्वादयः' इत्यत्रादिपदात् सङ्ख्या-संस्थान-संयोग-विभागानां ग्रहगम् । एकत्वादीनां पर्यायत्वे उत्तराध्ययनसंवादमुपदर्शयति-उक्तं चेति । एगत्तं च० इति"एकत्वं च पृथक्त्वं च सङ्ख्या संस्थानमेव च ।
संयोगश्च विभागश्च पर्यवानां तु लक्षणम्" ॥ इति संस्कृतम् । एतावता पर्यायस्वरूपावधृतौ पर्यायार्थिकस्य व्युत्पत्त्युपदर्शनेन स्वरूपमाविष्करोति-पर्याय एवेति-पर्यायार्थिकनयेन पर्यायः सिध्यतीति सिद्धयाकलितः पर्यायः पर्यायार्थिकनयस्य प्रयोजनं भवतीति बोध्यम् । ___ पर्यायार्थिकनयस्य षड्डिधत्वमुपदर्शयति-सोऽपीति-पर्यायार्थिकनयोऽपीत्यर्थः, यथा द्रव्यार्थिकनयस्य युक्त्या दशविधत्वं तथा पर्यायार्थिकनयस्य युक्त्या षडियत्वमित्यपिना दर्शितम् । तत्रानादिनित्यपर्यायार्थिकः प्रथमो भेद इत्याह-अनादीति । उदाहरति-यथेतिपुद्गलपर्यायो मेदिनित्यः, तदवगाहि ज्ञानमनादिनित्यपर्यायार्थिको नयः, तद्विषयत्वान्मेर्वादिरपि पुद्गलपर्यायोऽनादिनित्यपर्यायार्थिकः, तथा तद
४ सप्तभनी.
Page #68
--------------------------------------------------------------------------
________________
बालबोधिनीविवृतिविभूषितं मेर्वादिनित्यः १, सादिनित्यपर्यायार्थिकः, यथा-सिद्धपर्यायो नित्यः २, सत्तागौणत्वेनोत्पाद-व्ययग्राहकस्वभावोऽनित्यशुद्धपर्यायार्थिकः, यथा-समयं समयं प्रति पर्याया विनाशिनः३, सत्तासापेक्षस्वभावोऽनित्याशुद्धपर्यायार्थिकः, यथा-एकस्मिन् समये उत्पाद-व्यय-ध्रौव्यात्मकः पर्यायः ४, कर्मोपाधिनिरपेक्षखभावोऽनित्यशुद्धपर्यायार्थिकः, यथा-संसारी जीवः सिद्ध
भिधानमपि, एवम्ग्रेऽपि । द्वितीयं सादिनित्यपर्यायार्थिकभेदं दर्शयतिसादीति । उदाहरति-यथेति-आत्मनः सिद्धपर्याय उत्पद्यत इति सादिः, न च विनश्यतीति नित्य इति, तथा तदवगाहिज्ञानं सादिनित्यपर्यायार्थिकनय इत्यर्थः । अनित्यशुद्धपर्यायार्थिकं पर्यायार्थिकतृतीयभेदमावेदयति-सत्तागौणत्वेनेति-सत्ताया गौणत्वेन ग्राहक उत्पाद-व्यययोः प्राधान्येन ग्राहको नयोऽनित्यशुद्धपर्यायाथिक इत्यर्थः । उदाहरति-यथेति-प्रतिसमयं पर्याया विनाशिन इति ज्ञानं प्राधान्येन पायाणामुत्पाद-विनाशावेव विषयीकरोति स्थैर्यलक्षणसत्तां तु गौणत्वेनैवावगाहत इति भवत्यनित्यशुद्धपर्यायार्थिक इत्यर्थः । सत्तासापेक्षस्वभावमनित्याशुद्धपर्यायार्थिकं चतुर्थभेदमुपदर्शयति-सत्तासापेक्षेति । उदाहरति-यथेति-पूर्वत्र सत्तालक्षणस्थैर्यस्य गौणत्वाच्छुद्धता, अत्र तु सत्तालक्षणस्थैर्यस्याप्यवगाहनादशुद्धतेति बोध्यम् । कर्मोपाधिनिरपेक्षस्वभावमनित्यशुद्धपर्यायार्थिकं पञ्चमं भेदमाह-कर्मोपाधीति । उदाहरति-यथेति-कर्मोपाधिसापेक्षखभावत्वे सिद्धसदृशत्वं शुद्धात्मत्वं मात्मतो नावग़ाहेत ज्ञानमिति तथा तहाहिणो ज्ञानस्य विषयनिबन्धनं कोपाधिनिरपेक्षखभावत्वं युक्तमेव । कर्मोपाधिसापेक्षस्वभावमानत्याशुद्ध
Page #69
--------------------------------------------------------------------------
________________
सप्तभङ्गी-नयप्रदीपप्रकरणम् । सदृक् शुद्धात्मा ५, कर्मोपाधिसापेक्षखभावोऽप्यनित्याशुद्धपर्यायार्थिका, यथा-संसारिणामुत्पत्ति-मरणे स्तः ६, इति पर्यायार्थिकस्य षड् भेदाः॥
अथ तयोः स्थानप्रधानमाह-द्रव्यास्तिकनयो हि नित्यस्थानमेवाह, द्रव्यस्य नित्यत्वात् सकलकालभावित्वाच्च । पर्यायार्थिकस्त्वनित्यमेव स्थानमाह, पर्यायाणामनित्यत्वात् प्रायशः । तदुक्तं राजप्रश्नीयवृत्तौ---
पर्यायार्थिकं षष्ठं भेदमाह-कर्मोपाधीति । उदाहरति-यथेति-जीवस्याऽनादिनिधनस्वभावस्योत्पत्तिमरणे कार्मणशरीरसम्बन्धकृते इति कर्मोपाधिसापेक्षस्वभावत्वम् , विभिन्नकालीनयोरुत्पत्ति-मरणयोरेकत्र विधानं नानुगामिद्रव्यमन्तरेणेति तथाभूतद्रव्यसम्बन्धादशुद्धतेति तथाग्राहिणो ज्ञानस्य विषयनिबन्धनं कर्मोपाधिसापेक्षस्वभावत्वमनित्याशुद्धपर्यायार्थिकत्वं चेति बोध्यम् । उपसंहरति-इति पर्यायार्थिकस्य षड् भेदा इति । ___ स्थाने तयोर्मन्तव्यभेदमुपदर्शयति-अथेति । तयोः द्रव्यार्थिकपर्यायार्थिकनययोः । द्रव्यास्तिकस्य नित्यं द्रव्यमेव विषयस्तस्य त्रिकालावस्थानादिति स्थानमवस्थानमेतन्नये नित्यमित्याह-द्रव्यास्तिकनयो हीति । पर्यायास्तिकनयविषयस्य पर्यायस्य बहुधाऽनित्यत्वात् , केषाञ्चित् पर्यायाणां सिद्धत्वादीनामुत्तरकाले सर्वदाऽवस्थानेऽपि पूर्वकालेऽवस्थानाभावादशुद्धपर्यायस्य नित्यत्वस्यौपाधिकस्य सम्भवेऽपि शुद्धपर्यायस्य नित्यत्वासम्भवात् तत्स्थानमनित्यमित्याह-पर्यायार्थिकस्त्विति । द्रव्यास्तिकस्य नित्यस्थानाभ्युपगमः पर्यायास्तिकस्याऽनित्यस्थानाभ्युपगम इत्यत्र राजप्रश्नीयवृत्तिसंवादमुपदर्शयति-तदुक्तमिति । द्रव्यातिकनये स्थानख
Page #70
--------------------------------------------------------------------------
________________
बालबोधिनीविवृतिविभूषितं "द्रव्यार्थनये नित्यं पर्यायार्थनये त्वनित्यम्"। द्रव्यास्तिकनयो द्रव्यमेव तात्त्विकमभिमन्यते, न तु पर्यार्यान्, द्रव्यं चान्वयि परिणामित्वात् सकलकालभावि भवति । ननु गुणप्रधानस्तृतीयो गुणार्थिकनामा नयः कथं न स्यादिति चेत्, न-गुणानां पर्यायग्रहणेनैव ग्रहणसम्भवात् । ननु द्रव्याणामेव पर्यायास्तर्हि द्रव्यार्थिक-पर्यायार्थिकनयद्वयं कथमिति चेत्,
नित्यत्वमुपपादयति-द्रव्यास्तिकनय इति-स्थानमात्रस्य तत्त्वे सिद्धिस्थानस्य तत्त्वमावेदितं भवतीति । ननु यथा द्रव्यविषयकत्वाद् द्रव्यार्थिकनयः पर्यायविषयकत्वात् पर्यायार्थिकनयस्तथा गुणविषयकत्वाद् गुणार्थिकनयोऽपि भवितुमर्हति, तथा च नयस्त्रिविधः-द्रव्यार्थिकः, गुणार्थिकः, पर्यायार्थिकश्चेत्येवं नयविभागः समुचित इत्याशङ्कतेनन्विति । पर्यायार्थिकनयो हि पर्यायसामान्यावलम्बनः, पर्यायसामान्ये च क्रमभावी पर्यायः सहभावी पर्यायश्चान्तर्भूत इति सहभाविपर्यायरूपगुणविषयकनयोऽपि पर्यायार्थिकनय एवेति नातिरिक्तो गुणार्थिकनय इति समाधत्ते-नेति । नन्वेवं पर्यायार्थिकनयत्वेन सङ्ग्रहाद् गुणार्थिकनयो यदि नातिरिक्तस्तर्हि पर्याया द्रव्यस्यैवेति द्रव्यपदेन द्रव्यसम्बन्धिनः पर्यायस्यापि ग्रहणसम्भवाद् द्रव्यार्थिकनयत्वेन पर्यायार्थिकनयोऽपि सङ्ग्रहीत इति सोऽप्यतिरिक्तो माऽस्त्विति शङ्कते- नन्विति । द्रव्यस्यैव पर्याया इति द्रव्यसम्बन्धित्वेऽपि द्रव्यस्वरूपादनुगामिनः पर्यायस्वरूपस्याननुगामिनः कथञ्चिद् भेद इति भिन्नविषयत्वाद् द्रव्यार्थिकनयात् पर्यायार्थिकनयो भिन्न इति द्रव्यार्थिक-पर्यायार्थिकनयाभ्यां
Page #71
--------------------------------------------------------------------------
________________
५३
सप्तभङ्गी-नयप्रदीपप्रकरणम् । सत्यम्-द्रव्य-पर्याययोः स्वरूपविवक्षायां कश्चिद्विशेष इति 'राहो: शिर' इतिवत् कथञ्चिदभेदे षष्ठी, तथा हि,-द्रव्यादपि सूक्ष्मः पर्यायः, एकस्मिन् द्रव्येऽनन्तानां पर्यायाणां सम्भवात् , द्रव्ये वर्धमाने पर्याया नियमाद् वर्धन्ते, प्रतिद्रव्यं सङ्ख्येयानामसङ्खयेयानामवधिना परिच्छेदात् , पर्याये वर्धमाने च द्रव्यं भाज्यम् ।
"भयणाएँ खेत्त-काला परिवईतेसु दव्व-भावेसु । दव्वे वड्डइ भावो भावे दव्वं तु भयणिऑ" ॥
-[ विशेष्यावश्यक० गाथा-६१९ ]
विभजनं नासङ्गतमिति समाधत्ते-सत्यमिति । द्रव्य-पर्याययोः स्वरूपतोऽपि सर्वथाऽभेदे द्रव्यस्य पर्याया इति षष्ठी न भवेत् , राहोः शिर इत्यत्रापि भेदे सत्येव कथञ्चिदभेदे षष्ठी न सर्वथाऽभेद इत्याहद्रव्य-पाययोरिति । द्रव्य-पर्यायस्वरूपयोर्विशेषमेव भावयतितथाहीत्यादिना । द्रव्यस्य यत्रैकत्वं तत्रापि तत्पर्यायाणामनन्तत्वाद् द्रव्यात् पर्यायस्य सूक्ष्मत्वमित्याह--एकस्मिन् द्रव्य इति । द्रव्ये वर्धमाने पर्याया नियमेन वर्धन्ते, पर्याये वर्धमाने द्रव्यं वर्धते न वेत्यतोऽपि द्रव्य-पर्यायस्वरूपयोर्भेद इत्याह-द्रव्ये वर्धमान इति । अत्रैव हेतुमुपदर्शयति-प्रतिद्रव्यमिति । अवधिना अवधिज्ञानेन । उक्तार्थे विशेषावश्यकभाष्यसम्मतिं दर्शयति-भयणा इति-"भजनया क्षेत्र-कालौ परिवर्द्धमानयोर्द्रव्य-भावयोः । द्रव्ये वर्धते भावो भावे द्रव्यं तु भजनीयम्" ।। इति संस्कृतम् । क्षेत्रतोऽनन्तगुणत्वं द्रव्यस्य, द्रव्याच सङ्ख्यगुणत्वमसङ्ख्येयगुणत्वं वाऽवधिविषयपर्यायस्येत्यतोऽपि द्रव्यख
Page #72
--------------------------------------------------------------------------
________________
बालबोधिनीविवृतिविभूषितं पुनश्च क्षेत्रादपिचानन्तगुणं द्रव्यम्, द्रव्यादपि चावधिविषया: पर्यायाः सङ्ख्येयगुणा असङ्ख्येयगुणा वा ।
"खित्तपएसेहितो दव्वमणंतगुणियं पएसेहिं । ... दवेहितो भावो संखगुणोऽसंखगुणिओ वा"।
-[ विशेषावश्यक० गाथा-६२५ ] - एतत् सर्व नन्दिटीकायां सविस्तरमभिहितम् । तस्माद् द्रव्यपर्याययोः स्वरूपविवक्षातो भिन्नत्वाद् भिन्ना नया द्रव्यार्थिकाः पर्यायार्थिकाश्च । ते च यद्यपि स्वभावभेदैः परस्परं मिलन्तोऽपि खखपृथग्भावं न त्यजन्ति, उक्तं च-- रूपात् पर्यायस्वरूपस्य भेद इत्याह---पुनश्चेति । पर्यायाणामवधिविषयतयोपदर्शनं च तथाऽभ्युपगमे प्रामाणिकत्वख्यापनाय । अत्रापि भाष्यसम्मतिमाह-खित्त० इति-"क्षेत्रप्रदेशेभ्यो द्रव्यमनन्तगुणितं प्रदेशैः । द्रव्येभ्यो भावः सङ्ख्यगुणोऽसङ्ख्यगुणितो वा” ॥ इति संस्कृतम्। विशिष्यैतत्तत्त्वावबोधनाय नन्दिटीका विशेषार्थिभिरवलोकनीयेत्युपदिशति-एतत् सर्वमिति । द्रव्यार्थिक-पर्यायार्थिकनययोर्विषयस्वरूपमेदाद् भेदं निगमयति-तसादिति । अर्थनयत्व-शब्दनयत्वादिभिः प्रदेश-वसत्यादिदृष्टान्तनिर्णीताभ्युपगमप्रकारैश्च परस्परं केषाञ्चिन्नयानां मेलनेऽपि यत्किञ्चिद्विषयवैलक्षण्यनिबन्धनान्योऽन्यपृथग्भावात्यागित्वमेवेत्युपदर्शयति-ते चेति-नयाश्चेत्यर्थः । अन्योऽन्यसम्मीलन-खस्वपृथग्भावापरित्यागौ नयानामित्यत्र वृद्धसम्मतिमुपदर्शयति-उक्तं चेति। अण्णोण्णं इति-“अन्योऽन्यं प्रविशन्तो ददतोऽवकाशमन्योऽन्यम् । मिलन्तोऽपि च नित्यं खस्वभावं न विजहति" ॥ इति संस्कृतम् । कैः
Page #73
--------------------------------------------------------------------------
________________
M
सप्तभङ्गी नयप्रदीपप्रकरणम् । "अण्णोण्णं पविसंता दिता ओगास अण्णमण्णस्स । मेलंता वि अ णिचं सगसगभावं न विजहंति" ॥
स्वभावभेदोऽग्रे वक्ष्यते । ननु द्रव्य-पर्यायव्यतिरिक्तौ सामान्यविशेषौ विद्यते तत् कथं न सामान्यार्थिक-विशेषार्थिकनामानौ
नयौ भवतः १ इति चेत्, न-द्रव्य-पर्यायव्यतिरिक्तसामान्य- विशेषाप्रसिद्धेः, तद् यथा, प्रसङ्गात् सामान्यं दर्शयति-- __ "सामान्यं द्विधा-एकं तिर्यक्सामान्यमपरमूर्खतासामान्यम्" ॥
-[ प्रमाण० परि० ५ सू० ३] आद्यलक्षणमाह--- खभावविशेषैरन्योन्यं मिलन्ति ते ? इत्यपेक्षायामाह-स्वभावभेदोऽग्रे वक्ष्यत इति । ननु यथा द्रव्यविषयकत्वाद् द्रव्यार्थिकः पर्यायविषयकत्वात् पर्यायार्थिकस्तथा सामान्यविषयकत्वात् सामान्यार्थिको विशेषविषयकत्वाद् विशेषार्थिकोऽपि नयः किं न स्यात् ? न च सामान्यविशेषौ धर्मस्वरूपौ धर्मिणोर्द्रव्य-पर्याययोरन्तर्भवत इत्याशङ्कतेनन्विति । सामान्य-विशेषयोर्द्रव्य-पर्याययोरेवान्तर्भावान व्यतिरिक्तौ सामान्य-विशेषौ स्त इति न तद्राहिणौ नयावप्यतिरिक्ताविति समाधत्ते-नेति । सामान्य-विशेषयोः स्वरूपनिरूपणे सत्येव तयोर्द्रव्य-पर्याययोरन्तर्भावो ज्ञातुं शक्य इति तौ निरूपयितव्यौ, तत्र प्रथमोपस्थितत्वात् प्रथमं सामान्यं निरूपयति-प्रसङ्गादिति । अनुगतप्रतीतिनिबन्धनत्वं सामान्यस्य लक्षणमन्यवादिनोऽप्यभिमतमतस्तद्विभागमेवावेदयतिसामान्यं द्विधेति । परसामान्यमपरसामान्यमित्येवमतिरिक्तसामान्यवादिनोऽभिमतं द्वैविध्यं न स्याद्वादिनोऽभिमतं किन्तु तिर्यक्सामान्यमेकमपरं चोर्ध्वतासामान्यमित्येवं द्वैविध्यमित्याह-एकमिति । आधलक्षणमाह
Page #74
--------------------------------------------------------------------------
________________
५६
'बालबोधिनीविवृतिविभूषितं
" प्रतिव्यक्ति तुल्या परिणतिस्तिर्यक्सामान्यम्, यथा-शबलशाबलेयपिण्डेषु गोत्वम् " ॥ इति ।
-- [ प्रमाण० परि० ५ सू० ४ ]
www
तिर्यक्सामान्यं च गवादौ गोत्वादिस्वरूपतुल्यपरिणतिरूपम्, उदाहरणं च-तजातीय एवायं गोपिण्डो वा गोसदृशो गवय इति वा । द्वितीयलक्षणमाह
"पूर्वापरपरिणामसाधारणद्रव्यमूर्ध्वतासामान्यम्, यथाकटक - कङ्कणाद्यनुगामि काञ्चनम् " || इति ।
-- [ प्रमाण० परि० ५ सू० ५ ]
तिर्यक्सामान्यलक्षणं कथयति । प्रतिव्यक्तीति यादृशी परिणतिरेकगोव्यक्तस्तादृश्येव परिणतिर्गवान्तरव्यक्तेरपीति व्यक्तीनां सामान्यपरिणतिस्तिर्यक्सामान्यमित्यर्थः । तिर्यक्सामान्यमुदाहरति—यथेति - शाबलशाबलेयगो पिण्डेषु सदृशाकारपरिणामो यस्तदेव गोत्वं तिर्यक्सामान्यमित्यर्थः । एतदेव स्पष्टयन्नाह - तिर्यक्सामान्यं चेति । उदाहृतस्य गोत्वादिरूपतुल्यपरिणतिस्वरूपतिर्यक्सामान्यस्य ज्ञानाकारमुदाहरति — उदाहरणं चेति-गृहाङ्गणे या गोव्यक्तिर्मया दृष्टा तज्जातीय एवायं गोपिण्ड इत्यस्मिन् प्रत्यभिज्ञाने पूर्वोपलब्धगव्या सममिदानीमनुभूयमानगोपिण्डस्य साजात्यं यद् भासते तत् तुल्यपरिणतिरूपं सामान्यमित्यर्थः । गवि गवये च या समानपरिणतिस्तद्रूपतिर्यक्सामान्यविषयकः 'अयं गोसदृशो गवयः' इति बोध इत्याह- गोसदृशो गवय इति वेति । द्वितीयलक्षणमाह ऊर्ध्वतासामान्यलक्षणं कथयति । पूर्वेति - सुवर्णस्य पूर्वपरिणामः कटकात्माऽपरपरिणामः कङ्कणादिस्तदुभयसाधारणं तदुभ
Page #75
--------------------------------------------------------------------------
________________
सप्तभङ्गी नयप्रदीपप्रकरणम् । ५७ ऊर्ध्वतासामान्यं च परापरविवर्तव्यापि मृत्स्नादिद्रव्यम् , त्रिकालगामि चैतत् । तदुक्तं वृत्तौ___“पूर्वापरपर्याययोरनुगतमेकं द्रव्यम् , द्रवति-तांस्तान् पर्यायान् गच्छतीति व्युत्पत्त्या त्रिकालानुयायी यो वस्त्वंशस्तदूर्ध्वतासामान्यमित्यभिधीयते" इति ।
कटके कङ्कणे च तत् काञ्चनमेव, अथवा स एवायं जिनदत्त इत्युदाहरणम् । तत्र तिर्यक्सामान्यं तु प्रतिव्यक्ति सादृश्यपरिणतिलक्षणं व्यञ्जनपर्याय एव, “स्थूलाः कालान्तरस्थायिनः
यानुगतं यत् सुवर्णादि द्रव्यं तद् ऊर्ध्वतासामान्यमित्यर्थः । उदाहरतियथेति। तिर्यक्सामान्यत ऊर्ध्वतासामान्यस्य वैलक्षण्यं भावयति-ऊर्ध्वतासामान्यं चेति । परेति-परः पूर्वोऽपर उत्तरो यो विवर्तः परिणामस्तद्व्यापि तदनुगामि यन्मृत्लादि द्रव्यं तद् ऊर्ध्वतासामान्यम् । यत इदं परापरविवर्तव्यापि ततस्त्रिकालगामि भवतीत्याह-त्रिकालगामीति । एतत् ऊर्ध्वतासामान्यम् । अत्रार्थे वृत्तिसंवादं दर्शयति-तदुक्तं वृत्ताविति-रत्नाकरावतारिकायामित्यर्थः । पूर्वापरेति-स्पष्टम् । कटककङ्कणानुगामिकाञ्चनद्रव्यलक्षणमूर्ध्वतासामान्यं पूर्व भावितमेव, उदाहरणान्तरमाह-अथवेति-जन्मन आरभ्य मरणपर्यन्तमवयवोपचयापचयतो जिनदत्तशरीरानेकतायामप्यनुगतं जिनदत्तशरीरं समस्त्येव यतो भवति स एवायं जिनदत्त इति, पूर्वापरशरीरानुगामिजिनदत्तशरीरमूर्ध्वतासामान्यमित्यर्थः । उर्ध्वतासामान्यस्य वैलक्षण्यमुपदर्य तिर्यक्सामान्यस्य वैलक्षण्यमुपदर्शयति-तत्र तिर्यक्सामान्यं त्विति । तिर्यक्सामान्यस्य व्यञ्जनपर्यायतायां प्रावचनिकप्रसिद्धिं प्रमाणयति-स्थूला
Page #76
--------------------------------------------------------------------------
________________
५८
वालबोधिनीविवृतिविभूषितं शब्दानां सङ्केतविषया व्यञ्जनपर्यायाः" इति प्रावचनिकप्रसिद्धः। ऊर्ध्वतासामान्यं तु द्रव्यमेव विवक्षितम् । विशेषोऽपि सामान्यवैसदृश्य-विवर्तनलक्षणो व्यक्तिरूपः पर्याय एवान्तर्भवतीति न ताभ्यामधिकावकाशो नयस्य ।
इति-स्पष्टप्रतीयमानावयवसमानसंस्थानविशेषस्वरूपत्वात् स्थूलत्वमवसेयम् , कालान्तरस्थायित्वमूर्ध्वतासामान्यस्यापि परमेकप्रवाहानुवृत्त्यैव, अत्र त्वेकगोव्यक्तिविनाशेऽपि तव्यक्तिसन्तानोच्छेदेऽपि देशान्तरे कालान्तरे च ज्ञायमानगोव्यक्त्यन्तरेऽवस्थानतः कालान्तरस्थायित्वमिति विशेषः । शब्दानां गवादिशब्दानाम् । सङ्केतविषयाः प्रवृत्तिनिमित्ततया सङ्केतविषयाः, अत एव व्यञ्जनपर्याया इत्येवं प्रावचनिकानां प्रवचनाभिज्ञानां वृद्धानां प्रसिद्धेः व्यवहारादित्यर्थः। एवं च सति तिर्यक्सामान्यं व्यञ्जनपर्याय इति तदवगाहिनयः पर्यायार्थिकनय एवे. त्यर्थः । पूर्वापरविवर्तानुगामिद्रव्यमेवोर्ध्वतासामान्यमिति तदवगाहिनयो द्रव्यार्थिकनय एवेत्याह-ऊर्ध्वतेति । तथा च सामान्यार्थिकनयो द्रव्यार्थिकनये पर्यायार्थिकनये चान्तर्भूतत्वान्नातिरिक्त इत्याशयः। विशेषस्तु पर्यायखरूप एवेति तद्विषयकनयस्य पर्यायार्थिकनय एवान्तर्भाव इत्याह --विशेषोऽपीति । सामान्येति-सामान्यमनुगतं ततो यद् वैसदृश्यं व्यावृत्तत्वेन वैलक्षण्यं तथा प्रतिक्षणं यद् विवर्त्तनं तल्लक्षणस्तद्रूपोऽत एव व्यक्तिरूपः, स च पर्याय एवान्तर्भवतीति विशेपावगाहिनयस्य पर्यायार्थिकनयेऽन्तर्भाव इत्यर्थः । इति एतस्मात् कारणात् । ताभ्यां सामान्य-विशेषलक्षणविषयाभ्याम् । न नयस्याधिकावकाशः सामान्यार्थिकनयः पर्यायार्थिकनय इत्येवमाधिक्यं नेत्यर्थः ।
Page #77
--------------------------------------------------------------------------
________________
सप्तभङ्गी नयप्रदीपप्रकरणम् । अथ सप्तनयसङ्ख्यामाह-अयो द्रव्यार्थिकनयः, तस्य त्रयो मेदाः-नैगम-सङ्ग्रह-व्यवहारभेदात् ।
द्वितीयः पर्यायार्थिकनयः, तस्य ऋजुसूत्र-शब्द-समभिरूद्वैवम्भूतनयभेदाचत्वारो भेदाः। तदुभयोभैदसङ्ग्रहे च सप्तैव नयाः ।
"पञ्चैव नयाः, षडेव नयाः, चत्वार एव मूलनया" प्रवचनसारोद्धारवृत्तौ [१२४ द्वारे] ।
ranmmms
WM
अथ नयसङ्ख्यानिरूपणम्
अथ द्रव्यार्थिकनयस्त्रिविधः, पर्यायार्थिकनयश्चतुर्विधः, तयोर्मेलने सप्त नया भवन्तीत्येवं सङ्ख्यामुपदर्शयति-अथेति । तस्य व्यार्थिकनयस्य । नैगमेति नैगमः सङ्ग्रहो व्यवहारश्चेत्येवं द्रव्यार्थिकनयस्य त्रयो भेदा इत्यर्थः । तस्य पर्यायार्थिकनयस्य, अस्य चत्वारो भेदाः' इत्यनेनान्वयः, ऋजुसूत्रः शब्दः समभिरूढ एवम्भूत इत्येवं पर्यायार्थिकनयस्य चत्वारो भेदा इत्यर्थः । तदुभयोः द्रव्यार्थिक-पर्यायार्थिकयोः । भेदसङ्ग्रहे भेदानां त्रयाणां चतुर्जा विशेषाणां सङ्ग्रहे मेलने । द्रव्यार्थिकस्य पूर्वोक्तास्त्रयो भेदाः, पर्यायार्थिकस्य ऋजुसूत्र-शब्दौ, शब्दत्वेन शब्द-समभिरूदैवम्भूतानां ग्रहणमिति तत्सङ्ग्रहे पञ्चैव नया इत्याह । नैगमस्य सामान्यग्राहिणः सङ्ग्रहे विशेषग्राहिणस्तस्य व्यवहारेऽन्तर्भाव इति नैगमनयोऽतिरिक्तो नास्तीति द्रव्यार्थिकस्य द्वौ भेदौ, पर्यायार्थिकस्य यथोक्ता ऋजुसूत्रादयश्चत्वारो भेदा इति तत्सङ्ग्रहे षडेव नया इत्याह । अथवा द्रव्यार्थिकस्य सङ्ग्रह-व्यवहारौ द्वौ भेदौ, पर्यायार्थिकस्य ऋजुसूत्र-शब्दौ, शब्दे च शब्दादीनां त्रयाणामन्तर्भावः, तयोः सझन्हे
Page #78
--------------------------------------------------------------------------
________________
बालबोधिनीविवृतिविभूषितं सविस्तरमग्रे वक्ष्यन्ते । यदुक्तमनुयोगद्वार-तद्वृत्त्यादिषु"णेगेहि माणेहिं मिणइ त्ति णेगमस्य य निरुत्ती । सेसाणं पि नयाणं लक्खणमिणमो सुणह वोच्छं। १३६ ॥ संगहियपिण्डियत्थं संगहवयणं समासओ विति । बच्चति विणिच्छयत्थं ववहारो सव्वदव्वेसु ।। १३७ ॥ पच्चुप्पन्नग्गाही उज्जुमओ णयविही मुणेयव्यो । इच्छति विसेसियतरं पच्चुप्पन नओ सद्दो ॥ १३८॥ वत्थूओ संकमणं होइ अवत्थू गए समभिरूढे । वंजण-अत्थ-तदुभए एवंभूओ विसेसेति ॥ १३९ ॥ नायंमि गिहियव्वे अगिव्हियव्वे य इत्थ अत्थंमि । जइयव्यमेव इइ जो उवएसो सो नओ नाम" ॥ १४० ॥
ANNA
चत्वार एव मूलनया इत्याह । नैगमादिनयानामनुयोगद्वार-तद्वृत्त्यादिगतं लक्षणमुपदर्शयति-णेगेहि० इति
"नैकैनिर्मिनोतीति नैगमस्य च निरुक्तिः । शेषाणामपि नयानां लक्षणमिदं शृणुत वक्ष्ये ।। १३६ ॥ सङ्गृहीतपिण्डितार्थ सङ्ग्रहवचनं समासतो ब्रुवन्ति । ब्रजति विनिश्चयार्थ व्यवहारः सर्वद्रव्येषु ॥ १३७ ।। प्रत्युत्पन्नग्राही ऋजुसूत्रो नयविधिर्ज्ञातव्यः । इच्छति विशेषिततरं प्रत्युत्पन्नं नयः शब्दः ॥ १३८ । वस्तुनः सङ्क्रमणं भवति अवस्तु नये समभिरूढे । व्यञ्जनार्थतदुभयानेवम्भूतो विशेषयति ॥ १३९ ॥
Page #79
--------------------------------------------------------------------------
________________
सप्तभङ्गी नयप्रदीपप्रकरणम् । तत्र नैगमद्रव्यार्थिकनयो धर्म-धर्मि-द्रव्य-पर्यायादिप्रधानाप्रधानादिगोचरः। तेन गृहीतस्य वस्तुनः सम्पिण्डितार्थ वदतीति सङ्ग्रहः, सङ्ग्रहद्रव्यार्थिकस्त्वभेदरूपतया वस्तुजातं सम्-एकीभावेन गृह्णातीति । सङ्ग्रहेण गृहीतस्य गोचरीकृतस्यार्थस्य भेद
ज्ञाते ग्रहीतव्येऽग्रहीतव्ये चानार्थे ।
यतितव्यमेवेति य उपदेशः स नयो नाम" ॥ १४०॥ इति संस्कृतम् ।
इत्थं सङ्केपेण नैगमादिनये सुलक्षितेऽपि विशेषतो नैगमादिनयविषयावगतिनिबन्धनं तल्लक्षणमुपदर्शयितुकाम आह-तत्रेति-नैगमादिनयेषु मध्य इत्यर्थः । धर्मेति-धर्म धर्मिणोः प्रधानतया धर्ममप्रधानतया धर्मिणम् , प्रधानतया धर्मिणमप्रधानतया धर्मम् , धर्मयोर्वैक प्रधानतयाऽपरमप्रधानतया, धर्मिणोकं प्रधानतयाऽपरमप्रधानतयाऽवगाहमानो नयो नैगमद्रव्यार्थिकनयः, तथा द्रव्य-पर्याययोर्द्रव्ययोः पर्याययोकं प्रधानतयाऽपरमप्रधानतयाऽवगाहमानो नयो नैगमद्रव्यार्थिकनय इत्यर्थः। सङ्घहनयस्वरूपं लक्षयति-तेनेति-नैगमनयेन गृहीतस्य सामान्यात्मकस्य विशेषात्मकस्य वस्तुनः सम्पिण्डितार्थं महासामान्यसत्तास्वरूपेण सङ्ग्रहीतमेकीभूतस्वरूपमर्थ वदति प्रतिपादयतीति सङ्ग्रह इत्यर्थः । सङ्घहद्रव्यार्थिकनयो वस्तुमात्रं महासामान्यसद्रूपेणाभेदरूपतयैकरूपतया गृलातीत्याह-सङ्ग्रहद्रव्यार्थिकस्त्विति-सङ्ग्रहे सम्शब्दो ग्रहशब्दश्च, तत्र 'सम्' इत्यस्यैक्रीभावेन 'ग्रह' इत्यस्य ग्रहणमित्यर्थत उक्तार्थलाभः । व्यवहारद्रव्यार्थिकनयं लक्षयति–सङ्ग्रहेणेति । अर्थस्य सामान्यरूपस्य।
Page #80
--------------------------------------------------------------------------
________________
१२
वालबोधिनीविवृतिविभूषितं रूपतया वस्तुव्यवहरणं व्यवहारद्रव्यार्थिकः । नैगम-व्यवहारौ चाशुद्धद्रव्यानुभविकत्वेनाशुद्धौ, सङ्ग्रहः शुद्धद्रव्यवादित्वाच्छुद्धः, तदुक्तमनुयोगद्वारवृत्तौ [मू० ७२]- "नैगम-व्यवहाररूपोऽविशुद्धः, सङ्ग्रहरूपस्तु विशुद्धः कथम् ?, यतो नैगम-व्यवहारावनन्तपरमाण्वनन्तद्व्यणुकाधनेकव्यक्त्यात्मकं कृष्णायनेकगुणाधारं त्रिकालविषयं चाविशुद्धं द्रव्यमिच्छतः, सङ्ग्रहश्च परमाण्वादिकं परमाण्वादिसामान्यादेकं तिरोभूतगुणकलापमविद्यमानपूर्वापरविभागं नित्यं सामान्यमेव द्रव्य
भेदरूपतया विशेषरूपतया । वस्तुव्यवहरणं सामान्य विशेषरूपतयैव वस्तु इति व्यवहरणम् । यद्यपि नैगम-सङ्ग्रह-व्यवहारास्त्रयोऽपि द्रव्यविषयकत्वाद् द्रव्यार्थिकास्तथापि सर्वानुगतत्वान्महासामान्यमेव शुद्धद्रव्यमिति तद्विषयकः सङ्ग्रहः शुद्धद्रव्यार्थिकः, नैगमविषयोऽवान्तरसामान्य व्यवहारविषयश्च द्रव्यत्व-पृथिवीत्व-घटत्वादिरन्यव्यावृत्तत्वात् पर्यायोsपीत्यशुद्धद्रव्यम् , तद्विषयकत्वान्नैगमव्यवहारावशुद्धद्रव्यार्थिकावित्याहनैगम-व्यवहाराविति । नैगम-व्यवहारयोरशुद्धत्वे सङ्घहस्य च शुद्धत्वेऽनुयोगद्वारवृत्तिसंवादमुपदर्शयति-तदुक्तमिति । नैगम-व्यवहारयोः कथमशुद्धत्वमिति पृच्छति-कथमिति । उत्तरयति-~-यत इति'नैगम-व्यवहारावशुद्धं द्रव्यमिच्छतः' इत्यन्वयः, अनन्तपरमाण्वाद्यनेकव्यक्त्यात्मकत्वादिकमेव द्रव्येऽविशुद्धत्वम् । नित्यसामान्यात्मकैकदव्यस्य शुद्धत्वेन तदभ्युपगन्तृत्वात् सङ्ग्रहस्य शुद्धत्वमित्याह-सनहवेति-अस्य 'इच्छति' इत्यनेनाऽन्वयः । नित्यैकसामान्यरूपद्रव्य
Page #81
--------------------------------------------------------------------------
________________
६३
सप्तभङ्गी-नयप्रदीपप्रकरणम् । मिच्छति, एतच्च किलानेकताद्यभ्युपगमकलङ्केनाऽकलङ्कितत्वाच्छुद्धम् , ततः शुद्धद्रव्याभ्युपगमपरत्वादयमेव शुद्धः" इति ॥
अथ नैगमनयं प्ररूपयन्ति
नैके गमा बोधमार्गा यस्यासौ नैगमो नाम नयः स्यात्, पृषोदरादित्वात् ककारलोपः । स त्रेधा-धर्मद्वयगोचरः,
ग्रहणस्य कथं शुद्धत्वमित्यपेक्षायामाह-एतच्चेति-अनन्तरोपदर्शितद्रव्यस्वरूपग्रहणं चेत्यर्थः । सङ्ग्रहस्यैव शुद्धत्वमुपसंहरति-तत इति ।।
अथ नैगमनयनिरूपणम्सामान्यतो नैगमस्वरूपं प्ररूपितमपि शिष्याणां विशेषतस्तत्वरूपप्रतिपत्तये पुनस्तन्निरूपणमधिकरोति-अथेति । 'नके गमाः' इत्यादिनिरुत्याश्रयणेन नैकगम इति स्यान्न तु नैगम इत्यत आह-पृषोदरादित्वादिति-पृषतो मत्स्यस्योदरमिवोदरं यस्येति विग्रहेऽपि पृषोदर इत्येव भवति न तु पृषदुदर इति, तत्र तकारलोपाद् यथा पृषोदर इति तथा तद्गुण पाठादत्र ककारलोपे 'नैगमः' इति भवति साधुरित्यर्थः। नैगमनयस्य त्रैविध्यं दर्शयति–स त्रेधेति । स नैगमः । अत्र नैगमप्रकारे । अत्र 'सच्चैतन्यमात्मनि' इति धर्मद्वयगोचरनैगमे । 'आत्मनि' इति सप्तम्यन्तेन आत्मन आधेयतया सत्ताविशिष्टचैतन्ये प्रकारत्वाद् गौणत्वम्, सत्त्वरूपधर्मस्यापि सामानाधिकरण्यसम्बन्धेन चैतन्यरूपधर्मे विशेषणत्वान् गौणत्वम् , चैतन्यस्य च विशेष्यत्वान्मुख्यत्वम् , चेतनश्चेतन इति शब्दप्रवृत्तिनिमित्तत्वाच्चैतन्याख्यधर्मस्य व्यञ्जनपर्यायत्वम्, सत्त्वाख्यधर्मस्थापि सत् सदिति शब्दप्रवृत्तिनिमित्तत्वाद् व्यञ्जनपर्यायत्वमिति, यद्यपि सत्वस विशेषणत्वं तथाऽप्यात्मापेक्षया विशेष्यत्वमिति वैशिष्ट्यसद्भावाद
Page #82
--------------------------------------------------------------------------
________________
६४
बालबोधिनीविवृतिविभूषितं धर्मिद्वयगोचरः धर्म-धर्मिगोचरः, अत्र धर्मिधर्मशब्देन द्रव्यं व्यञ्जनपोयं च वदन्ति । अथाघोदाहरणमाह--"सच्चैतन्यमात्मनि" इति ।
-[ प्रमाण परि० ७ सूत्रम्-८] अत्र चैतन्याख्यस्य व्यञ्जनपर्यायस्य विशेष्यत्वाद् मुख्यतया विवक्षणम्, सत्वाख्यव्यञ्जनपर्यायस्य तु विशेषणत्वादमुख्यतयेति धर्मद्वयगोचरो नैगमः प्रथमः । द्वितीयोदाहरणमाह-"वस्तु पर्यायवद्रव्यम्" ॥
---[प्रमाण परि० ७ सूत्रम्-९] अत्र पर्यायवद्रव्याख्यस्य धर्मिणो विशेष्यत्वेन प्राधान्यम् , वस्त्वारख्यस्य तु धर्मिणो विशेषणत्वेनाप्राधान्यमिति धर्मिद्वयगोचरो नैगमो द्वितीयः।
अथ तृतीयोदाहरणम्---"क्षणमेकं सुखी विषयासक्तजीवः"। इति ।
-[प्रमाण० परि० ७ सूत्रम्-१०] . अत्र हि विषयासक्तजीवस्य द्रव्यस्य विशेष्यत्वात् प्राधान्यम् ,
धर्मद्वयगोचरत्वमुक्तम् । अत्र 'वस्तु पर्यायवद्र्व्यम्' इति धर्मिद्वयगोचरनैगमे । 'पर्यायवद्र्व्यम्' इत्यत्र पर्यायाख्यधर्मस्य विशेषणत्वेन विषयत्वं यद्यपि समस्ति तथापि तस्य विशेषणत्वे न निर्भरः किन्तु पर्यायवद्रव्यस्य विशिष्टस्यैव धर्मिणो विशेष्यत्वम्, तत्र तादात्येन वस्तुरूपधर्मिणो विशेषणत्वमिति विवक्षयैव धर्मिद्वयगोचरत्वमस्याभिमतम् । अत्र हि 'क्षणमेकं सुखी विषयासक्तजीवः' इति धर्म-धर्मिगोचरनैगमे
Page #83
--------------------------------------------------------------------------
________________
सप्तभङ्गी- नयप्रदीपप्रकरणम् ।
सुखलक्षणस्य पर्यायस्याप्राधान्यं तद्विशेषणत्वादिति धर्म-धर्मालम्बनो नैगमस्तृतीयः ।
अथवा निगमो विकल्पस्तत्र भवो नैगमः, स त्रिविधः - भूतभविष्यद्वर्तमानकालभेदात् । अतीतस्य वर्तमानवत् कथनं यत्र स भूतनैगमः, यथा - तदेवाद्य दीपोत्सवं पर्व यस्मिन् वर्धमानस्वामी मोक्षं गतवान् १ | भाविनि भूतवदुपचारो यत्र स भविष्यनैगमः, यथा - अर्हन्तः सिद्धतां प्राप्ता एव २ | कर्तुमारब्धमीषन्निष्पन्नं वा वस्तु कथ्यते यत्र स वर्तमाननैगमः, यथा - ओदनः पच्यते ३ | नैगमनयेन धर्म- धर्मिणोरन्यतरस्यैव प्राधान्यमनुभ
६५
यतः । तद्विशेषणत्वात् विषयासक्तजीवविशेषणत्वात् ।
नैगमस्य निर्वचने भेदकथने च प्रकारान्तरमाश्रयति -अथवेति । भूतेति-भूतनैगमो भविष्यन्नैगमो वर्तमाननैगम इति भेदान्नैगमस्त्रिविध इत्यर्थः । तत्राद्यनैगमं लक्षयति - अतीतस्येति । उदाहरतियथेति-यस्मिन् पर्वणि वर्धमानस्वामी मोक्षं गतवान् तत् पर्व तु विन
ww
ष्टत्वादतीतम्, अथापि तस्य वर्तमानवत् कथनमिति भूतनैगम इत्यर्थः । भविष्यन्नैगमं निरूपयति — भाविनीति । उदाहरति — यथेति - अर्ह -
--
---
न्तोऽवश्यं सिद्धिं यास्यन्ति न तु वर्तमानकाले ते सिद्धाः, तथापि भाविन्यां सिद्धिप्राप्तौ भूतत्वमुपचर्यार्हन्तः सिद्धतां प्राप्ता इत्युच्यत इति भविष्यनैगमोऽयमित्यर्थः । वर्तमाननैगमं निरूपयति कर्तुमारब्धमिति । उदाहरति — यथेति — अत्रोदनः कर्त्तुमारब्ध एव, ईषन्निष्पन्नो वा पाककर्मतया कथ्यत इति वर्तमाननैगमोऽयमित्यर्थः । ननु नैगमनयेऽपि धर्म - धर्मिणोर्भानं प्रमाणेऽपीति कथं नास्य प्रमाणत्वमित्यत आह-५ सप्तभङ्गी •
Page #84
--------------------------------------------------------------------------
________________
बालबोधिनीविवृतिविभूषितं
वतीति प्राधान्येन द्रव्य-पर्याययोः सम्पिण्डितार्थ जानदू विज्ञानं प्रमाणत्वेन प्रतिपत्तव्यं नान्यदिति ।
अथ नैगमाभासं प्ररूपयन्ति – “धर्मद्वयादीनामैकान्तिकपार्थक्याभिसन्धिर्नैगमाभासः" इति ।
- [ प्रमाण० परि० ७ सूत्रम् - ११]
-- [ प्रमाण० परि० ७ सूत्रम् - १२]
आदिपदेन द्रव्यद्वय द्रव्यपर्याययोर्ग्रहणम् । उदाहरणम् - " यथाऽऽत्मनि सच्चैतन्ये परस्परमत्यन्तं पृथग्भूते इत्यादिः " इति । आदिशब्देन वस्तु पर्यायवद्द्रव्यमिति द्रव्ययोः क्षणमेकं सुखीति सुख-जीवलक्षणयोर्द्रव्य-पर्याययोर्ग्रहणम्, तयोर्द्वयोः सर्वथा भिन्नताप्ररूपणायां नैगमाभासो दुर्नय इत्यर्थः । नैयायिक-वैशेषिकदर्शनमप्येतदाभासतया ज्ञेयमिति । इति नैगमः ॥
>
नैगमनयेनेति । 'अनुभवति' इत्यत्र ज्ञानमिति दृश्यम्, तथा चैकस्यैव प्राधान्येनावगाहनान्नयत्वम्, यत्र प्राधान्येन द्वयोरवगाहनं तस्यैव प्रमाणत्वम्, नैगमे तु न तथेति न तस्य प्रमाणत्वमित्याशयः ।
नैगमनयं निरूप्य प्रसङ्गान्नैगमाभासनिरूपणमधिकरोति - अथेति । धर्मेति-धर्मयोद्रव्ययोर्द्रव्य-पर्याययोश्च सर्वथा भिन्नत्वाभिसन्धानं नैगमाभास इत्यर्थः । आदिपदेन 'धर्मद्वयादीनाम्' इत्यत्रादिपदेन । तत्र धर्मद्वयोरेकान्तेन पार्थक्याभिसन्धिमुदाहरति — यथेति । ' इत्यादिः ' इत्यत्रादिशब्देन द्रव्ययोर्द्रव्य-पर्याययोश्चैकान्तपार्थक्याभिसन्ध्योर्ग्रहणमित्याह - आदिशब्देनेति । नैयायिकादिदर्शनं नैगमाभास इत्याहनैयायिकेति । एतदाभासतया नैगमाभासतया ॥
I
Page #85
--------------------------------------------------------------------------
________________
सप्तमङ्गी नयप्रदीपप्रकरणम् । अथ द्रव्यार्थिकनयस्य द्वितीयभेदं सहनामानमुपवर्णयन्ति"सामान्यमात्रग्राही परामर्शः सङ्ग्रहः।"
-[प्रमा० परि०७ सूत्रम्-१३ ] मात्रं कात्स्न्येऽवधारणे च, सामान्यमशेषविशेषरहितं सत्वद्रव्यत्वादिकं गृह्णातीत्येवंशीलः, सम्-एकीभावेन पिण्डीभूततया
अथ सङ्गहनयनिरूपणम्---
सङ्ग्रहनयनिरूपणमधिकरोति-अथेति-सङ्केपतः पूर्व निरूपितोऽपि सङ्ग्रहनयो विशिष्य शिष्याणामवगतये पुनर्निरूपणपथमानीत इति बोध्यम् । सामान्यमात्रग्राही सामान्यमेव गृह्णाति न तु विशेषग्राही, एवम्भूतो निर्णयः सङ्ग्रह इत्यर्थः । 'सामान्यमात्रग्राही' इत्यत्र मात्रपदं काार्थकमवधारणार्थकं च, तेन सामान्यातिरिक्तविशेषग्राहित्वव्यवच्छेदः सत्त्व-द्रव्यत्वाद्यशेषसामान्यग्राहित्वं च सङ्ग्रहस्य लभ्यत इत्याशयेनाह-मात्रं कात्स्न्ये ऽवधारणे चेति यद्यपि परसङ्ग्रहो महासामान्यमेव गृह्णाति, अपरसङ्ग्रहश्चावान्तरसामान्यमेव गृह्णातीति कृत्लसामान्यग्राहित्वं न कुत्रापि सङ्ग्रह इति काार्थो नात्र घटते तथापि सङ्ग्रहसामान्याश्रयणेनाशेषसामान्यग्राहित्वमत्र विवक्षितम् , अत एव 'सत्त्व-द्रव्यत्वादिकं गृह्णातीत्येवंशीलः' इत्युक्तम् , तेन येनापि परसङ्ग्रहेणावान्तरसामान्यं न गृह्यते, अपरसङ्ग्रहेण च येन परसामान्य न गृह्यते, तयोरपि सामान्यतस्तथाग्रहणस्वभावोऽस्त्येवेति । सङ्ग्रह इत्यत्र 'सम्' इत्युपसर्गस्य 'ग्रह' इत्यस्य च समभिव्याहारतः पिण्डीभूतत्वलक्षणैकीभावेन विशेषराशिग्राहित्वं सङ्ग्रहस्य लभ्यत इत्याहसम्-एकीभावेनेति । 'एकीभावेन' इत्यस्य विवरणम् –पिण्डीभूततयेति-यथा च प्रस्थादिप्रमितानां चूर्णादीनां जलादिद्रवद्रव्यसम्बन्धेन
Page #86
--------------------------------------------------------------------------
________________
ફૂટ
बालबोधिनीविवृतिविभूषितं
विशेषराशिं गृह्णातीति सङ्ग्रहः । अयमर्थः - स्वजातेर्दृष्टेष्टाभ्यामविरोधेन विशेषाणामेकरूपतया यद् ग्रहणं स सग्रह इति । विशेषराहित्येन पिण्डीभूतं सामान्य- विशेषवद् वस्तु शुद्धमनुभवन् ज्ञानविशेषः सङ्ग्रहतयाऽऽख्यायते ।
सङ्ग्रहोsपि परापर भेदाद् द्विविधः, तत्र परलक्षणमाह - " अशेष
5
पिण्डीभूतता तथाऽशेषविशेषाणां सत्त्वादिसम्बन्धेन पिण्डीभूतता एकतेति यावत् तयेत्यर्थः । 'सम् - एकीभावेन' इत्याद्युक्तेः स्फुटमर्थमाविष्करोति - अयमर्थ इति । खजातेरिति यज्जात्या विशेषाणामेकरूपतया ग्रहणं तज्जातेः प्रत्यक्षादिप्रमाणेन स्वाभ्युपगमेन चाविरोधेन यावता यज्जात्यैकीकरणं तज्जातेः प्रत्यक्षादिप्रमाणेन बाधो न भवेत् स्वाभ्युपगमहानिश्च न भवेत् तथा विरोधाभावेन विशेषाणां द्रव्यगुणादीनामेकरूपतया सदाद्यात्मना यद् ग्रहणं 'सर्वं सद्' इत्याकारकम्, तत्रैव 'सर्वं द्रव्यम्' इति ग्रहणं प्रत्यक्षादिप्रमाणेन विरुद्धम्, न च सर्वेषां द्रव्यत्वमेवेत्यभ्युपगम्यतेऽपीत्यभ्युपगमविरुद्धमिति न तत्र 'स्वजातेर्दृष्टे - टाभ्यामविरोधेन' इति घटते; तथा च सर्वे सदिति ग्रहणम्, धर्मादिकं सर्वं द्रव्यमिति ग्रहणम्, रूप - रसादीनां सर्वे रूपादयो गुणा इति ग्रहणं सङ्ग्रह इत्यर्थः । यत्तद्भ्यां विनैवानुगतं सङ्ग्रह स्वरूपमाख्याति - विशेषराहित्येनेति-तत्तद्विशेषराहित्येनेत्यर्थः । पिण्डीभूतम् एकीभूतम्, सामान्यविशेषवद् वस्तु सत्त्वादिमद् वस्तु ।
सङ्घहो द्विविधः - परसङ्ग्रहोऽपरसङ्ग्रहम्ध, इत्येवं सङ्ग्रहस्य द्वैविध्यं प्रकटयति-सङ्ग्रहोऽपीति--अपिना नैगमस्य धर्मद्वयादिगोचरत्वेन भूतनैगमत्वादिना वा त्रैविध्यस्य दर्शितस्याम्रेडनम् । तत्र पराऽपरसङ्ग्रहयोर्मध्ये । परलक्षणमाह-परसङ्ग्रहलक्षणं कथयति । अशेषविशेषेषु
Page #87
--------------------------------------------------------------------------
________________
सप्तभङ्गी-नयप्रदीपप्रकरणम् । विशेषेष्वौदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परसङ्ग्रहः"
-[ प्रमा० परि० ७ सूत्रम्-१५ ] "यथा-विश्वमेकं सदविशेषात्"
-प्रमा० परि०७ सूत्रम्-१६ ] अत्र हि विश्वस्यैकत्वं सदिति ज्ञानसामान्यहेतुजनितसत्ताकत्वाभेदरूपेण गृह्यते ।
द्रव्यत्वगुणत्वादि-पृथिवीत्वजलत्वादि-रूपत्वरसत्वादितदवान्तरविशेषेषु । औदासीन्यम् उपेक्षां गजनिमीलिकाम्, भजमानः खीकुर्वन् , न त्वशेषविशेषप्रतिक्षेपपरायणः, तथा सति सङ्ग्रहाभासतैव स्यात् । शुद्धद्रव्यं सर्वविशेषानुगतम् , तत् सन्मानतोऽन्यन्न सम्भवतीति सन्मात्रम् , अभिमन्यमानः खीकुर्वन् परसङ्ग्रह इत्यर्थः । उदाहरतियथेति । अत्र हि 'विश्वमेकं सदविशेषाद्' इति ज्ञाने यतः 'विश्वस्यैकत्वं गृह्यते' इत्यन्वयः, 'सद्' इतिज्ञानसामान्यहेतुर्यन्महासामान्यं सत्त्वं तज्जनिता तन्निबन्धना सत्ता यस्य सर्वस्य वस्तुनस्तत् सदितिज्ञानसामान्यहेतुजनितसत्ताकं तस्य भावो निरुक्तसत्ताकत्वं तदात्मको योऽभेदस्तद्रूपेण विश्वस्यैकत्वं गृह्यत इत्यर्थः, यदि सर्वत्रैकं महासामान्यं न स्यात् तर्हि सर्वत्र 'सत् सद्' इति ज्ञानं न भवेदिति भवति सदितिज्ञानसामान्यहेतुः सत्त्वम् , तन्निबन्धनैव च सत्ता सर्वस्य वस्तुन इति भवति सर्व वस्तु तथाविधसत्ताकम्, अतस्तद्भावलक्षणाभेदरूपेण विश्वस्यैकत्वं 'विश्वमेकं सदविशेषाद्' इति ज्ञानेन गृथत इत्याशयः ।
Page #88
--------------------------------------------------------------------------
________________
बालबोधिनीषिवृतिविभूषितं " परसबहामासलक्षणमाह- "सत्ताद्वैतं स्वीकुर्वाणः सकलविशेषान्निराचक्षाणस्तदाभासः" ।
- प्रमा० परि० ७ सूत्रम्-१७ ] "यथा-सत्तैव तत्वं ततः पृथग्भूतानां विशेषाणामदर्शनाद्। इति ।
-[प्रमा० परि० ७ सूत्रम्-१८ ] अद्वैतवादिनां निखिलानिदर्शनानि सांख्यदर्शनं च तदाभासतया ज्ञेयानि ।
द्वितीयापरसङ्ग्रहलक्षणमाह-द्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तद्देदेषु गजनिमीलिकामवलम्बमानः पुनरपरसङ्ग्रहः"
. -[प्रमा० परि० ७ सूत्रम्-१९ ] "यथा-धर्मा-ऽधर्मा-ऽऽकाश-काल-पुद्गल-जीवद्रव्याणामैक्यं द्रव्यत्वमेदादित्यादिः"
-[ प्रमा० परि० ७ सूत्रम्-२०] अत्र हि द्रव्यत्वसामान्यज्ञानेनाभेदरूपेण षण्णां द्रव्याणामेकत्वं
प्रसङ्गात् परसङ्ग्रहाभासलक्षणमधिकृत्याह-परसङ्ग्रहेति । तदाभासः परसनहाभासः । उदाहरति-यथेति । ततो पृथग्भूतानां सत्तातो भिन्नानाम् । के परसङ्ग्रहाभासाः ? इत्याकाङ्क्षायामाह-अद्वैतवादिनामिति । तदाभासतया परसङ्ग्रहाभासतया ।
द्वितीयेति-सङ्गहस्य द्वितीयभेदो योऽपरसङ्ग्रहस्तस्य लक्षणं कथयतीत्यर्थः । अवान्तरसामान्यानि महासामान्यसत्ताव्याप्यसामान्यानि । तद्भदेषु द्रव्यत्वादिव्याप्यधर्मत्वाऽधर्मत्वाद्यवान्तरसामान्येषु । गजनि, मीलिकाम् उपेक्षाम् । अपरसङ्घहमुदाहरति-यथेति । अत्र हि
Page #89
--------------------------------------------------------------------------
________________
सप्तभङ्गी नयप्रदीपप्रकरणम् । सगृह्यते । धर्मादिविशेषभेदेषु च गजनिमीलिकावदुपेक्षा। एवं चैतन्याऽचैतन्यपर्यायाणामैक्यं पर्यायत्वसाधात् । चैतन्य ज्ञानम्
"चैतन्यमनुभूतिः स्यात् सक्रियारूपमेव च । क्रिया मनो-वच:-कायैरन्विता वर्तते ध्रुवम्" ॥१॥ तद्विपरीतमचैतन्यम्, तयोरैक्यं कथमिति विशेषविवक्षानाकाङ्क्षणमुपेक्षा द्रव्यत्वेनाभेदबुद्धिविवक्षणात् ।
'धर्मादीनामैक्यं द्रव्यत्वाभेदाद्' इति ज्ञाने यतः । यथा द्रव्यत्वाभेदाद् धर्मादीनामैक्यमिति ज्ञानमपरसङ्ग्रहस्तथा चैतन्याचैतन्यपर्यायाणामैक्यं पर्यायत्वाभेदादित्यपि ज्ञानमपरसङ्ग्रह इत्याह-एवमिति । चैतन्य ज्ञानम् , अज्ञानमचैतन्यम् , ततो ज्ञानाज्ञानयोरैक्यं कथमिति विशेषानाकाहालक्षणोपेक्षवात्र, तेन पर्यायत्वसाधादैक्यज्ञानं सम्भवत्येवेत्याहचैतन्यं ज्ञानमिति । चैतन्यस्य ज्ञानरूपत्वे प्राचां वचनं प्रमाणयतिचैतन्यमनुभूतिः स्यादिति-अनुभूतिरनुभवात्मकं ज्ञानमिति ज्ञानरूपता चैतन्यस्य । आत्मनो वस्त्वनुभवलक्षणक्रियारूपमेव चैतन्यमित्याहसक्रियारूपमेव चेति । वस्वनुभवकाले क्रिया वर्तते चेत् क्रियारूपत्वं तस्याभ्युपगन्तुमुचितम् , न च तदानी क्रिया काऽपि दृश्यत इति कथं सक्रियारूपत्वमित्यत आह—क्रियेति-यदा किमप्यनुभवति तदा मनो-वचः-कायैः कामपि क्रियां कुर्वन्नेवास्ते नहि निश्चेष्ट एव किमप्यनुभवतीति, अनुभवनमपि मानसी क्रियैवेति क्रियारूपत्वं चैतन्यस्यावश्यकमिति । तद्विपरीतं ज्ञानविपरीतमज्ञानमिति यावत् । तयोः ज्ञानाज्ञानखरूपयोश्चैतन्याचैतन्ययोः । कथमुपेक्षेत्यत आह-द्रव्यत्वे
Page #90
--------------------------------------------------------------------------
________________
૭ર
बालबोधिनी विवृतिविभूषितं तदाभासलक्षणमाह-"द्रव्यत्वादिकं प्रतिजानानः तद्विशेषानिढुवानस्तदाभास"
-[प्रमा० परि० ७ सूत्रम्-२१] “यथा-द्रव्यत्वमेव तत्त्वम्" इति,
-[प्रमा० परि० ७ सूत्रम्-२२] नास्ति च धर्मादि द्रव्यमित्यपह्नवः, यथा-वस्तु वर्तते परं सामान्यविशेषत्वं क्व वर्तत इत्यपह्नवः । एवं सामान्यविशेषात्मनो वस्तुनो द्रष्टव्यम्।
अथवा सङ्ग्रहः सामान्य-विशेषाभ्यां द्विधा,सामान्यसङ्ग्रहोदानेति-अत्र 'पर्यायत्वेन' इति पाठो युक्तः, चैतन्याचैतन्ययोः पर्यायरूपतया पर्यायत्वेनाभेदबुद्धेरेव विवक्षणात् , पर्यायत्वसाधादेव च चैतन्याचैतन्यपर्यायाणामैक्यमिति ज्ञानस्यापरसङ्ग्रहत्वं प्रस्तुतमपीति बोध्यम् ।
प्रसङ्गादपरसङ्ग्रहाभासलक्षणं विचारपद्धतिमानयति-तदाभासलक्षणमाहेति-अपरसङ्घहाभासलक्षणं कथयतीत्यर्थः । 'द्रव्यत्वादिकम्' इत्यत्रादिपदाद् गुणत्वादेग्रहः । तद्विशेषान् द्रव्यविशेषान् धर्माधर्मादीन् । तदाभासः अपरसङ्ग्रहाभासः । उदाहरति-यथेति । 'द्रव्यत्वमेव' इत्येवकारेण धर्मत्वादेर्व्यवच्छेदः। धर्माद्यपह्नवस्वरूपमुल्लिखति-नास्ति चेति । सामान्यविशेषत्वस्याप्याधेयभावेनापह्नवोऽपरसङ्ग्रहाभास एवेत्याह-यथेति । सामान्यविशेषो द्रव्यत्वादिकं समस्ति, न च तत् कुत्रापि वर्तते सामान्यविशेषात्मनो वस्तुधर्मिणोऽभावादित्येवमपह्नवोऽप्यपरसङ्ग्रहाभास इत्याह--एवमिति ।
सामान्यसङ्ग्रहो विशेषसङ्ग्रहश्चेत्येवं वा सङ्ग्रहस्य द्वैविध्यमित्याहअथवेति । क्रमेण सङ्ग्रहद्वयमुदाहरणद्वारा भावयति--सामान्यसनहोदाहरणमिति । इति सनहनयनिरूपणम् ॥
Page #91
--------------------------------------------------------------------------
________________
७३
सप्तमङ्गी नयप्रदीपप्रकरणम् । हरणम्-सवोणि द्रव्याणि परस्परमविरोधीनि, विशेषसङ्ग्रहो यथासर्वे जीवाः परस्परमविरोधिनः । इति सङ्ग्रहः ॥ ___ अथ व्यवहारद्रव्यार्थिकनयं प्ररूपयन्ति-"सङ्ग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनाभिसन्धिना क्रियते स व्यवहारः" इति।
--[ प्रमा० परि० ७ सूत्रम्-२३ ] एतस्यार्थ:-- सङ्ग्रहगृहीतस्य सत्त्वाद्यर्थस्य विधीयमानो यो ज्ञानविशेषस्तमेव विवेचयति स व्यवहारनामा नयः कथ्यते बुधैः । उदाहरणम् “यथा-यत् सद् द्रव्यं पर्यायो वेत्यादिः"
-[ प्रमा० परि. ७ सूत्रम्-२४ ]
अथ व्यवहारनयनिरूपणम्व्यवहारनयनिरूपणमधिकरोति-अथेति । व्यवहारनयमुल्लिखति-सङ्ग्रहेणेति। उक्तलक्षणवाक्यार्थमावेदयति-एतस्यार्थ इति'सङ्ग्रहेण' इत्यादिलक्षणवाक्यस्यार्थ इत्यर्थः । सङ्ग्रहगृहीतस्य सङ्ग्रहनयेन विषयीकृतस्य । सत्त्वाद्यर्थस्य सत्त्व-द्रव्यत्वादिरूपमहासामान्यसामान्यविशेषादिरूपार्थस्य । 'विधीयमानः' इत्यनन्तरं यो विशेष इति दृश्यम् , विशेष इत्यनेन च द्रव्यत्वपृथिवीत्वादेर्ग्रहणम् । तमेव द्रव्यत्व-पृथिवीत्वादिलक्षणविधीयमानविशेषमेव, यो ज्ञानविशेषो विवेचयति विभज्य गृह्णाति, स ज्ञानविशेषो बुधैर्व्यवहारनामा नयः कथ्यत इत्यर्थः। यत् सत् तद् द्रव्यं पर्यायो वेति परसङ्ग्रहगृहीतस्यार्थस्य विधीयमानविशेषविवेचनलक्षणव्यवहारस्योदाहरणम् । 'पर्यायो वेत्यादि'
Page #92
--------------------------------------------------------------------------
________________
७४
बालबोधिनीविवृतिविभूषितं अपरसङ्ग्रहगृहीतार्थव्यवहारस्याप्युदाहरणमादिपदालक्ष्यम् , यथा-यद् द्रव्यं तज्जीवादि षड्विधमिति, पर्यायो द्वेधा-क्रमभावी सहभावी चेति, एवं जीवा मुक्ताः संसारिणश्च, ये क्रमभाविनः पर्यायास्ते क्रियारूपा अक्रियारूपाश्चेति ।
अथ व्यवहाराभासं लक्षयन्ति- "यः पुनरपारमार्थिकं द्रव्यपर्यायविभागमभिप्रेति स व्यवहाराभास"
-[प्रमा० परि० ७ सूत्रम्-२५] “यथा-चार्वाकदर्शनम्” इति ।
--[ प्रमा० परि० ७ सूत्रम्-२६ ]
इत्यादिपदादपरसङ्ग्रहगृहीतार्थव्यवहारस्वाप्युदाहरणं ग्राह्यमित्याह-अपरसङ्ग्रहेति । उदाहरति--यथेति । यद् द्रव्यं तद् जीवादिषड्विधमिति व्यवहारोदाहरणं तु धर्मा-ऽधर्मा-ऽऽकान-काल-पुद्गल-जीवद्रव्याणामैक्यं द्रव्यत्वाभेदादित्यपरसङ्ग्रहगृहीतार्थस्ये : बोध्यम् । पर्यायाणामैक्यं पर्यायत्वसाधादित्यपरसग्रहगृहीतार्थस्य व्यवहारस्योदाहरणम्-पर्यायो द्वेधा क्रमभावी सहभावी चेति । जीयानामैक्यं जीवत्वसाधादित्यपरसङ्ग्रहगृहीतार्थस्य व्यवहारस्योदाहरणम्-जीवा मुक्ताः संसारिणश्चेति । क्रियाऽक्रियारूपपर्यायाणक्यं क्रमभाविपर्यायत्वसाधादित्यपरसग्रहगृहीतार्थस्य व्यवहारस्यो हरणम् –ये क्रमभाविनः पर्यायास्ते क्रियारूपा अक्रियारूपाश्चति ।
प्रसङ्गाद् व्यवहाराभासलक्षणनिर्वचनमधिकरोति-अथेति । चार्वाकदर्शनस्य पारमार्थिकजीवादिद्रव्यविभागाभ्युपगन्तृत्वाभावादपारमार्थिकयावदृष्टिगोचरपृथिव्यादिचतुष्टयभूतविभजनाभ्युपगन्तृत्वाद
Page #93
--------------------------------------------------------------------------
________________
सप्तभङ्गी-नयप्रदीपप्रकरणम् ।
७५ नास्तिको हि जीवद्रव्यादि भिमन्यते, स्थूलदृष्ट्या च भृतचतुष्टयं यावदृष्टिगोचरमिति खकल्पितत्वेनातथात्वाद् व्यवहारामासमिति ॥
अथ कतिपयमन्यतो लिख्यते-भेदोपचारतया वस्तु व्यवहियत इति व्यवहारः । गुण-गुणिनोः, द्रव्य-पर्याययोः, संज्ञासंज्ञिनोः, स्वभाव-तद्वतोः, कारक-तद्वतोः, क्रिया-तद्वतोभैंदाद्
MAM
व्यवहाराभासत्वमित्याह-नास्तिको हीति । 'याददृष्टिगोचरम्' इत्यनन्तरमभिमन्यत इत्यनुषज्यते । भूतचतुष्टयवादस्य चार्वाकेण स्वयं कल्पितत्वेनापारमार्थिकत्वादित्याह-स्वकल्पितत्वेनातथात्वादिति ।
श्वेताम्बराभिमतव्यवहार-तदाभासस्वरूपप्ररूपणां परिसमाप्य दैगम्बरी प्रक्रियामाश्रित्य व्यवहारस्वरूपं तद्भेदांश्योपदर्शयितुमाह-अथेतिस्वसैद्धान्तिकाभिमतव्यवहार-तदाभासस्वरूपोपदर्शनानन्तरमित्यर्थः । कतिपयमिति-अनन्तराभिधीयमानप्रकारेण व्यवहारभेदोपदर्शने बहवो भेदा विषयभेदप्रयुक्ता व्यवहारस्य सम्भवन्ति, तन्मध्यात् कतिपयसङ्ख्याकं लौकिकपरीक्षकबुद्धिग्राह्य व्यवहारनयभेदप्रपञ्चनम् । अन्यतः दिगम्बरअन्थात् । लिख्यते दिगम्बरग्रन्थे यथैवाभिहितमस्ति तथैवोल्लिख्यते, न तु स्वयमत्र क्षोदक्षमाकलितो विचारः क्रियते, तेनास्य गुण-दोषाभ्यां न किश्चिन्ममेत्यावेदितम् ।
दिगम्बरस्तु-द्रव्यार्थिक-पर्यायार्थिक-नैगम-सङ्ग्रह-व्यवहारर्जुसूत्रशब्दसमभिरूद्वैवम्भूतभेदेन नयानां नवविधत्वम्, तत्र कर्मोपाधिनिरपेक्षः शुद्धद्रव्यार्थिकः १, उत्पाद-व्ययगौणत्वेन सत्ताग्राहकः शुद्धद्रव्यार्थिकः
Page #94
--------------------------------------------------------------------------
________________
७६
बालबोधिनीविवृतिविभूषितं
२, भेदकल्पना निरपेक्षशुद्धद्रव्यार्थिकः ३, कर्मोपाधिसापेक्षोऽशुद्धद्रव्यार्थिकः ४, उत्पाद - व्ययसापेक्षोऽशुद्धद्रव्यार्थिकः ५, भेदकल्पनासापेक्षोऽशुद्धद्रव्यार्थिकः ६, अन्वयसापेक्षो द्रव्यार्थिकः ७, स्वद्रव्यादिग्राहको द्रव्यार्थिकः ८, परद्रव्यादिग्राहको द्रव्यार्थिकः ९, परमस्वभावग्राहको द्रव्यार्थिकः १०, इत्येवं द्रव्यार्थिकस्य दश भेदाः; अनादिनित्यपर्यायार्थिकः १, सादिनित्यपर्यायार्थिकः २, सत्तागौणत्वेनोत्पादव्ययग्राहकोऽनित्यशुद्धपर्यायार्थिकः ३, सत्तासापेक्षो नित्याशुद्धपर्यायार्थिकः ४, कर्मोपाधिनिरपेक्षो नित्यशुद्धपर्यायार्थिकः ५, कर्मोपाधिसापेक्षो नित्याशुद्धपर्यायार्थिकः ६, इत्येवं पर्यायार्थिकस्य षड् भेदाः; भूत-भाववर्तमानकालभेदान्नैगमस्य त्रयो भेदाः; सामान्य- विशेषभेदात् सङ्ग्रहस्य द्वौ भेदौ; सामान्य विशेषभेदाद् व्यवहारस्यापि द्वौ भेदौ; स्थूल सूक्ष्मभेदाद् ऋजुसूत्रस्य द्वौ भेदौ; शब्दादीनां त्रयाणां प्रत्येकमेकैकभेद इति सर्वे मिलिता अष्टाविंशतिर्नयभेदा इत्येवं मन्यते ।
तस्यैव चेत्थमुपनयभेदप्रपञ्चनम्, यथा- उपनयेषु एकवस्तुभेदविषयः सद्भूतव्यवहारः, स च शुद्धाशुद्धभेदाद् द्विविधः, आद्यः शुद्धगुणगुणि'शुद्धपर्याय पर्यायभेदकथनम्, यथा- केवलज्ञानादयो जीवस्य द्वितीयो - ऽशुद्धगुण- गुण्यादिभेदकथनम्, यथा - मतिज्ञानादयो जीवस्य । असद्भूतव्यवहार उपचरितस्य पृथक् कथनादनुपचरितो गृह्यते, स च संश्लेषसहितवस्तुसम्बन्धविषयः स्वजाति - विजात्युभयविषयभेदेन त्रिविधः, आद्यो यथा- परमाणुर्बहुप्रदेशीति कथनम् द्वितीयो यथा-मूर्त मतिज्ञानं यतो मूर्त्तिद्रव्येण जनितम्, तृतीयो यथा ज्ञेये जीवेऽजीने च ज्ञानमिति कथनं तस्योभयनिष्ठत्वात् । असद्भूतव्यवहार एवोपचारः, तत उपचारानन्तरं य उपचारः क्रियते स संश्लेषरहितवस्तुसम्बन्ध
3
-
Page #95
--------------------------------------------------------------------------
________________
GG
सप्तभङ्गी नयप्रदीपप्रकरणम् । विषय उपचरितासद्भूतव्यवहारः, सोऽपि स्वजाति-विजात्युभयविषयभेदेन त्रिविधः, आयो यथा-पुत्र-दारादि मम, द्वितीयो यथा-वस्त्राऽऽभरण-हेम-रजतादि मम, तृतीयो यथा-दुर्ग-देश-राज्यादि ममेति । इत्थं नयोपनयनिरूपणम्, तेषां च स्वभावेषु योजनम् , तदुपयोगितया गुण-पर्याय-स्वभावानां परस्परभिन्नतया प्ररूपणमिति या दिगम्बरप्रक्रिया सोपदर्शनपूर्वकं गुणानां पर्यायानतिरिक्तत्वमेव स्वभावा अपि पर्यायेष्वेवान्तर्भवन्तीत्येवं श्वेताम्बरराद्धान्तमेव पुरस्कुर्वतैतदन्थकारेण श्रीमता यशोविजयमहोपाध्यायेन स्वनिर्मितेऽनेकान्तव्यवस्थाप्रकरणे खण्डितैव, तदुपपादनप्रकारस्तत्खण्डनप्रकारश्च परिशीलनीयो जिज्ञासुभिरनेकान्तव्यवस्थाप्रकरणावलोकनतः, ततश्च सिद्धमिदं योऽनन्तरं व्यवहारभेदोऽत्र दर्श्यते स दिगम्बरसम्मत उपनयभेद एवेति । भेदोपचारतयेति-भेदश्वोपचारश्च भेदोपचारौ; तयोर्भावो भेदोपचारता, तया भेदोपचारतयेत्यर्थः, अत्रोपचारोऽपि सन्निधानाद् भेदस्यैवावगन्तव्यः, तथा च सनहाभिमतं यद् गुण-पर्याय-नाम-स्वभाव-कारक-क्रियाद्यात्मकद्रव्यस्वरूपमेकं वस्तु तद् गुणादिभिर्भेदेनोपचरितभेदेन वा व्यवहियत इत्यर्थः । अस्य व्यवहारस्योपनयतया दिगम्बरैः परिभाषितस्यैकवस्तुभेदविषयः सद्भूतव्यवहार इत्येवं लक्षणलक्षितो यः सद्भूतव्यवहाराख्यः प्रथमभेदस्तस्य शुद्धाशुद्धभेदेन द्वैविध्यं ग्रन्थान्तरे व्यावर्णितम् , तथाऽत्रानुपचरितसद्भूतव्यवहारस्य तुरीयभेदस्य यदुदाहरणम् 'केवलज्ञानादयो गुणाः' इति तद् ग्रन्थान्तरे शुद्धसद्भूतव्यवहारस्योदाहरणं दर्शितम्, यच्चात्रोपचरितसद्भूतव्यवहारस्य तृतीयभेदस्योदाहरणम् 'मतिज्ञानादयो जीवस्य' इति तद् ग्रन्थान्तरेऽशुद्धसद्भूतव्यवहारस्योदाहरणमुक्तम् ।
Page #96
--------------------------------------------------------------------------
________________
बालबोधिनीविवृतिविभूषितं
एतावतोपचरितत्वमशुद्धत्वम्, अनुपचरितत्वं शुद्धत्वमिति बोध्यम् । निरुक्तनियुक्त्युपदर्शित खरूपस्य व्यवहारस्य सद्भूतव्यवहारादयश्चतुर्दश भेदाः, तत्र प्रथमं सद्भूतव्यवहाराख्यं भेदमुपदर्शयति-गुण-गुणिनोरिति-गुण- गुणिनोर्भेदाद् भेदकः सद्भूतव्यवहार इत्यन्वयः इत्थमेव द्रव्य - पर्याययोरित्यादावप्यन्वयो बोध्यः । यद्यपि स्वमते सहभाविपर्याय एव गुण इति द्रव्य-पर्याययोरित्यनेनैव गुण-गुणिनोरित्यस्य गतार्थता, एवं संज्ञा-स्वभाव-कारक - क्रियाणामपि पर्यायरूपत्वाद् द्रव्य-पर्याययोरित्यनेनैव गतार्थता, तथा दिगम्बरमते गुण-स्वभावादीनां पर्यायात् पार्थक्यमिति तन्मतानुसारेणेवेदं व्यवहारभेदप्रपञ्चनम्, अतः पार्थक्ये - नाभिधानमिति बोध्यम् ।
यद्यपि सद्भूतव्यवहारः शुद्धसद्भूतव्यवहारोपचरितसद्भृतव्यवहारानुप
७
चरितसद्भूतव्यवहाराशुद्धसद्भूतव्यवहारेष्वनन्तरमेवाभिधीयमानेष्वन्तर्भवतीति न तस्य पार्थक्येनाभिधानमुचितम्, यदि च पार्थक्येनाभिधानं नेष्टमस्य, तर्हि सद्भूतव्यवहारश्चतुर्धा शुद्धोपचरितानुपचरिताशुद्धभेदादित्येवं तदभिधानं युक्तं स्यात् न च तथाऽनभिधानेऽपीष्टं तथैव अन्यथा तस्य पृथक्तयाऽभिमतत्वे तदुदाहरणमपि पृथगभिहितं स्याद्, न च तदुदाहरणं किश्चिदुक्तमिति वाच्यम्, एवं सति शुद्धसद्भूतव्यवहारोऽशुद्धसद्भूतव्यवहारश्च पृथग् नाभिधातुं युक्तौ तयोरप्युदाहरणानुपदर्शनात् । न च यदेवानुपचरितसद्भूतव्यवहारस्योदाहरणं तदेव शुद्धसद्भूतव्यवहारस्य, यदेव चोपचरितसद्भूतव्यवहारस्योदाहरणं तदेवाशुद्धसद्भूतव्यवहारस्येत्यत उदाहरणान्तरानुपदर्शनं तयोरिति वाच्यम्, तथा सति अनुपचरितसद्भूतव्यवहार एव शुद्धसद्भूतव्यवहारः, उपचरित - सद्भूतव्यवहार एव चाशुद्धसद्भूतव्यवहार इत्येवमपि सद्भूतव्यवहारस्य
Page #97
--------------------------------------------------------------------------
________________
सप्तभङ्गी नयप्रदीपप्रकरणम् । भेदकः सद्भूतव्यवहारः१ । शुद्धगुण-गुणिनोः, शुद्धपर्याय-द्रव्ययो
द्वैविध्यमेव स्यान्न चातुर्विध्यम् । न च ग्रन्थान्तरे शुद्धाशुद्धभेदेन द्वैविध्यमेव सद्भूतव्यवहारस्य दर्शितमित्यत्रापि तदेवाभिमतम् , शुद्धसद्भूतव्यवहारस्यैव नामान्तरेण कथनमनुपचरितसद्भूतव्यवहार इति, अशुद्धसद्भूतव्यवहारस्यैव च नामान्तरेण कथनमुपचरितसद्भूतव्यवहार इति वक्तुं साम्प्रतम् , तथा सति स्वलक्षणेन लक्षितं शुद्धसद्भूतव्यवहारमभिधाय तस्य नामान्तरकथनरूपमनुपचरितसद्भूतव्यवहार इत्यभिधाय तदुदाहरणमुपदर्शनीयं स्यात् , एवं स्वलक्षणेन लक्षितमशुद्धसद्भूतव्यवहारमभिधाय तस्य नामान्तरकथनरूपमुपचरितसद्भूतव्यवहार इत्यभिधाय तदुदाहरणं च प्रदर्शनीयं स्यात् , न चेत्थमत्र सन्दर्भः, किन्तु शुद्धसद्भूतव्यवहारस्य लक्षणमन्यद्, अन्यदेव चानुपचरितसद्भूतव्यवहारस्य, एवमशुद्धसद्भूतव्यवहारस्य लक्षणं भिन्नं ततो भिन्नं चोपचरितसद्भूतव्यवहारस्येति । ___ तथापि द्रव्यार्थिकस्य नैगम-सङ्ग्रह-व्यवहारेषु पर्यायार्थिकस्य ऋजुसूत्रशब्द-समभिरूद्वैवम्भूतेषु चान्तर्भावसम्भवेऽपि दिगम्बरेण तयोः पार्थक्यमेवोररीकृत्य नया नवोररीकृताः, तथा शुद्धसद्भूतव्यवहारादिप्वन्तर्भावशीलस्यापि सद्भूतव्यवहारस्य तन्मते पार्थक्यमेव युक्तम् , विशेषेभ्यः सामान्यस्य भिन्नतयोररीकारेण तथाभिधानं तन्मते नासङ्गतम् , उदाहरणं च तस्य-द्रव्यस्य गुणाः, द्रव्यस्य पर्यायाः, संज्ञिनः संज्ञा, द्रव्यस्य स्वभावाः, द्रव्यस्य कारकम् , द्रव्यस्य क्रिया, इत्यादि; सामान्यतो गुणगुणिनोरित्यादीनां भेदकथनम् , अस्योदाहरणस्य स्पष्टत्वादनभिधानमिति । - शुद्धसद्भूतव्यवहारं द्वितीयभेदं लक्षयति-शुद्धगुण-गुणिनोरिति
Page #98
--------------------------------------------------------------------------
________________
. 20
बालबोधिनीविवृतिविभूषितं आंदकथनं शुद्धसद्भूतव्यवहारः २ । सोपाधिगुण-गुणिनोर्मेदविषय उपचरितसद्भूतव्यवहारः, यथा-जीवस्य मतिज्ञानादयो गुणाः३। निरुपाधिगुण-गुणिनोर्भेदकोऽनुपचरितसद्भूतव्यवहारः, यथा
आत्मनो ज्ञानादयो गुणाः, आत्मनः पर्याया गत्यादय इति; एवं पुद्गलस्य रूपादयो गुणाः, मृदादयः पर्याया इत्युदाहरणम् , गुण-पर्याययोर्भेदं दिगम्बरोऽभ्युपगच्छति तेन शुद्धस्य गुणस्य शुद्धस्य पर्यायस्य च द्रव्येण सह भेदकथनरूपत्वाद् भवति शुद्धसद्धृतव्यवहार इति, अनुपचरितसद्भूतव्यवहारो गुण-गुणिनोरेव भेदकः, अयं च द्रव्य-पर्याययोरपीत्यधिकविषयकत्वात् तस्मादयं भिद्यत इति, अत्राप्युदाहरणं सुगमावबोध्यत्वान्नोट्टङ्कितम् । ___ तृतीयभेदं लक्षयति--सोपाधिगुण-गुणिनोरिति । उदाहरतियथेति-प्राणधारणविशिष्टात्मनो जीवत्वमिति 'जीवस्य' इति सोपाधिद्रव्यग्रहणम् , सावरणमेव मतिज्ञानाद्यावरणक्षयोपशमविशेषसमुत्थं ज्ञानं मतिज्ञानादिवाच्यमिति मतिज्ञानादयः' इत्यनेन सोपाधिगुणग्रहणम् , सोपाधित्वादेव चानयोरुपचरितत्वमिति भवति जीवस्य मतिज्ञानादयो गुणा इति सोपाधिगुण-गुणिभेदविषय उपचरितसद्भूतव्यवहारः, अशुद्धसद्भूतव्यवहारेऽशुद्धद्रव्य-पर्याययोर्भेदोऽपि विषयः, न चात्र तथेति ततोऽस्य न्यूनविषयत्वाद् भेद इति । . ___चतुर्थभेदं लक्षयति-निरुपाधीति । उदाहरति यथेति- केवलज्ञानादयो गुणाः' इति स्थाने 'केवलज्ञानादय आत्मनो गुणाः' इति पाठो युक्तः, यद्यपि ग्रन्थान्तरे शुद्धसद्भूतव्यवहारस्योदाहरणं 'केवलज्ञाना. दयो जीवस्य' इत्युक्तं तथापि तत्र जीवपदमात्मपरमेव बोध्यम् , अस्य
Page #99
--------------------------------------------------------------------------
________________
सप्तभङ्गी नयप्रदीपप्रकरणम् । केवलज्ञानादयो गुणाः ४ । अशुद्धगुण-गुणिनोरशुद्धद्रव्यपर्याययोर्भेदकथनमशुद्धसद्भूतव्यवहारः ५ । स्वजात्यसद्भूतव्यवहारः, यथा-परमाणुबहुप्रदेशीति कथनम् ६ । विजात्यसद्भूतव्यवहारः, यथा-मूर्तिमन्मतिज्ञानं मूर्तजनितत्वात् ७ । उभया
निरुपाधिगुण-गुणिभेदमात्रविषयकत्वेन शुद्धपर्याय-द्रव्ययोरपि भेदकथनात्मकाच्छुद्धसद्भूतव्यवहाराद् भेद इति ।
पञ्चमभेदं लक्षयति-अशुद्धगुण-गुणिनोरिति-अस्याशुद्धद्रव्यपर्याययोरपि भेदस्य बोधकत्वेनोपचरितसद्भूतव्यवहाराद् भेदः, उदाहरणम्-जीवस्य मतिज्ञानादयो गुणाः, मनुजादयः पर्याया इति ।
षष्ठं भेदमुपदर्शयति-खजात्यसद्भूतव्यवहार इति, द्वादशभेदमसद्भूतव्यवहारमग्रे लक्षयिष्यति, अन्यत्र प्रसिद्धस्य धर्मस्थान्यत्र समारोपणसद्भूतव्यवहार इति तदेव सामान्यलक्षणं किञ्चिद् विशेषमुपादाय षष्ठादिभेदानामपि भविष्यतीत्यभिसन्धाय लक्षणं नाभिहितम् , तथा च स्वजातिविषयकं यद् अन्यत्र प्रसिद्धस्य धर्मस्यान्यत्र समारोपणं स स्वजात्यसद्भूतव्यवहार इत्यर्थः । उदाहरति यथेति-'परमाणुबहुप्रदेशी' इत्यत्र बहुप्रदेशिभिन्ने परमाणौ बहुप्रदेशित्वस्य समारोपणमस्ति, परमाणु-बहुप्रदेशिनोः पुद्गलत्वेन साजात्यमस्तीति स्वजातिविषयकोऽयमिति भवति स्वजात्यसद्भूतव्यवहार इत्यर्थः।
सप्तमं भेदमुपदर्शयति-विजात्यसद्भूतव्यवहार इति-विजातिविषयकं यद् अन्यत्र प्रसिद्धस्य धर्मस्यान्यत्र समारोपणं स विजात्यसद्भूतव्यवहार इत्यर्थः । उदाहरति-यथेति-'मूर्तिमद् मतिज्ञानम्' इत्यत्र मूर्तिमत्पुद्गलभिन्ने मतिज्ञाने मूर्तजनितत्वहेतुतो मूर्तिमत्त्वस्य पुद्गले
६ सप्तभन्नी
Page #100
--------------------------------------------------------------------------
________________
बालबोधिनीविवृतिविभूषितं सद्भूतव्यवहारः, यथा-ज्ञेये जीवे चाजीवे ज्ञानमिति कथनं तयोनिविषयत्वात् ८। स्वजात्युपचरितासद्भूतव्यवहारः, यथा
प्रसिद्धस्य धर्मस्य समारोपणमस्ति, मूर्तिमतो विजातीयं च मतिज्ञानमिति भवति विजात्यसद्भूतव्यवहार इत्यर्थः ।
अष्टमं भेदमुपदर्शयति-उभयासद्भूतव्यवहार इति-स्वजातिविजात्युभयविषयकं यद् अन्यत्र प्रसिद्धस्य धर्मस्यान्यत्र समारोपणं स उभयासद्भूतव्यवहार इत्यर्थः । उदाहरति-- यथेति-'ज्ञेये जीवे चाजीवे ज्ञानम्' इत्यत्र ज्ञातृस्वभावस्य ज्ञानलक्षणोपयोगस्य ज्ञातरि प्रसिद्धस्य ज्ञातृभिन्ने ज्ञेयभूते जीवेऽजीवे च समारोपणमस्ति, ज्ञातृखभावस्य ज्ञानस्य जीवो ज्ञेयस्वरूपः सजातीयः, विजातीयश्चाजीव इति, तदुभयं च विषय इति भवति सजाति-विजात्युभयासद्भूतव्यवहार इति, जीवे 'ज्ञेये' इति विशेषणोपादानेनेदं ज्ञापितम् , यदुत ज्ञानं जीवस्य धर्मो भवति, परमसौ ज्ञातुर्जीवस्य न तु तद्भिन्नस्य ज्ञेयतयाऽभिमतस्य जीवस्येति, तत्र तस्य समारोपणमेवेत्यर्थः । तयोः जीवाजीवयोः ।
नवमं भेदमुपदर्शयति-स्वजात्युपचरितासद्भूतव्यवहार इतिस्वजात्यसद्भूतव्यवहारस्य यल्लक्षणं तदेवोपचरितत्वविशेषणमधिकमुपादायाऽस्य लक्षणमवसेयम् , यथा च खजात्यसद्भूतव्यवहारादिष्वन्तर्भावयितुं शक्योऽप्यसद्भूतव्यवहारो दैगम्बरी प्रक्रियामाश्रित्य पार्थक्यमनुभवति सामान्य-विशेषयोर्भेदोपासनतस्तथैव स्वजात्युपचरितासद्भूतव्यवहारादिष्वन्तर्भवनशीला अपि स्वजात्यसद्भूतव्यवहारादयो दैगम्बरी प्रक्रियामवलम्ब्यैव पार्थक्यभाजोऽवसेयाः । उदाहरति-यथेति-'पुत्र
Page #101
--------------------------------------------------------------------------
________________
सप्तभङ्गी नयप्रदीपप्रकरणम् । ३ पुत्र-दारादि मम ९ । विजात्युपचरितासद्भूतव्यवहारः, यथावस्त्र-भूषण-हेम-रत्नादि मम १० । तदुभयोपचरितासद्भूतव्यव
दारादि मम' इत्यत्र पुत्र-दारादावस्मच्छब्दार्थदेवदत्तादिपुरुषविशेषस्वत्वं वस्तुतो नास्त्येव किन्त्वारोपणमेव तस्य व्यवहारबलात् , ततश्च खखरूपादौ प्रसिद्धस्य स्वखत्वस्य समारोपणं समस्ति, यथा चास्मच्छब्दार्थो जीवविशेषस्तथा पुत्र-दारादिकमपीति जीवत्वेन समानजातीयत्वात् खजातिविषयत्वम् , य एव चैकस्य पुत्र इति व्यवयिते स एवान्यस्य पितृत्वेन मातुलत्वेन भ्रातृत्वेन भागिनेयत्वादिना च व्यवह्रियते, यैव महिला एकस्य दारा इति व्यवह्रियते सैवान्यस्य जननी भगिनी मातुलानीत्यादिना च व्यवयित इत्युपचरितपुत्रत्व-दारत्वादियोगादुपचरितमेव पुत्र-दारादीति भवत्ययं खजात्युपचरितासद्भूतव्यवहार इत्यर्थः । ___ दशमं भेदमुपदर्शयति-विजात्युपचरितासद्भूतव्यवहार इतिविजात्यसद्भूतव्यवहारस्य लक्षणमेव चोपचरितत्वरूपाधिकविशेषणमुपादायाऽस्य लक्षणं ज्ञेयम् । उदाहरति-यथेति-वस्त्र-भूषण-हेम-रत्नादि मम' इत्यत्र वस्त्र-भूषण-हेम-रत्नादावस्मच्छब्दार्थस्वत्वारोपणं पूर्ववद भावनीयम् , यदेव वस्त्रादिकमेकस्याच्छादनादिप्रतिनियतकार्यकारितया वस्त्रादि भवति तदेवाऽन्यस्य तथाकार्याकरणतस्तथा न भवतीत्येवं दिशोपचरितत्वं सूक्ष्मेक्षिकया परिभाव्यम् , विजातीयत्वमस्मच्छब्दार्थजीवतः सुव्यकमेवेति भवत्ययं विजात्युपचरितासद्भूतव्यवहार इत्यर्थः ।
एकादशभेदमुपदर्शयति-तदुभयोपचरितासद्भूतव्यवहार इतियदेवोभयासद्भूतव्यवहारस्य लक्षणं तदेवोपचरितत्वविशेषणमुपादायास्य
Page #102
--------------------------------------------------------------------------
________________
बालबोधिनीविवृतिविभूषितं हारः, यथा-देशराज्यकीर्तिदुर्गादि मम ११ । अन्यत्र प्रसिद्धस्य धर्मस्थान्यत्र समारोपणमसद्भूतव्यवहारः १२ । असद्भूतव्यवहार एवोपचारः, य उपचारादप्युपचारं करोति स उपचरितासद्भूतव्यवहारः, यथा-देवदत्तस्य धनमित्यत्र संश्लेषरहितवस्तु
लक्षणं प्रतिपत्तव्यम् । उदाहरति-यथेति-देशाधन्तर्गतं जीवविशेषादिकमपीति तदपेक्षया खजातिविषयकत्वं तदन्यापेक्षया विजातिविषयकत्वमिति स्वजाति-विजात्युभयविषयकत्वम् , अन्यत् पूर्ववद् भावनीयम् ।
द्वादशभेदं लक्षयति-अन्यत्रेति-यद्यपि खजात्यसद्भूतव्यवहारादीनां यान्युदाहरणानि तानि सर्वाण्येवासद्भूतव्यवहारस्योदाहरणानि सम्भवन्ति, यच्चान्यदेव किञ्चिदुदाहरणं परिकल्प्योपदर्शनीयं तदपि स्वजात्यसद्भूतव्यवहारादिलक्षणान्यतमावगुण्ठितमेव तथापि सर्वलोकप्रसिद्धं यद् भारवाहीके गोत्वारोपणम् 'अयं गौः' इति तदस्योदाहरणमवगन्तव्यम् , एवं कुण्डिका स्रवति, पन्था गच्छतीत्यादिकं ज्ञेयम् ।
त्रयोदशं भेदमुपदर्शयति-असद्भूतेति-'सिंहो माणवकः' इत्यादिरौपचारिकः प्रयोग इति गीयते, तत्रोपचारः क इति पृच्छायां योऽर्य माणवके सिंह इत्येवमसद्भुतव्यवहारः स एवोपचार इत्येवोत्तरं भवति, तदतिरिक्तस्योपचारस्य तत्र वक्तुमशक्यत्वादित्यभिसन्धिः । उपचरितासद्भूतव्यवहारमुदाहरति-यथेति-'देवदत्तस्य धनम्' इत्यत्र कस्मिंश्चिच्छरीरविशेषविशिष्टे पुरुषे देवदत्त इति नामकरणाद् योऽयं देवदत्त इति व्यवहारः स उपचार एव, यतः पुरुषेच्छापरतन्त्रमेव नामकरणं न वस्त्वधीनमिति देवदत्त इति नामकरणवत्, तत्र पुरुषे यज्ञदत्त-भवदत्तादि
Page #103
--------------------------------------------------------------------------
________________
सप्तभङ्गी नयप्रदीपप्रकरणम् ।। सम्बन्धविषयः१३। संश्लेषसहितवस्तुसम्बन्धविषयोऽनुपचरितासद्भूतव्यवहारः, यथा-जीवस्य शरीरमिति १४ । उपचारोऽपि नवधा, तथाहि-द्रव्ये द्रव्योपचारः१,गुणे गुणोपचारः२, पर्याये
नामकरणेऽपि तथा व्यवहियेतैव सः, एवं यस्य स्वत्वं यत्र ब्रीह्यादौ रत्नादौ विद्यादौ वा तस्य तद् धनम् , उदासीनपुरुषापेक्षया तु न तद् धनमिति ब्रीह्यादौ सङ्केतितमेव धनमिति, तथा च ब्रीह्यादौ योऽयं धनमिति व्यवहारः सोऽप्युपचार एव, धनेन सह देवदत्तस्य न संयोगलक्षणसंश्लेष इति संश्लेषरहितरहितस्य धनात्मकवस्तुनः स्वस्खामिसम्बन्धविषयकोऽयं देवदत्तस्य धनमिति भवति उपचरितासद्भूतव्यवहार इत्यर्थः।
चतुर्दशभेदमुपदर्शयति-संश्लेषसहितेति । अनुपचरितासद्भूतव्यवहारममुदाहरति-यथेति-'जीवस्य शरीरम्' इत्यत्र न जीव उपचरितः प्राणधारणकर्तृत्वस्य तत्र वस्तुतो भावात् , शीर्यत इति शरीरमिति व्युत्पत्तिलभ्यविनशनशीलत्वरूपार्थस्य काये वस्तुतो घटनान्न शरीरमित्युपचरितं किन्तु जीवस्य सुखदुःखाद्युपभोगेऽवच्छेदकविधया कारणत्वेन सहकारिभूते शरीरे जीवस्य सम्बन्धः कल्प्यत एव न वस्तुतः सम्बन्धोऽस्तीत्यतोऽसद्भूतव्यवहारोऽयं शरीरेण सहान्योऽन्यानुविद्धतया संयोगलक्षणसंश्लेषो विद्यत इति संश्लेषसहितं यच्छरीरलक्षणं वस्तु तत्सम्बन्धविषयकोऽयमिति भवति संश्लेषसहितवस्तुसम्बन्धविषयोऽनुपचरितासद्भूतव्यवहार इत्यर्थः ।
असद्भूतव्यवहारविषयस्योपचारस्य नवविधत्वमुपदर्शयति-उपचारोऽपि नवधेति । तानेव नव प्रकारानुल्लिखति-तथाहीति-द्रव्ये
Page #104
--------------------------------------------------------------------------
________________
बालबोधिनीविवृतिविभूषितं पर्यायोपचारः ३, द्रव्ये गुणोपचारः ४, द्रव्ये पर्यायोपचारः ५, गुणे द्रव्योपचारः ६, गुणे पर्यायोपचारः ७, पर्याये द्रव्योपचारः ८, पर्याये गुणोपचारः ९, सर्वोऽप्यसद्भूतव्यवहारस्याओं द्रष्टव्यः, अत एवोपचारः पृथग नयो न भवतीति । मुख्याभावे सति प्रयोजने निमित्ते चोपचारः प्रवर्तते । सोऽपि सम्बन्धोऽवि
द्रव्योपचारो यथा-जीवः पुद्गल इति, गुणे गुणोपचारो यथा-ज्ञान मूर्तिरिति, पर्याये पर्यायोपचारो यथा-नडुलोदकं पादरोग इति, द्रव्ये गुणोपचारो यथा-आत्मा ज्ञानमिति, द्रव्ये पर्यायोपचारो यथा-आत्मा मनुज इति, मृद् घट इति, गुणे द्रव्योपचारो यथा-ज्ञानमात्मेति, गुणे पर्यायोपचारो यथा-ज्ञानं मतिरिति, पर्याये द्रव्योपचारो यथा-घटादिमृद् द्रव्यमिति, पर्याये गुणोपचारो यथा-मत्यादि ज्ञानमिति । सर्वोऽपि नवविधोऽप्युपचारः । अर्थः विषयः । अत एव उपचारस्यासद्भूतव्यवहारेऽन्तर्भावादेव । पृथग् नयः व्यवहारनयाद् भिन्नो नयः । उपचारप्रवृत्तिं नियमयति--मुख्याभाव इति-यत्र मुख्योऽर्थो न घटते उपचाराश्रयणे किञ्चित्प्रयोजनं च विद्यते, यस्य यत्रोपचारस्तयोः कश्चित् सम्बन्ध उपचारनिमित्तभूतः समस्ति तत्रोपचारः प्रवर्तते इत्यर्थः । संश्लेषरहितवस्तुसम्बन्धविषय उपचरितासद्भूतव्यवहार उक्तः, संश्लेषसहितवस्तुसम्बन्धविषयोऽनुपचरितासद्भूतव्यवहार उक्तः, तत्र सम्बन्धः क इत्यपेक्षायामाह-सोऽपीति-उपचारंनिमित्त उपचारविषयीभूतो वाऽपीत्यर्थः । अविनाभाव इति-गुणे द्रव्योपचारो द्रव्ये गुणोपचारो वा यत्र तत्र द्रव्य-गुणयोः सहभावित्वादविनाभावः सम्बन्धः, एवं कृतकर्मनित्यमित्युपर्यते, अनित्यं च कृतकमिति तत्र कृतकानित्ययोर
Page #105
--------------------------------------------------------------------------
________________
सप्तभङ्गी- नयप्रदीपप्रकरणम् ।
नाभावः, संश्लेषसम्बन्धः, परिणाम- परिणामिसम्बन्धः, श्रद्धाश्रद्धेयसम्बन्धः, ज्ञान ज्ञेयसम्बन्धचेति । उपचरितासद्भूतव्यवहारस्त्रेधा - सत्यार्थः, असत्यार्थः, उभयार्थश्च इति व्यवहारनयस्यार्थाः, चतुर्दशभेदाश्च ज्ञेयाः, भेदविषयो व्यवहारः ॥ इति द्रव्यार्थिकस्य तृतीयो भेदो व्यवहारनयः ॥
,
८७
-
विनाभावः सम्बन्धः । संश्लेषसम्बन्धो यथा- आत्मनि शरीररूपमुपचर्य 'अहं गौरः स्थूलः' इति व्यवहारः प्रवर्तते, तत्र शरीरेण सहात्मनः संश्लेषलक्षणसम्बन्धः; एवं नीलादिरञ्जनवस्तुसम्बन्धान्नीलं पीतं रक्तमित्यादिरूपेण वस्त्रमुपचरितं भवति, तत्रापि संश्लेषसम्बन्धः । 'मृद् घटः, ज्ञानं मतिः' इत्यादौ परिणाम - परिणामिसम्बन्धः | श्रद्धाश्रद्धेयसम्बन्ध इति-यो यच्छ्रद्धः स एव स इति वचनाद् 'जिनश्रद्धो जिन एव, हरिभक्तो हरिरेव' इत्यादौ श्रद्धा - श्रद्धेयसम्बन्धः । 'घटज्ञानं घटः, पटज्ञानं पटः' इत्यादी ज्ञान - ज्ञेयसम्बन्ध इति । उपचरितासद्भूतव्यवहारस्य त्रैविध्यमुपदर्शयति – उपचरितेति - यावन्मात्रं देवदत्तसम्बन्धि धनं तावन्मात्रं धनमुपादाय योऽयं देवदत्तस्य धनमिति व्यवहारः स सत्यार्थ इत्यर्थः, यश्च न देवदत्तस्य धनं तदेवोपादाय देवदत्तस्य धनमिति व्यवहारोऽसत्यार्थः, यत् किञ्चिद् देवदत्तस्य धनं किञ्चिच्चान्यस्य तदुभयात्मकधनसमष्टिमुपादाय देवदत्तस्य धनमिति व्यवहारः सत्यासत्योभयार्थः । इति एवंप्रकारेण, व्यवहारनयस्य अर्था विषया ज्ञेया इति सम्बन्धः । चतुर्दशेति सद्भूतव्यवहार इत्यारभ्यानुपचरितासद्भूतव्यवहार इत्यन्तग्रन्थेन चतुर्दश भेदा व्यवहारस्य ज्ञेया इत्यर्थः । अयं च सर्वोऽपि व्यवहारभेदो भेदविषय उपदर्शित इत्याह-भेदविषय इति-सङ्ग्रहोऽभेदविषयः, अयं च भेदविषय इति
Page #106
--------------------------------------------------------------------------
________________
बालबोधिनी विवृतिविभूषितं - इदानी पर्यायार्थिकस्य चतुर्भेदप्ररूपणायां तावदृजुसूत्रं विवेचयन्ति-"ऋजु वर्तमानक्षणस्थायि पर्यायमात्रं प्राधान्यतः सूत्रयन्नभिप्राय ऋजुसूत्रः" इति ॥
-[प्रमा० परि० ७ सूत्रम्-२८] एतस्यार्थः-भूत-भविष्यद्वर्तमानक्षणलवविशिष्टलक्षणकौटिल्यविविक्तत्वाद् ऋजु सरलमेव सूत्रयति-द्रव्यस्थाप्राधान्यतया
सङ्ग्रहादस्य सर्वथा भेद इत्यनेनावेदितम् । व्यवहारनयनिरूपणपरिसमाप्त्या द्रव्यार्थिकनयनिरूपणपरिसमाप्ति सूचयति-इतीति । इति व्यवहारनिरूपणम् ॥ इति द्रव्यार्थिकनयनिरूपणम् ।।
अथ पर्यायार्थिकनयनिरूपणे, ऋजुसूत्रनयनिरूपणम्-ऋजुसूत्र-शब्द-समभिरूद्वैवम्भूतभेदात् पर्यायार्थिकनयश्चतुर्धा, तत्रार्थनयत्वेन व्यवहारनयसजातीयत्वात् प्रथममृजुसूत्रनयनिरूपणमधिकरोतिइदानीमिति-द्रव्यार्थिकनयनिरूपणानन्तरकाल इत्यर्थः । ऋजुसूत्रस्य निरुक्तिबललभ्यस्वरूपमुपदर्शयति-ऋज्विति । अस्यैवार्थकथनम्-- वर्तमानक्षणस्थायिपर्यायमात्रमिति । 'सूत्रयन्' इत्यस्य प्राधान्यत इति विशेषणोपादानाद् गौणतया द्रव्यमभ्युपैति न तु तत् प्रतिक्षिपति, तथा सति नयाभासता प्रसज्येतेति । ऋजुसूत्रस्यानन्तरोपदर्शितनिरुक्तिप्रपञ्चवाक्यस्यार्थमावेदयति-~एतस्यार्थ इति । भूतेति-भूत-भविष्यकालवैशिष्ट्यमेव यद्यपि कौटिल्यं तथापि भूत-भविष्यत्कालमध्यवर्तित्वेन वर्तमानकालवैशिष्ट्यमपि कौटिल्यमित्यभिसन्धाय भूत-भविष्यद्वर्तमानक्षणलवविशिष्टलक्षणत्वं कौटिल्यस्याभिहितम् । 'सूत्रयति' इत्यस्य
Page #107
--------------------------------------------------------------------------
________________
सप्तभङ्गी- नयप्रदीपप्रकरणम् ।
८९
पर्यायाणां क्षणक्षयिणां प्राधान्यतया दर्शयतीति ऋजुसूत्रः । उदाहरणम् - " यथा सुखविवर्तः सम्प्रत्यस्तीत्यादिः " ॥
- [ प्रमा० परि० ७ सूत्रम् - २९ ] अनेन वाक्येन क्षणिकं सुखाख्यं पर्यायमात्रं मुख्यतया दर्श्यते, तदधिकरणं जीवद्रव्यं गौणत्वेनापि न प्रतीयत इति । एतदाभासं निरूपयन्ति - " सर्वथा द्रव्यापलापी तदाभासः" इति ||
- [ प्रमा० परि० ७ सूत्रम् - ३० ]
WWW.
व्याख्यानम् —— दर्शयतीति । कथं दर्शयति ? येन सरलमेव दर्शितं भवतीत्यपेक्षायामाह --- द्रव्यस्याप्राधान्यतयेति । उक्तलक्षणमृजुसूत्रमुदाहरति — उदाहरणमिति । सुखविवर्त्तः सुखात्मकपर्यायः । अनेन वाक्येन - 'सुखविवर्त्तः सम्प्रत्यस्ति' इति वाक्येन, अस्य दर्श्यते' इत्यनेनान्वयः । तदधिकरणं सुखपर्यायाधिकरणम् । गौणत्वेनापि न प्रतीयत इति - यदि 'आत्मनि सुख विवर्त्तः सम्प्रत्यस्ति' इति वाक्यं भवेत् तदा सुखविवर्त्तस्य मुख्यविशेष्यत्वेन प्रधानतयाऽऽत्मनस्तद्विशेषणत्वेन गौणतया प्रतीतिरुक्तवाक्यात् स्यात्, न चैवम् । ननु 'द्रव्यस्याप्राधान्यतया दर्शयति' इति लक्षणभागस्याघटनादृजुसूत्रत्वं न स्यादिति चेत्, न - पर्यायस्य द्रव्यात् कथञ्चिद् भिन्नाभिन्नत्वेन पर्यायमाने तदभिन्नतया द्रव्यमपि भासत एव, द्रव्यात्मना तु न भासत इत्यप्रधानतया भानम्, पर्यायविशेषणतयाऽनुल्लिखितत्वेन तथा तत्प्रतीतिर्नास्तीति 'गौणत्वेनापि न प्रतीयते' इत्युक्तिरप्रधानतया प्रतीतावपि न विरुध्यत इति बोध्यम् । प्रसङ्गादृजुसूत्राभासनिरूपणमधिकरोति - एतदाभासमिति - ऋजुसूत्राभासमित्यर्थः । सर्वथेति - द्रव्यं नास्त्येव यत् सत् तत् क्षणिकमेवे
Page #108
--------------------------------------------------------------------------
________________
बालबोधिनीविवृतिविभूषितं उदाहरणम्-"यथा तथागतमतम्" इति ॥
-[प्रमा० परि० ७ सूत्रम्-३१] बौद्धो हि क्षणक्षयिणः पर्यायानेव प्रधानतया प्ररूपयति, तत्तदाधारभूतानि द्रव्याणि नाभिमन्यते, अतस्तन्मतं तदाभासतया ज्ञेयम् ।
ऋजुसूत्रो द्विधा, सूक्ष्मर्जुसूत्रो यथैकसमयावस्थायी पर्यायः१, स्थूलर्जुसूत्रो यथा मनुष्यादिपर्यायास्तदायुःप्रमाणकालं तिष्ठन्ति२॥ इति पर्यायार्थिकस्य प्रथमो भेद ऋजुसूत्रनयः ॥ __ अथ द्वितीय भेदं प्रभेदयन्ति-"कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः" इति ॥
--[प्रमा० परि० ७ सूत्रम्-३२]
त्युपगम ऋजुसूत्राभास इत्यर्थः । एतदुदाहरति-उदाहरणमिति । तथागतमिति-'यत् सत् तत् क्षणिकम्' इति व्याप्त्या सर्व क्षणिकमेवेति बुद्धमतमृजुसूत्राभास इत्यर्थः । बौद्धमतस्य सर्वथा द्रव्यापलापित्वात् पर्यायमात्राभ्युपगन्तृत्वेन ऋजुसूत्राभासता ज्ञेयेति दर्शयतिबौद्धो हीति । तत्तदाधारभूतानि तत्तत्पर्यायाधारभूतानि । तन्मतं बौद्धमतम् । तदाभासतया ज्ञेयम् ऋजुसूत्राभासतयाऽवधार्यम् । सूक्ष्मर्जुसूत्र-स्थूलर्जुसूत्राभ्यामृजुसूत्रस्य द्वैविध्यं दर्शयति-ऋजुसूत्रो द्विधेति ॥ इति ऋजुसूत्रनिरूपणम् ॥
अथ शब्दनयनिरूपणम्पर्यायार्थिकद्वितीयभेदस्य शब्दनयस्य निरूपणमधिकरोतिअथेति । 'कालादि०' इत्यादिपदात् कारक-लिङ्ग-सङ्ख्या-पुरुषोपस
Page #109
--------------------------------------------------------------------------
________________
सप्तभङ्गी - नयप्रदीपप्रकरणम् ।
एतस्यार्थः - सङ्केताद् व्याकरणात् प्रकृति - प्रत्ययसमुदायेन सिद्धः काल-कारक-लिङ्ग-सङ्ख्या-पुरुषोपसर्गभेदेनार्थं पर्यायमात्रं प्रतीयते स शब्दनयः । कालभेदे उदाहरणम् - " यथा बभूव भवति भविष्यति सुमेरुरित्यादिः " ॥
९१
-- [ प्रमा० परि० ७ सूत्रम् - ३३ ] अत्र कालत्रयविभेदात् सुमेरोरपि भेदत्वं शब्दनयेन प्रतिपाद्यते, द्रव्यत्वेन त्वभेदोऽस्योपेक्ष्यते । कारकभेदे उदाहरणम् करोति
र्गाणां परिग्रहः । ध्वनेः शब्दस्य । एतस्यार्थः 'कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः' इति लक्षणवाक्यस्यार्थः । सिद्धः शब्द इति दृश्यम् । प्रतीयत इति स्थाने प्रत्याययतीति पाठो युक्तः, प्रत्येतीति पाठो वा, 'प्रतीयते' इति पाठप्रामाण्ये तु पर्यायमात्रं प्रति इयते इति छेदः, तस्य प्रतिपादकत्वेन पर्यायमात्रं प्रति गच्छतीत्यर्थः । कालभेदेन भिन्नार्थप्रतिपादकमुदाहरति- कालभेदे उदाहरणमिति - ' बभूव मेरुः ' इति शब्दप्रतिपाद्यो मेरुरन्यः ' अन्यश्च भवति मेरुः' इतिशब्द प्रतिपाद्यः, तदन्यश्च 'भविष्यति मेरुः' इतिशब्दप्रतिपाद्यः शब्दनये, भूत-भविष्यद्वर्तमानकालानां मेरुसम्बन्धिनां भेदे मेरोरपि भेद इति । अत्र बभूव भवति भविष्यति मेरुरित्यत्र य एव मेरुर्बभूव स एव भवति भविष्यति चेति द्रव्यत्वेन तस्यैक्यं समस्ति परं शब्दनयस्तत्र गजनिमीलिकामवलम्बत इत्याह — द्रव्यत्वेनेति ।
कारकभेदेऽर्थ भेदप्रतिपादकं शब्दनयमुदाहरति- कारकभेदे उदाहरणमिति - 'करोति कुम्भम्' इति कर्तृप्रत्ययस्थले द्वितीयान्तपदप्रतिपाद्यात् कुम्भात् 'क्रियते कुम्भः' इति कर्मप्रत्ययस्थलीयप्रथमान्तपदप्रतिपाद्यः कुम्भोऽन्य एव शब्दनयेन प्रतीयत इति ।
Page #110
--------------------------------------------------------------------------
________________
बालबोधिनीविवृतिविभूषितं कुम्भम्, क्रियते कुम्भ इति । लिङ्गभेदे-तटस्तटी तटमिति । सङ्ख्याभेदे-दाराः, कलत्रम् , गृहाः। पुरुषभेदे-एहि ! मन्ये-रथेन
------
लिङ्गभेदेनार्थभेदप्रतिपादकं शब्दनयमुदाहरति-लिङ्गभेद इतितट इति पुल्लिँङ्गप्रतिपाद्यस्तटरूपोऽर्थोऽन्यः, अन्यस्तटीति स्त्रीलिङ्गप्रतिपाद्यः, ताभ्यामन्यश्च तटमिति नपुंसकलिङ्गप्रतिपाद्य इत्येवं शब्दनयोऽभिमन्यते । __ सङ्ख्याभेदेनार्थभेदप्रतिपादकं शब्दनयमुदाहरति-सङ्ख्याभेद इतिबहुवचनान्तदारपदप्रतिपाद्यो दाररूपार्थोऽन्यः, ततोऽन्यः कलत्रमित्येकवचनान्तकलत्रपदप्रतिपाद्यः, तस्मादन्यश्च बहुवचनान्तगृहपदप्रतिपाद्यः, "न गृहं गृहमित्याहुहिणी गृहमुच्यते" इति वचनाद् गृहकार्यनिपुणायां स्त्रियामपि गृहशब्दो वर्तत इति स्त्रीबोधकोऽयं गृहशब्द इति, अन्यथैकवचनान्तपदप्रतिपाद्याद् गृहरूपार्थाद् बहुवचनान्तगृहपदप्रतिपाद्योऽन्य एवेति सङ्ख्याभेद नार्थभेद इति शब्दनयोऽभ्युपगच्छतीत्यर्थः। ___ उत्तम-मध्यमाऽन्यपुरुषभेदेनाऽर्थभेदप्रतिपादकं शब्दनयमुदाहर्तुमाह-पुरुषभेद इति-अस्मच्छब्दवाच्योऽर्थ उत्तमपुरुषः, युष्मच्छब्दवाच्योऽर्थों मध्यमपुरुषः, ताभ्यामन्योऽर्थोऽन्यपुरुषः, तबोधकप्रत्ययभेदे योऽर्थभेदस्तत्प्रतिपादकमनन्तरमुच्यमानमुदाहरणमित्यर्थः । किं स्वरूपं तदित्याकाङ्क्षायामाह-एहीत्यादि । एहि आपूर्वकस्य इधातोर्विध्यादौ मध्यमपुरुषैकवचने रूपम् , 'आगच्छ' इति तदर्थः। मन्ये मन्धातोर्वर्तमानायामुत्तमपुरुषैकवचने रूपम् , वक्ष्यमाणसूत्रबलाद 'मन्यसे, मन्येथे, मन्यध्वे इति' मध्यमपुरुषस्थाने उत्तमपुरुषस्य एकवचनान्तत्वेन निर्देशः, अर्थस्तु मध्यमपुरुषमाश्रित्य वाच्यः, तत्र यद्यपि
Page #111
--------------------------------------------------------------------------
________________
सप्तभङ्गी नयप्रदीपप्रकरणम् । यास्यसि, नहि यास्यति[सि], यातस्ते पिता । अथवा-एहि ! मन्येओदनं भोक्ष्यसे, भुक्तः सोऽतिथिभिः, एतम् एतं वा । मन्ये
द्विवचन बहुवचने अपि सम्भवतस्तथापि 'एहि' इत्येकवचनान्तसान्निध्याद 'मन्यसे' इत्येकवचनान्तस्थाने 'मन्ये' इत्यवगन्तव्यम् , 'विचारयसि', इति तदर्थः । कीदृशी विचारणा ? इत्याह-रथेन यास्यसीति । रथेन वाहनविशेषेण । यास्यसि याधातोभविष्यन्त्यां मध्यमपुरुषैकवचने रूपम् , वक्ष्यमाणसूत्रबलाद् ‘यास्यामि' इत्युत्तमपुरुषस्थाने मध्यमपुरुषतया निर्देश 'गमिष्यामि' इति तदर्थः । निरुक्तपुरुषव्यवस्था-वचनव्यवस्थाप्रयोजकप्रहासावगतये प्राह नहि यास्यसि, यातस्ते पितेति । अत्र 'एहि ! त्वं मन्यसे-अहं रथेन यास्यामि' इति वक्तव्ये सूत्रविशेषविधानसामर्थ्यात् 'एहि ! मन्ये-रथेन यास्यसि' इति प्रयुज्यते । अत्र यद्यपि 'एहि' इत्यनेन सम्बोध्यो यो मैत्रादिः स एव 'मन्ये' इत्यस्य 'यास्यसि' इत्यस्य च कर्ता तथापि पुरुषभेदादर्थभेद इति शब्दनयोऽभिमन्यत इति 'एहि' इति ‘यास्यसि' इति च मध्यमपुरुषाख्यातवाच्यादर्थाद् 'मन्ये' इत्युत्तमपुरुषाख्यातवाच्योऽर्थोऽन्यः । प्रकारान्तरेणोक्तमेवार्थमाह---अथवेति-'एहि ! मन्यसे ओदनं भोक्ष्ये' इति वक्तव्ये वक्ष्यमाणसूत्रबलाद् ‘एहि ! मन्ये--ओदनं भोक्ष्यसे, इति प्रयुज्यते, 'भुक्तः सोऽतिथिभिः' इत्यनेन प्रहासस्य गम्यमानत्वं लभ्यते, तथा सत्येव निरुक्तपुरुषव्यवस्था-वचनव्यवस्थे भवतः । सम्बोध्यकव्यक्तिमाश्रित्य 'एहि ! मन्ये-ओदनं भोक्ष्यसे' इत्युदाहृतम् । अथ सम्बोव्यं व्यक्तिद्वयं व्यक्तित्रयं चाश्रित्योदाहर्तुमाह-एतम् ! एनम् ! वेत्यादि-अत्र 'एतम् ! एत! वा' इत्यादिपाठः समुचितः । एतम् । आपूर्वकस्य इधातोर्वि
Page #112
--------------------------------------------------------------------------
________________
९४
बालबोधिनीविवृतिविभूषितं ओदनं भोक्ष्येथे भोक्ष्यध्वे, भोक्ष्ये भोक्ष्यावहे भोक्ष्यामहे इत्यादिः, मन्यसे मन्येथे इत्यादिरर्थः, "प्रहासे च मन्योपपदे मन्यतेरुत्तम घ्यादौ मध्यमपुरुषद्विवचने रूपम् , 'आगच्छतम्' इति तदर्थः। एत आङ्पूर्वकस्य इधातोर्विध्यादौ मध्यमपुरुषबहुवचने रूपम् , 'आगच्छत' इति तदर्थः । वाशब्दः समुच्चयार्थः, तेनोदाहरणत्रयमावेदितं भवति, तथाहि-एहि ! मन्ये-ओदनं भोक्ष्यसे १, एतम् ! मन्ये-ओदनं भोक्ष्येथे २, एत! मन्ये ओदनं भोक्ष्यध्वे ३ । एकस्य सम्बोधने प्रथममुदाहरणम्, द्वयोः सम्बोधने द्वितीयम् , बहूनां सम्बोधने तृतीयम् , मन् धातोर्विधानबलात् सर्वत्र उत्तमपुरुषैकवचनेन निर्देशः, भुजूधातोर्विधानबलाद् उत्तमपुरुषस्थाने मध्यमपुरुषनिर्देशः, शेषं तु सर्वत्र यथास्थितमेव । अत्र प्रथममुदाहरणम्-'एहि ! मन्यसे-ओदनं भोक्ष्ये इति स्थाने, द्वितीयम्-'एतम् ! मन्येथे-ओदनं भोक्ष्यावहे' इति स्थाने, तृतीयम्-- 'एत! मन्यध्वे ओदनं भोक्ष्यामहे' इति स्थाने विज्ञेयम् -भोक्ष्ये भोक्ष्यावहे भोक्ष्यामहे इत्यादिरिति-उदाहरणदत्ताः ‘भोक्ष्यसे, भोयेथे, भोक्ष्यध्वे' इति त्रयः प्रयोगाः क्रमेणैतत्रितयस्थाने संजाता इत्यर्थः, तेषां पुरुषभेदान्मिथो मिन्नार्थत्वमिति व्यज्यत इति भावः । त्रिष्वप्युदाहरणेषु ‘मन्ये' इत्यस्यैकाकारत्वादर्थभेदः कश्चिदस्ति न वेत्याकाङ्क्षायामाह-मन्यसे मन्येथे इत्यादिरर्थ इति-प्रथमोदाहरणे 'मन्ये' इत्यस्य 'मन्यसे' इत्यर्थः, द्वितीये 'मन्येथे' इत्यर्थः, तृतीये 'मन्यध्वे' इत्यर्थो बोध्यः । ननु तत्र किं नियामकमिति चेद् , उच्यतेसन्निहितपदवचनं नियामकम् , तथाहि-'एहि' इत्येकवचनान्तस्थले 'मन्यसे' इति 'एतम्' इति द्विवचनान्तस्थले 'मन्येथे' इति, 'एत' इति बहुवचनान्तस्थले 'मन्यध्वे' इति । ननु पुरुषान्तरवाच्ये पुरुषा
Page #113
--------------------------------------------------------------------------
________________
सप्तभङ्गी नयप्रदीपप्रकरणम् । एकवच" [पा. १. ४. १०६.] इति सूत्रेणेयं पुरुषव्यवस्था प्रहास एव, यथार्थकथने तु-एहि! त्वं मन्यसे-ओदनमहं भोक्ष्य, भुक्तः सोऽतिथिभिरिति । उपसर्गभेदे सन्तिष्ठते, अवतिष्ठते । क्वचिदर्थभेदस्यापि ग्रहणम्-"संशय्य कर्णादिषु तिष्ठते
न्तरीयप्रयोगश्चेत् तदाऽव्यवस्थैव स्यादित्यारेका निराकर्तुकाम आहप्रहासे चेत्यादि-अनेन सूत्रेण व्यवस्था भविष्यतीत्यर्थः, कुत्रानेन सूत्रेण व्यवस्थेत्याह-प्रहास एवेति-उक्तसूत्रेण प्रहास एव पुरुषान्तरप्रयोगे पुरुषान्तरीयप्रयोगो नान्यत्रेति व्यवस्थेत्यर्थः । अनेन च शब्दभेद एव केवलं न त्वर्थभेदो मतान्तर इति सूचितम् । यत्र तु न प्रहासस्तत्र 'एहि ! मन्ये-ओदनं भोक्ष्यसे' इति न प्रयोगः किन्तु 'एहि ! त्वं मन्यसे-ओदनमहं भोक्ष्ये' इत्येव प्रयोग इत्याहयथार्थकथने विति । 'भोक्ष्ये' इत्यनन्तरं 'न तु भोक्ष्यसे' इति दृश्यमिति। __ उपसर्गभेदेनार्थभेदप्रतिपादकं शब्दनयमुदाहरति-उपसर्गभेद इति । अर्थभेदाभिप्रायेण प्रयुज्यमानस्यापि शब्दस्य विकारतामितस्यार्थभेदमभ्युपगच्छतः शब्दनयस्योदाहरणमाह-क्वचिदर्थभेदस्यापि ग्रहणमिति-'उपसर्गभेदेन' इत्यनेनार्थभेदस्यापि ग्रहणमित्यर्थः । संशय्येति-किरातार्जुनीये तृतीयसर्गे युधिष्ठिरं प्रति व्यासस्य वचनमिदम्
"जहातु नैनं कथमर्थसिद्धिः, संशय्य कर्णादिषु तिष्ठते यः । असाधुयोगा हि जयान्तरायाः, प्रमाथिनीनां विपदा पदानि" ॥१४॥
एतत् पद्यमित्थं व्याख्यातम्-एनं धृतराष्टम् , अर्थसिद्धिः कथं न जहातु, जहात्वेवेत्यर्थः । 'प्रैषाति सर्गप्रातकालेषु कृत्याश्च" [पा०
Page #114
--------------------------------------------------------------------------
________________
: बालबोधिनीविवृतिविभूषितं यः" इति स्थयार्थे "प्रकाशन-स्थेयाख्ययोश्च" [पा. १. ३. २३. ] सूत्रेणात्मनेपदम् ।
एतदाभासं प्रकटयन्ति-"तद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः" इति ॥
-[प्रमा० परि० ७ सूत्रम्-३४ ] कालादिभेदविभिन्नस शब्दस्यार्थस्यापि भिन्नत्वमभिमन्य
३. ३. १६३.] इति प्राप्तकाले लोट् , तस्य हानिकालः प्राप्त इत्यर्थः । कुतः ? यो धृतराष्ट्रः, संशय्य सन्दिह्य, कर्णादिषु तिष्ठते कर्णादीन् दुर्मत्रिणः सन्दिग्धार्थे निर्णेतृत्वेनावलम्बत इत्यर्थः । “प्रकाशन-स्थेयाख्ययोश्च" [पा० १. ३. २३.] इति स्थेयाख्यायामात्मनेपदम् , तिष्ठतेऽस्मिन्निति स्थेयो विवाहपदनिर्णता । तथाहि-असाधुयोगा दुर्जनसंसर्गा जयान्तराया जयविघातकाः, किञ्च, प्रमाथिनीनामुन्मूलनशीलानां विपदां पदानि स्थानानि, “पदं व्यवसितत्राणस्थानलक्ष्माभिवस्तुषु" इत्यमरः, न केवलं जयघातिनः किन्त्वनर्थकारिणश्चेत्यर्थः । धृतराष्ट्रोऽपि दुर्जनविधेयत्वाद् विनयतीति भावः, एतद्व्याख्यायां स्थाधातोरर्थभेदः स्पष्टीकृत एवेति बोध्यम् । अर्थभेदे परस्मैपदिनोऽपि स्थाधातोरात्मनेपदं सूत्रविहितमित्युपदर्शयति-प्रकाशनेति ।
प्रसङ्गाच्छब्दनयाभासनिरूपणमधिकरोति-एतदाभासमितिशब्दनयाभासमित्यर्थः । तद्भेदेनेति-काल-कारक-लिङ्ग-सङ्ख्या-पुरुषोपसर्गभेदेन शब्दस्यार्थभेदमेव समर्थयमानः शब्दाभास इत्यर्थः । अमुमेवार्थ शब्दान्तरेण स्पष्टयति-कालादीति । भिन्नत्वं भिन्नत्वमेव, तथा सत्येवाभिन्नत्वप्रतिक्षेपादाभासतेति । उदाहरणं शब्दाभासोदाहर
Page #115
--------------------------------------------------------------------------
________________
सप्तभङ्गी नयप्रदीपप्रकरणम् । मानः शब्दाभास इत्यर्थः । उदाहरणम्-"बभूव भवति भविध्यति सुमेरुरित्यादयो भिन्नकालाः शब्दा भिन्नमेवार्थमभिदधति भिन्नकालशब्दत्वात् तादृसिद्धान्यशब्दवदित्यादिः" ॥
-[प्रमा० परि० ७ सूत्रम्-३५] अनेन वाक्येनैकार्थस्यैक्यादर्थभेदस्तु शब्दाभासः । इति पर्यायार्थिकस्स द्वितीयभेदः शब्दनयः॥ __ अथ तृतीयभेदं समभिरूढं समर्थयन्ति-"पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थ समभिरोहन् समभिरूढः" इति ॥
-[प्रमा० परि० ७ सूत्रम्-३६]
णम् । "भिन्नकालाः शब्दाः' इत्यन्तं पक्षवचनम्, 'भिन्नमेवार्थमभिदधति' इति विधेयवचनम् , 'भिन्नकालशब्दत्वाद्' इति लिङ्गवचनम् , 'तादृसिद्धान्यशब्दवद्' इति निदर्शनम् । 'इत्यादि इत्यादिपदात् 'करोति कुम्भ, क्रियते कुम्भः' इति भिन्नकारकशब्दा भिन्नमेवार्थमभिदधति भिन्नकारकशब्दत्वादुमयसम्प्रतिपन्नतथाविधशब्दवदित्याग्रहणम् । इति शब्दनयनिरूपणम् ॥
अथ समभिरूढनयनिरूपणम्
समभिरूढनयनिरूपणमधिकरोति-अथेति । तृतीयभेदं पर्यायार्थिकनयस्य तृतीयप्रकारम् । सममिरूढलक्षणवाक्यमुल्लिखति-पर्यायशब्देविति-इन्द्र-शक्र-पुरन्दरादिशब्देषु, इन्दनाद् इन्द्रः, शकनात् शक्रा, पूर्दारणात् पुरन्दर इति निरुक्तिभेदेन भिन्नमर्थमभ्युपगच्छन् समभिरूढनय इत्यर्थः । 'पर्यायशब्देषु०' इत्यादिसमभिरूढनयलक्षण
७ सप्तभनी
Page #116
--------------------------------------------------------------------------
________________
बालबोधिनीविवृतिविभूषितं एतस्यार्थ:-शब्दनयो हि शब्दपर्यायमिन्नत्वेऽपि द्रव्यस्यार्थस्याभेदत्वमभिलषति, समभिरूढनयेन (नयो) हि शब्दपर्यायभेदे भिन्नं द्रव्यार्थमभिमन्यते, पर्यायशब्दानामर्थत एकत्वमुपेक्षत इति । उदाहरणम्-"इन्दनादिन्द्रः, शकनाच्छक्रा, पूर्दारणात् पुरन्दर इत्यादिषु यथा" ॥
-[प्रमा० परि ७ सूत्रम्-३७] अनेन वाक्येन "इन्द्रे च शके च पुरन्दरे च" इत्यायेकार्थपर्यायशब्देऽपि व्युत्पत्तिभेदेनैतदर्थस्यापि भेदः समाद्रियते, शब्दभेदादर्थभेद इति फलितार्थः । एवमन्यत्र कलश-घटकुम्भादिषु द्रष्टव्यः।
वाक्यस्य पर्यवसितमर्थमुपदर्शयति एतस्यार्थ इति । शब्दनयो हीति-यतः साम्प्रतनामा शब्दनय इन्द्र-शक-पुरन्दरादिशब्दपर्यायभेदेऽपि तदर्थस्य स्वर्गाधिपरूपस्याभेदमिच्छति, समभिरूढनयस्तु इन्द्रादिशब्दपर्यायभेदे इन्द्रादिरूपार्थभेदं विभिन्नव्युत्पत्तिनिमित्तात्मकप्रवृत्तिनिमित्तसमालिङ्गितं विभिन्नं द्रव्यमभ्युपगच्छति, सदपि पर्यायशब्दानामर्थत एकत्वमुपेक्षते, तत्र गजनिमीलिकामाश्रयतीत्यर्थः । समभिरुढनयोदाहरणं दर्शयति-उदाहरणमिति । अनेन वाक्येनेति-इन्दनाद् इन्द्र इत्यादिवाक्येनेत्यर्थः । तथा च समभिरूढनयः शब्दभेदादर्थभेदमिच्छतीति तत्त्वमित्याह-शब्दभेदादिति । कलश-घटकुम्भादिशब्देष्वप्यर्थभेदमभ्युपगच्छत्ययं नय इत्यतिदिशति एवमन्यत्रेति।
Page #117
--------------------------------------------------------------------------
________________
प्रमा० पर
सप्तभङ्गी नयप्रदीपप्रकरणम् । समभिरूढाभासमाह-"पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभास" ॥
[प्रमा० परि० ७ सूत्रम्-३८] उदाहरणम्-"यथा-इन्द्रः, शक्रः, पुरन्दर इत्यादयः शब्दा भिन्नाभिधेया एव भिन्नशब्दत्वात् , करि-कुरङ्ग-तुरङ्गशब्दवदित्यादिः" इति ॥
-[प्रमा० परि० ७ सूत्रम्-३९ ] अत्र हीन्द्र शक्रे पुरन्दरे च नामैक्येऽपि भिन्नशब्दत्वाद् भिन्नवाच्या एते शब्दाः,यथा करि-कुरङ्ग-तुरङ्गादयो भिन्नवाच्यास्तथैतेऽपि, ततः समभिरूढाभासतयोक्तम् । इति पर्यायार्थिकस्य तृतीयभेदः समभिरूढनयः ।। __अथ चतुर्थभेदमेवम्भूतं समाख्यान्ति-"शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविशिष्टमथे वाच्यत्वेनाभ्युपगच्छन्नेवम्भूत" इति ॥
-[प्रमा० परि० ७ सूत्रम्-४०]
प्रसङ्गात् समभिरूढनयाभासनिरूपणमधिकरोति-समभिरूढेति। 'नानात्वमेव' इत्येवकारेणार्थैकत्वस्य व्यवच्छेदः । तदाभासः सममिरूढनयाभासः । समभिरूढनयाभासोदाहरणं दर्शयति-उदाहरणमिति-"शब्दाः' इत्यन्तमुद्देश्यवचनम् , 'भिन्नाभिधेया एव, इति विधेयवचनम् , 'भिन्नशब्दत्वाद्' इति लिङ्गवचनम् , 'करि-कुरङ्ग' इत्यादि निदर्शनम् । अत्र हि निरुक्तोदाहरणवाक्ये यतः । इति समभिरूढनयनिरूपणम् ॥
अथैवम्भूतनयनिरूपणम्
एवम्भूतनयनिरूपणमधिकरोति-अथेति । चतुर्थभेदं पर्यायार्थिकनयस्य तुरीयप्रकारम् । शब्दानामिति इन्द्रशब्दस्य स्वप्रवृत्तिनिमि
Page #118
--------------------------------------------------------------------------
________________
१००
बालबोधिनीविवृतिविभूषितं एतस्यार्थ:-समभिरूढनयेनेन्दनादिक्रियाविशिष्टमिन्द्रस्य पिण्ड भवतु वा मा वा भवतु, परमिन्द्रादिव्यपदेशः, लोके व्याकरणे च तथैव रूढत्वात् समभिरूढः, तथा च रूढशब्दानां व्युत्पत्तिः शोभामात्रमेव "व्युत्पत्तिरहिताः शब्दा रूढाः" इति वचनात् । एवम्भूतनयो हि यस्मिन् समय इन्दनादिक्रियाविशिष्टमर्थ पश्यति तस्मिन् समय एवेन्द्रशब्दवाच्योऽयमिति मनुते न तु
तभूतेन्दनक्रियाविशिष्टं स्वर्गाधिपतिरूपमर्थ वाच्यत्वेनाभ्युपगच्छन्नेवम्भूतनय इत्यर्थः, एवं पुरन्दरशब्दस्य स्वप्रवृत्तिनिमित्तभूतपूर्दारणक्रियाविशिष्टं स्वर्गाधिपरूपमर्थं वाच्यत्वेनाभ्युपगच्छन्नेवम्भूतनयः, एवं शक्रादिशब्देऽपीति । उक्तलक्षणवाक्याभिप्रेतार्थमाविष्करोति--एतस्यार्थ इति । समभिरूढनयवक्तव्यावेदनेन तदभिमतार्थादेवम्भूतामिमतार्थस्य भेदमाविष्कुर्वन्नाह-समभिरूढनयेनेति । तथैव इन्दनादिक्रियोपलक्षितव्यक्तावेव । तथा च इन्दनादिक्रियाविशिष्टतादशायां तादृशक्रियाऽविशिष्टतादशायां चेन्द्रात्मकपिण्डे इन्द्रव्यपदेशव्यवस्थितौ च । रूढशब्दानां गो-घटादिशब्दानाम् । व्युत्पत्तिः गच्छतीति गौः, घटते चेष्टत इति घट इत्येवं व्युत्पत्तिः । 'शोभामात्रमेव' इत्येवकारेण व्युत्पत्त्यर्थस्य तत्र तद्व्यपदेशकालेऽवश्यसत्त्वस्यावश्यकत्वव्यवच्छेदः । रूढशब्दस्य व्युत्पत्तेः शोभामात्रत्वे रूढशब्दस्य व्युत्पत्तिरहितत्ववचनं प्राचीनानामुपोद्वलकमित्याह-व्युत्पत्तिरहिता इति । समभिरूढनयवक्तव्यमुक्त्वा तद्वैशिष्टयप्रतिपत्तये एवम्भूतनयवक्तव्यमुपदर्शयति--एवम्भूतनय इति-अस्य 'पश्यति, मनुते' इत्युभयत्रान्क्यः। न तु तद्रहितकाल इति-इन्दनादिक्रिवारहितकाले इन्द्रश
Mana
Page #119
--------------------------------------------------------------------------
________________
'सप्तभङ्गी- नयप्रदीपप्रकरणम् ।
१०१
wwwwm
तद्रहितकाल इत्यर्थः । एतन्नयमते तु क्रियाशब्द एव । यद्यपि भाष्यादिषु जाति-गुण-क्रिया-सम्बन्धि-यदृच्छालक्षणा पश्चतयी शब्दप्रवृत्तिरुक्ता सा व्यवहारमात्र तोऽवगन्तव्या न निश्चयादित्ययं नयः स्वीकुरुतेः तथाहि - जातिशब्दाः क्रियाशब्दा एव [ यथा-] गच्छतीति गौः, आशुगामित्वादश्वः । गुणशब्दा यथाशुचीभवतीति शुक्लः, नीलभवनान्नीलः । यदृच्छाशब्दा यथा
ब्दवाच्योऽयमिति न मनुत इत्यर्थः । एवम्भूतनये सर्वशब्दानां व्युत्पत्तिनिमित्तभूत क्रियाप्रवृत्तिनिमित्तकत्वात् क्रियाशब्दत्वमेव न तु जातिगुण-द्रव्यशब्दत्वमित्याह - एतन्नयमते त्विति । व्यवहारनयावलम्बनेन भाष्यादिषु पञ्चतयी शब्दानां प्रवृत्तिरुक्ता, न तु निश्चयतः, एवभूतनयस्तु निश्चयनयः, तदनुसारेण च क्रियाशब्द एव केवल इति न भाष्यविरोधः, भाष्ये निश्चयनयाऽनालम्बनादित्याह -- यद्यपीति । सा पञ्चतयी शब्दप्रवृत्तिः । अयं नयः एवम्भूतनयः । एवम्भूतनये जात्यादिशब्दानां क्रियाशब्दत्वं भावयति तथाहीत्यादिना । गवाश्वादिशब्दा गोत्वाऽश्वत्वादिजातिप्रवृत्तिनिमित्तकतया जातिशब्दत्वेन प्रसिद्धा अपि क्रियाशब्दा एव, गच्छतीति गौः, आशुगामित्वादव इत्येवं क्रियाप्रवृत्तिनिमित्तकत्वस्य तत्रापि भावादित्याह - जातिशब्दाः क्रियाशब्दा एवेति । गुणप्रवृत्तिनिमित्ततया गुणशब्दतया प्रसिद्धानां शुक्ल-नीलादिशब्दानां क्रियाप्रवृत्तिनिमित्तकत्वेन क्रियाशब्दत्वमुपपादयति - गुणशब्दा इति । आधुनिकसङ्केतितानां देवदत्तादिशब्दानां यच्छाशब्दतया प्रसिद्धानामपि क्रियाशब्दत्वं दर्शयति-यहच्छाशब्दा इति । संयोगेन द्रव्यविशिष्टबोधको द्रव्यसंयोगविशिष्टबोधको
Page #120
--------------------------------------------------------------------------
________________
१०२
बालबोधिनीविवृतिविभूषितं देव एनं देयात्, यज्ञ एनं देयात् [इति देवदत्तः, यज्ञदत्तः] | संयोग-समवायिशब्दा यथा-दण्डोऽस्यास्तीति दण्डी, विषाणमस्थास्तीति विषाणीत्यस्तिक्रियाप्रधानत्वाद् , अस्त्यर्थे प्रत्ययाथ(च) । एते सर्वे क्रियाशब्दा एव 'अस्ति-भू' इत्यादिक्रियासामान्यख सर्वव्यापित्वात् । उदाहरणम्-"यथा-इन्दनमनुभव'निन्द्रः, सकनक्रियापरिणतः शक्रः, पूरणप्रवृत्तः पुरन्दर इत्युच्यते" इति ॥
-[प्रमा० परि० ७ सूत्रम्-४१] एतदाभासं लक्षयन्ति-"क्रियाऽनाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपस्तु तदाभासः" इति ॥
-[प्रमा० परि० ७ सूत्रम्-४२] स्वकीयक्रियारहितं तद्वस्त्वपि शब्दवाच्यतया प्रतिक्षिपति
वा 'दण्डी' इति, समवायितया द्रव्यविशिष्टबोधको द्रव्यसमवायित्वविशिष्टबोधको वा 'विषाणी' इति शब्दश्च क्रियाशब्द एवेत्याह---- संयोग-समवायिशब्दा इति । उक्तशब्दव्युत्पत्तावस्तिक्रियाप्रवेशात्, इन् प्रत्ययश्चास्त्यर्थ एवेति क्रियाशब्दत्वं दण्ड्यादिशब्दस्येत्याहदण्डोऽस्यास्तीति दण्डीति । सर्वशब्दप्रयोगे 'अस्ति-भू' इत्यादिक्रियासामान्यस्य भावात् सर्वशब्दानां क्रियाशब्दत्वमित्याह-एते सर्व इति । एवम्भूतनयस्योदाहरणमुपदर्शयति-उदाहरणमिति । __ प्रसङ्गादेवम्भूतनयाभासलक्षणमधिकरोति- एतदाभासमिति-एवम्भूतनयाभासमित्यर्थः । 'क्रियानाविष्टम्' इत्यादिलक्षणवाक्यार्थमुपदर्शयति-स्वकीयेति-इन्दनादिक्रियारहितं शक्रादिवस्त्वपि इन्द्रशब्द
Page #121
--------------------------------------------------------------------------
________________
सप्तभङ्गी नयप्रदीपप्रकरणम् ।
१०३ तच्छब्दवाच्यमिदं न भवत्येव, एतादृश एवम्भूताभासः । उदा. हरणम्-'यथा-विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यं घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात् पटवदित्यादिः" इति ॥
-[प्रमा० परि० ७ सूत्रम्-४३ ] अनेन हि वाक्येन स्वक्रियारहितस्य घटादेर्वस्तुनो घटादिशब्दवाच्यतानिषेधः क्रियते, सच प्रमाणबाधित इत्येवम्भूतनयाभासतयोक्तमिति । इति पर्यायार्थिकस्य तुर्यभेद एवम्भूतः ॥
एतेषु के पुनरर्थनयाः? के पुनः शब्दनयाः १ तद् दर्शयति
वाच्यतया प्रतिक्षिपति-इन्द्रशब्दवाच्यमिदं न भवतीति, तथा प्रतिक्षिपन्नैवम्भूतनय इत्यर्थः । एवम्भूतनयाभासस्योदाहरणमुपदर्शयतिउदाहरणमिति-'विशिष्टचेष्टाशून्यं घटाख्यं वस्तु' इति पक्षनिर्देशः, 'न घटशब्दवाच्यम्' इति साध्यनिर्देशः, 'घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वाद्' इति हेतुनिर्देशः, 'पटवद्' इत्युदाहरणनिर्देशः । अस्य चैवम्भूतनयाभासत्वं स्पष्टयति-अनेन हि वाक्येनेति-'विशिष्टचेष्टाशून्यं घटाख्यं वस्तु०' इत्यादिवाक्येन यतो विशिष्टचेष्टालक्षणघटक्रियारहितस्य घटादेवस्तुनो घटादिशब्दवाच्यतानिषेधः क्रियमाणः प्रमाणबाधित इतीत्थं प्रतिपादकस्यैवम्भूतनयस्यैवम्भूतनयाभासतयाऽभिधानमित्यर्थः । इत्येवम्भूतनयनिरूपणम् ॥ इति पर्यायार्थिकनयनिरूपणम् ॥
अर्थनय-शब्दनयनिरूपणम्प्रकारान्तरेण नयानां केषाञ्चित् साजात्यं स्वभावाभेदतः, केषाञ्चिद् वैजात्यं स्वभावभेदादित्येतद् भावयितुमर्थनयत्व-शब्दनयत्वे प्रतिनियत
Page #122
--------------------------------------------------------------------------
________________
१०४ ‘बालबोधिनीविवृतिविभूषितं "एषु चत्वार आद्या नया अर्थनिरूपणायां प्रवीणत्वादर्थनया"।
-[ प्रमा० परि० ७ सूत्रम्-४४ ] "अग्रेतनास्त्रयो नयाः शब्दवाच्यार्थगोचरतया शब्दनया:" इति ।
-[प्रमा० परि० ७ सूत्रम्-४५] के पुनर्भेदाः? तानाह"इकिको य सयविहो, सत्त नयसया हवन्ति एमेव । अन्नो वि अ आएसो, पंचेव सया नयाणं तु" ॥
-[ विशेषावश्यकभाष्यगाथा-२२६४ ]
आद्याश्चत्वानिरूपणाया। अर्थनया
नयाधारतया निरूपयति-एतेष्विति-निरुक्तेषु सप्तसु नयेष्वित्यर्थः । तद् दर्शयति अर्थनयत्वं शब्दनयत्वं च दर्शयति । एषु सप्तसु नयेषु । आद्याश्चत्वारो नयाः नैगम-सङ्ग्रह-व्यवहार-ऋजुसूत्राख्याश्चत्वारो नयाः । अर्थनिरूपणायाम् अर्थविषयकज्ञानानुकूलशब्दात्मकनिरूपणे। प्रवीणत्वात् समर्थत्वात् । अर्थनया ज्ञेयाः । अग्रेतनास्त्रयो नयाः शब्द-समभिरूद्वैवम्भूताख्या नयाः । 'शब्दवाच्यार्थगोचरतया' इत्यनेन शब्दप्राधान्यं ख्यापितं भवति, कालभेद-लिङ्गभेदादिकं शब्दगतमेव, तहलाद् विभिन्नार्थगोचरत्वेन शब्दवाच्यार्थगोचरता शब्दाख्यसाम्प्रतनयस्य, समभिरूद्वैवम्भूतयोरपि व्युत्पत्तिः शब्दस्यैवेति तन्निमित्तक्रियाभेदोऽपि शब्दाधीन एवेति तत एव च विभिन्नार्थगोचरत्वेन शब्दवाच्यगोचरतेति, अर्थभेदे शब्दभेद एव निबन्धनमिति यथा यथा शब्दा अन्यथाभावमुपयान्ति तथा तथाऽर्था अप्यन्यथाभावं प्रतिपद्यन्त इति शब्दप्राधान्याच्छब्दनयत्वमेषामित्यर्थः ।
नयभेदसङ्ख्यानिरूपणम्--- नयानां सप्तत्वादिसङ्ख्याप्रकारानुपदर्शयितुमाह के पुनर्भेदाः?
Page #123
--------------------------------------------------------------------------
________________
सप्तभङ्गीनयप्रदीपप्रकरणम् ।
१०५ ससानां नैगमादिनयानामेकैकश्च प्रभेदतः शतभेदः, एवं सर्वैरपि अभेदैः सप्त शतानि भवन्ति । प्रकारान्तरे पश्चापि नया:, कदा ? यदा शब्दादिभिस्त्रिभिनयैरेक एव शब्दनयो विवक्ष्यते तदा पञ्च, एकैकस्य च शतविधत्वात् पञ्च शतानि नयानाम् । अपिशब्दः पुनरर्थे । षट् चत्वारि च शतानि, द्वे वा शते नयानाम् , कदा? यदा सामान्यग्राहिनैगमस्य सङ्ग्रहेऽन्तर्भावः, विशेषग्राहिनैगमस्य तु व्यवहारेऽन्तर्भावो विवक्ष्यते तदा मूलनयानां षड्विधत्वादेकैकस्य च शतभेदत्वात् षट् शतानि । तानाहेति । इक्किको० इति-"एकैकश्च शतविधः सप्त नयशतानि भवन्त्येवमेव । अन्योऽपि च आदेशः पञ्चैव शतानि नयानां तु" ॥ इति संस्कृतम् । नयानां सप्तशतविधत्वमुपपादयति--सप्तानामिति । शतभेद इति-कथमेवमित्याकाङ्कोपशमनाय मूलकृता नोक्तमेव किमपीति ग्रन्थान्तरतः प्रत्येकं शतभेदत्वावगमे यत्न आस्थेयो विशेष जिज्ञासुभिः । आदेशान्तरे मूलनयानां पञ्चविधत्वम् , प्रत्येकं च शतभेदत्वमिति सर्वैरपि प्रभेदैः पञ्च शतानि नयानामित्याह-प्रकारान्तर इति । नैगम-सङ्ग्रह-व्यवहार-ऋजुसूत्र-शब्दाः पञ्च नयाः, शब्दत्वेन च साम्प्रत-समभिरूद्वैवम्भूतास्त्रयोऽपि नयाः सङ्गृह्यन्ते, इत्थं विवक्षायां मूलनयानां पञ्चविधत्वम्, प्रत्येक शतविधत्वे पञ्च शतानीत्याह-- यदेति । शब्दादिभिः शब्द-समभिरूढैवम्भूतैः । अपिशब्दः 'अन्योऽपि च' इत्यत्रापिशब्दः । षट्शतत्वं नयानामुपपादयति-यदेतिनैगमस्य सङ्ग्रह-व्यवहारयोरन्तर्भावादतिरिक्तस्याभावे मूलनयाः षद, प्रत्येकं च शतविधत्वे षट् शतानीति । नैगमस्य सङ्ग्रह-व्यवहारयोरन्तर्भावतोऽर्थनयाः सङ्ग्रह-ज्यवहारर्जुसूत्रास्त्रयः, शब्दनयत्वेन शब्दसम
Page #124
--------------------------------------------------------------------------
________________
बालबोधिनीविवृतिविभूषितं कदा चत्वारीति? यदा सङ्ग्रहव्यवहारर्जुसूत्रलक्षणास्त्रयोऽर्थनया:, एकस्तु शब्दनयः पर्यायास्तिकस्तदा चत्वारो नया:, प्रत्येकं च शतभेदत्वाच्चत्वारि शतानि । कदा द्वे इति ? एको द्रव्यार्थिका, पर्यायार्थिकश्चेति द्वौ, प्रत्येकं च शतभेदत्वाद् द्वे शते, कुत्रापि
"णिच्छय-ववहारणया, मूलिमभेदा नयाण सव्वाणं । निच्छयसाहणहेऊ, दव्वय-पजट्ठिया मुणह" ॥१॥ इति । उत्कृष्टतोऽसङ्ख्याता अपि भवन्ति"जावंतो वयणपहा, तातो वा नया विसदाओ । ते चेव य परसमया, सम्मत्तं समुदिया सव्वे" ॥
-[विशेषावश्यकभाष्यगाथा-२२६५] व्याख्या-यावन्तो वचनप्रकारास्तेऽपीहापिशब्दात् सङ्ग
भिरूद्वैवम्भूतानां सङ्ग्रहणमिति शब्दनय एक इति मूलनयाश्चत्वारः, प्रत्येकं शतभेदत्वेन चत्वारि शतानि नयानामित्याह-यदेति । मूलनयौ द्रव्यार्थिक-पर्यायार्थिको द्वौ, प्रत्येकं शतविधत्वाद् द्वे शते नयानामित्याह-एको द्रव्यार्थिक इति । निश्चय-व्यवहारभेदत्वेन नयस्य द्वैविध्यम् , प्रत्येकं शतविधत्वे द्वे शते नयानामित्यप्यादेशान्तरमित्याह-कुत्रापीति । णिच्छय० इति-"निश्चय-व्यवहारनयौ मूलभेदौ नयानां सर्वेषाम् । निश्चयसाधनहेतु द्रव्य-पर्यायार्थिको जानीहि" || इति संस्कृतम् । उत्कर्षतोऽसङ्ख्यातभेदत्वमपि नयानामित्याह-उत्कृष्टत इति । जावन्त० इति-"यावन्तो वचनमार्गास्तावन्तो नया अपिशब्दतः। ते एव परसमयाः सम्यक्त्वं समुदिताः सर्वे" || इति संस्कृतम् । उक्तगाथां विवृणोति-यावन्त इति-यावन्तो वचनप्रका
Page #125
--------------------------------------------------------------------------
________________
सप्तभङ्गी - नयप्रदीपप्रकरणम् ।
१०७.
हीताः । सावधारणास्ते सर्वे नयाः परसमयास्तीर्थिक सिद्धान्ताः, ये च निरवधारणाः स्याच्छब्दलाञ्छितास्ते नयाः समुदिताः सम्यक्त्वं प्रतिपद्यन्ते । न च प्रत्येकावस्थायां मिथ्यात्वहेतुत्वात् समुदिताः सर्वे महामिध्यात्वहेतवः कथं न भवन्तीति वाच्यम्, प्रचुरविषलवसमुदाये विषप्राचुर्यवत्, तत्र प्रत्युत्तरयन्नाह" सव्वे समयंति सम्मं, वेगवसाओ नया विरुद्धा वि । free- ववहारिणो इव, राओदासीणवसवत्ती" ॥ —[ विशेषावश्यकभाष्यगाथा-२२६७ ]
रास्ते वचनप्रकारा अपि अपिशब्दात् सङ्गृहीता नया भवन्ति, तेषां वचनप्रकाराणां सावधारणानामन्यव्यवच्छेदकत्वेनैकान्तभावादेकान्तवा - दितैर्थिकसिद्धान्तरूपत्वम्, त एव निरवधारणाः सन्तो नान्यव्यवच्छेदकाः, अथ च स्याच्छब्दलाञ्छिताः कथञ्चिदर्थप्रतिपादकाः, तत एव च समुदितास्ते सम्यक्त्वं प्रतिपद्यन्त इत्यर्थः । ननु प्रत्येकं मिथ्यात्वहेतूनां नयानां समुदितानां महामिथ्यात्वहेतुत्वमेव स्यान्न सम्यक्त्वमि - त्याशक्य प्रतिक्षिपति — न चेति - अस्य 'वाच्यम्' इत्यनेनान्वयः, 'प्रचुर०' इत्याद्यपि प्रश्नार्थसन्निविष्टमेव एकैकविषलवस्य यत्किञ्चिद्विषकार्यकारित्वे प्रचुरविषलवसमुदाये विषप्राचुर्यभावाद् यथा विशिष्टविषकार्यकारित्वं तथा प्रत्येकावस्थायां नयानां मिध्यात्वहेतुत्वे समुदितानां तेषां कथं न महामिथ्यात्वहेतुत्वम् ? अपि तु महामिथ्यात्वहेतुत्वं तेषां स्यादित्यर्थः । तत्र उक्तप्रने । प्रत्युत्तरयन् समाधानमभिदधत् । आह वक्ति । सव्वे० इति - "सर्वे समयन्ति सम्यक्त्वं चैकवशतो विरुद्धा अपि । भृत्य - व्यवहारिण इव राजोदासीनवशवर्तिनः "
wwwwwww
,
Page #126
--------------------------------------------------------------------------
________________
बालबोधिनीविवृतिविभूषितं .. व्याख्या-परस्परविरुद्धा अपि सर्वे नयाः समुदिताः सम्यक्त्वं भवन्ति, एकस्य जिनसाधोवंशवर्तित्वात् , यथा-राजवशवर्तिनानाभिप्रायभृत्यवर्गवत् , यथा वा धन-धान्य-भूम्याद्यर्थ परस्परं विवदमाना बहवोऽपि सम्यग्यायवता केनाप्युदासीनेन युक्तिभिर्विवादकारणान्यपनीय मील्यन्ते, तथेह परस्परविरोधिनोऽपि नयान् जैनसाधुर्विरोध भत्वा एकत्र मीलयति । तथा प्रचुरविषलवा अपि हि प्रौढमत्रवादिना निर्विषीकृत्य कुष्ठादि
इति संस्कृतम् । 'सव्वे समयंति०' इति गाथां विवृणोति–एकस्येतिजिनसाधुर्हि स्याद्वादरहस्यामिज्ञो नयानां स्वस्वविषयेषु योजनां कर्तु विदग्धः “सङ्ग्रहनय एतन्निमित्तापेक्षया वस्तुनि सत्त्वमभ्युपैति, व्यवहारनयश्चैतन्निमित्तापेक्षयाऽसत्त्वमभ्युपगच्छति' इत्येवं विरोधपरिहारेण सर्वनयानामेकत्र वस्तुन्यवस्थानं कर्तुमर्हतीति तदभिप्रायानुगमनलक्षणतद्वशवर्तित्वे समुदितानां नयानां सम्यक्त्वमेव, न तु महामिथ्यात्वहेतुत्वम् । उक्कार्थदााय निदर्शनमाह-यथेति-नानाभिप्राय इत्यनेन परस्परविरुद्धाभिप्रायकत्वेन परस्परविरोधिनामपि भृत्याना स्वस्वयोग्यराजकार्ये राज्ञा सन्निवेशितानां समीचीनराजकार्यकर्तृत्वमेव, न तु राजकार्यविध्वंसनहेतुत्वम् , तथेत्यर्थः । निदर्शनान्तरमाहयथा वेति-अत्र दृष्टान्त-दान्तिकभावना ग्रन्थकृतैव सम्यक् कृता । यञ्च 'प्रचुरविषलवसमुदाये विषप्राचुर्यवद्' इत्युक्तं तत्रापि प्रचुरविषयलवेष्वपि प्रौढमन्त्रवादिना मन्त्रविशेषेण निर्विषत्वं सम्पाद्य कुष्ठादिरोगिणे दीयमानेष्वमृतत्वं भवतीति तथा जिनसाधुनैकत्र विषयेऽपेक्षाभेदेन सङ्घटितेषु तेषु सम्यक्त्वं भवतीत्याह-तथा प्रचुरविषयलवा
Page #127
--------------------------------------------------------------------------
________________
सप्तभङ्गी नयप्रदीपप्रकरणम् ।
१०९ रोगिणे दत्ता अमृतरूपत्वं प्रतिपद्यन्त एवेति सर्व विशेषावश्यकटीकायां स्फुटमेव । अत्रेदम्-एषु "पूर्वः पूर्वो नयः प्रचुरगोचरः, परः परस्तु परिमितविषयः ४६ । [सन्मात्रगोचरात् संग्रहानैगमो भावाभावभूमिकत्वाद् भूमविषयः ४७ । सद्विशेषप्रकाश
www
अपीति । एतद्विशेषावगमाय विशेषजिज्ञासुभिर्विशेषावश्यकटीकाऽवलोकनीया ग्रन्थगौरवभयान्नेह प्रतन्यत इत्यभिप्रायेणाह--सर्व विशेषावश्यकटीकायां स्फुटमेवेति ।।
नयानां प्रचुरविषयत्वाऽल्पविषयत्वादिकमुपदर्शयति-अत्रेति । 'इदम्' इत्यस्य 'इति बोध्यम्' इत्यनेनान्वयः । एषु नैगम-सङ्घहव्यवहार-ऋजुसूत्र-शब्द-समभिरूलैवम्भूतेषु । पूर्वपूर्वस्योत्तरोत्तरापेक्षया प्रचुरविषयत्वमुत्तरोत्तरस्य पूर्वपूर्वापेक्षयाऽल्पविषयत्वं क्रमेण भावयतिसन्मात्रेति-सन्मात्रविषयकात् सङ्ग्रहनयात्, नैगमनयः, भावाभावभूमिकत्वात् भावः सामान्यम् , अभावो विशेषोऽन्यव्यावृत्तिरूपत्वात् , तद्भूमिकत्वात्-तद्विषयकत्वात् , भूमविषयो बहुविषयः, सङ्घहस्य सन्मानं-सामान्यमेव विषयः; नैगमस्य सत्तालक्षणमहासामान्यमपि विषयः, अवान्तरलक्षणसामान्यविशेषोऽपि विषय इत्युत्तरात् सङ्ग्रहात् पूर्वस्य नैगमस्य प्रचुरविषयत्वम् , पूर्वमान्नैगमाद् उत्तरस्य सङ्ग्रहस्य परिमितविषयत्वमित्यर्थः । व्यवहारात् पूर्वस्य सङ्ग्रहस्य सकलविशेषव्यापिसत्तालक्षणमहासामान्यविषयत्वाद् बहुविषयत्वम् , सङ्ग्रहाच्च पूर्वस्मात् सद्विशेषमात्रावभासकत्वाद् व्यवहारस्योत्तरस्य परिमितविषयत्वं दर्शयति-सद्विशेषप्रकाशकादिति । ऋजुसूत्रादुत्तरस्माद् व्यवहारस्य बहुविषयत्वम् , व्यवहाराच पूर्वसादुत्तरस्य ऋजुसूत्रस्य परिमितविषयत्वं
Page #128
--------------------------------------------------------------------------
________________
११०
बालबोधिनीविवृतिविभूषितं
काद् व्यवहारतः सङ्ग्रहः समस्ततत्समूहोपदर्शकत्वाद् बहुविषयः ४८ । वर्तमानविषया दृजुसूत्राद् व्यवहारस्त्रिकालविषयावलम्बित्त्वादनल्पार्थः ४९ । कालादिभेदेन भिन्नार्थोपदर्शिनः शब्दादृजुसूत्रस्तद्विपरीतवेदकत्वान्महार्थः ५० । प्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढाच्छन्दस्तद्विपर्ययानुयायित्वात् प्रभूतविषयः ५१ । प्रतिक्रियं विभिन्नमर्थ प्रतिजानानादेवम्भूतात् समभिरूढस्तदन्यथाऽर्थस्थापकत्वान्महागोचरः ५२ । नयवाक्यमपि
दर्शयति — वर्तमानविषयादिति - वर्तमानमात्रविषयादित्यर्थः । अनल्पार्थः प्रभूतार्थः । उत्तरस्मात् साम्प्रताख्यशब्दनयात् पूर्वस्य ऋजुसूत्रस्य महार्थत्वम्, ततोऽल्पार्थत्वं शब्दस्य दर्शयति — कालादीति । आदिपदाद् लिङ्ग सङ्घबादेर्भहणम् । तद्विपरीतावेदकत्वात् कालादिभेदेऽप्यभिन्नार्थावेदकत्वात् । समभिरूढात् साम्प्रतस्य प्रभूतविषयत्वमावेदयति-— प्रतिपर्यायशब्दमिति । तद्विपर्यानुयायित्वात् पर्यायशब्दभेदेऽप्यर्थाभेदाभ्युपगन्तृत्वात् । एवम्भूतनयात् समभिरूढनयस्य प्रभूतविषयत्वं स्पष्टयति-- प्रतिक्रियमिति - व्युत्पत्तिनिमित्तक्रियासद्भावकाल एव ततच्छब्दवाच्यत्वमित्यभ्युपगच्छत एवम्भूतनयात् व्युत्पत्तिनिमित्तक्रिया तदा वर्त्ततां मा वा उभयथापि तदुपलक्षितार्थस्य शब्दवाच्यत्वमित्येवमर्थस्थापकत्वात् समभिरूढस्य महागोचरत्वमित्यर्थः । यथा प्रमाणवाक्यं खविषये प्रवर्तमानं विधि-निषेधाभ्यां सप्तभङ्गीमनुसरति तथा नयवाक्यं स्वविषये प्रवर्तमानं विधि-निषेधाभ्यां सप्तभङ्गीमनुसरतीत्याह - नयवाक्यमपीति तथा च प्रमाणसप्तभङ्गी - नयसप्तभङ्गभेदात् सप्तभन्या द्वैविध्यमित्यर्थः । प्रमाणवन्नयस्यापि सफलत्वमिति
Page #129
--------------------------------------------------------------------------
________________
सप्तभङ्गीनयप्रदीपप्रकरणम् ।
१११ खविषये प्रवर्तमानं विधि-प्रतिषेधाभ्यां सप्तभङ्गीमनुव्रजति ५३ ॥ प्रमाणवदस्य फलं व्यवस्थापनीयम् ५४"
-[प्रमा० परि० ७ सूत्रम्-४६-५४ ] यथा प्रमाणस्य खल्वानन्तर्येण सम्पूर्णवस्त्वज्ञाननिवृत्तिः फलं तथा नयस्यापि वस्त्वेकदेशाज्ञाननिवृत्तिः फलम् । पारम्पयेण च यथा प्रमाणस्योपादानहानोपेक्षाबुद्धयः सम्पूर्णवस्तुविषयाः फलत्वेनाऽभिहितास्तथा नयस्यापि वस्त्वंशविषयास्ताः फलत्वेनाऽवधारणीयाः ॥] इति बोध्यम् ।
इति श्रीनयप्रदीपविभागः ॥
प्रमाणनिरूपणवन्नयनिरूपणमपि सप्रयोजनत्वात् कर्तव्यमित्याशयेनाहप्रमाणवदिति । अस्य नयस्य । तव्यवस्थामेवोपदर्शयति-यथेतिअनन्तरित-परम्परितभेदात् प्रमाणस्य फलं यथा द्विविधं तथा नयफलमप्युक्तप्रकारेण द्विविधम्, तत्र प्रमाणं सम्पूर्णार्थविषयकज्ञानरूपमिति तदनन्तरितफलं सम्पूर्णवस्त्वज्ञाननिवृत्तिः, नयस्तु वस्त्वेकदेशमाहिज्ञानरूप इति तदनन्तरितफलं वस्त्वेकदेशाज्ञाननिवृत्तिः, सम्पूर्णवस्तुविषयकस्य प्रमाणस्य पारम्पर्येण फलं सम्पूर्णवस्तुविषया उपादान-हानोपेक्षाबुद्धयः, एवं नयस्यापि वस्त्वंशविषयकस्य पारम्पर्येण फलं वस्त्वंशगोचरा उपादान-हानोपेक्षाबुद्धय इति प्रमाणसमशीलत्वात् प्रमाणनिरूपणमिव नयनिरूपणमपि प्रेक्षावद्भिरादरणीयमित्ययं नयनिरूपणयलोऽस्माकं सफलत्वान्न काकदन्तपरीक्षावदुपेक्षणीय इत्याशयः । सप्तभङ्गीनयप्रदीपप्रकरणरूपस्यास्य ग्रन्थस्य प्रथमसर्गः सप्तमङ्गीसमर्थनात्मा पूर्व वृत्तः, इदानी नयप्रदीपविभागात्मा द्वितीयसर्गोऽपि वृत्त इत्याह-- इति श्रीनयप्रदीपविभाग इति ।
Page #130
--------------------------------------------------------------------------
________________
बालबोधिनीविवृतिविभूषितं
नयविचारमयो लिखितो मुदा, यदधुना शिशुनाऽर्थशुभेन वै । अयमुपास्यधियां सुधियां प्रगे, भवतु सौख्यकृते सततं सताम् ॥
इति सप्तभङ्गी - नयप्रदीपप्रकरणं सम्पूर्णम् ॥
११२
www
नयविचारमय इति - अर्थ्यत इत्यर्थ इष्टः, इष्टः शुभो यस्य सोऽर्थशुभः, तादृशेन, अल्पज्ञत्वात् शिशुना - बालेन श्रीयशोविजयेन, 'अर्थशुमेन वै' इति स्थाने 'शिशुना यशसा मया' इति पाठे तु कण्ठत एव नाम प्रतीयते; अधुना इदानीम्, यद् - यस्माद्, मुदा - आनन्देन, नयविचारमयः - नयविचाराभिन्नस्वरूपोऽयं ग्रन्थः, लिखित :- एतद्वन्थसङ्कलितनयविचारस्तु ग्रन्थान्तरे विस्तरेण समस्त्येव मया तु केवलं ततः समाकलय्य सङ्क्षेपेण लिखितः, सोऽयं ग्रन्थः प्रगे - प्रातःकाले, उपास्यधियां सुधियां सतां सततं सौख्यकृते - आनन्दाय भवतु, एतग्रन्थात् फलान्तरं किमप्यहं न कामये किन्तु सततं प्रातःकाले एतद्विषयपरिशीलनतः सज्जनानां प्रमोदो भवत्वित्येव प्रार्थय इत्यभिसन्धिः ॥ इति श्रीतपोगच्छाधिपति शासनसम्राट् जगद्गुरु श्रीविजयने मिसूरीश्वरपट्टालङ्कार-व्याकरणवाचस्पति शास्त्रविशारद -कविरत्न - विजयलावण्यसूरिविरचिता श्रीसप्तभङ्गी - नयप्रदीपप्रकरणटीका सम्पूर्णा ।
छद्मस्थेषु सदा स्खलद्गतितया दोषप्रबन्धान्वये नो हास्यास्पदमत्र दोषघटनायां स्यामहं घीमताम् । नो प्रार्थ्याः कृतिनो निसर्गगरिमावासा मया शोधने येषां दोषगणप्रमार्जन विधिः स्वाभाविकोऽयं यतः ॥ १ ॥
Page #131
--------------------------------------------------------------------------
________________
सप्तभङ्गी - नयप्रदीपप्रकरणम् ।
प्रशस्तिः ।
[ उपजातिवृत्तम् ]
श्रीनाभिजातं शुभशान्तिनाथं सुभव्यराजीनयनामृतं च । प्रकाशिपं श्रीशुभवर्द्धमानं नमामि नित्यं जिनराजराजम् ॥ १ ॥
MM
wwwwwww
[ शार्दूलविक्रीडितवृत्तानि ]
लोकालोकविलोकिनो जिनपतेर्दूरीकृतांहस्ततेः सोल्लासैरमराधिपैः कृतनतेः सूर्यातिगाङ्गयुतेः । गीरीशस्य च नश्च शासनपतेः सिद्धार्थ सत्सन्ततेः पट्टे धर्मधुरन्धरं विजयते वीरप्रभोः सन्मतेः ॥ २ ॥ तत्र श्रीश्रुतकेवली गणिमणिश्चारित्रचूडामणि
र्निर्ग्रन्थाभिधमच्छगच्छमतनोत् स्वामी सुधर्माभिधः ।
कोटीशः किल सूरिमन्त्रकलनात् कोटीति नाम्नोज्ज्वलं
www
गच्छं चाच्छमतिश्च सुस्थित इति श्रीसूरिपोऽनु व्यधात् ॥३॥
wwww
चन्द्रं चन्द्रकलाकलापधवलं भूयोयशोमालिनं
www
गच्छं चानुचकार चारुचरणः श्रीचन्द्रसूरीश्वरः । तत्रैवानु च सूरिराट् शमनिधिः सामन्तभद्राभिधो
wwwww
www
व्यातेने वनवासिगच्छममलं लीनं गणानां गणे ॥ ४ ॥ संतापापहरं समाश्रितनृणां शाखावलीलालितं दीक्षादानशुभास्पदं सुचरणाबद्धं विशालोन्नतम् | श्रेयांसं वटगच्छमच्छमतुलं सत्पुण्यपण्यापण
११३
माचार्याधिप आततान तदनु श्रीसर्वदेवाभिधः ॥ ५ ॥ ८ सप्तभङ्गी •
www
Page #132
--------------------------------------------------------------------------
________________
बालबोधिनीविवृतिविभूषितं
भूपालेन च मेदपाटपतिना दृष्ट्वा तपो दुष्करं
सान्वर्थं च महातपा इति पदं यस्मै ददे सम्मदाद् ।
wwwwww
wwwwww
पुण्यात्मा विदधे ततः स च जगचन्द्राभिधः सूरिराट् षष्ठं प्रष्ठगुणालयं किल तपागच्छं सदच्छाशयम् ॥ ६ ॥ गच्छेऽस्मिंश्च परम्परागतमहोवैशद्यलीलालये
श्रद्धाचारचितां कुलालयमये राद्धान्तमार्गाध्वगे । श्रीहीरेण जिनेन्द्रशासनाशिरोहीरेण धीरेण च
wwwwwww
भूपालाsकबरप्रबोधनकृता पुण्यात्मना सूरिणा ॥ ७ ॥ मोहेलापतिपाटने पटुतमे सद्धर्मसेनाकरे
श्रीसेनेन च सैनिकेन गुणिना श्रेयोऽर्थिना सूरिणा ।
११४
www
श्रीदेवेन च सूरिणा विबुधतास्फार्ति परां बिभ्रता
श्रीसिंहेन च पापनागहरिणा श्रीसूरिणोल्लासिते ॥ ८ ॥
AA
पृथ्वीं पादप्रचारतो विदधतो ध्वस्तान्धकारां वरां निर्मातुः शमसागरोदयरमां सद्वृत्तताशालिनः । सत्सौम्याकृतिमालिनः कुवलयाऽऽनन्दं ददानस्य च साधोस्तारकपस्य वृद्धिविजयामिख्यस्य वै सद्गुरोः ॥ ९ ॥ पादाम्भोजरजोमरन्दमधुपो विद्याविलासालयो
ww
.
भूपालावलिमौलिलालितपदाम्भोजो जनानन्ददः ।
उच्चाचारप्रचारप्रोद्यतमना नानामुनीनां गुरु
रुद्रोढाऽऽगमयोगमुच्च विधिना प्रस्थानपञ्चत्परः ॥ १० ॥ स्वं चाखं समयं सदा सहृदयं विद्वांश्च दिव्याकृतिर्नित्यं धर्मकथाविधौ विलसता माधुर्यमाश्रिता ।
Page #133
--------------------------------------------------------------------------
________________
सप्तभङ्गी नयप्रदीपप्रकरणम् । ११५ गम्भीरध्वनिना धनाधनरवं हास्यास्पदं कुर्वता ___ तारेणाखिलभब्यकेकिनिकराऽऽनन्दं ददानः सना ॥ ११ ॥ तीर्थानामवने समुद्धृतिकृतौ लीनान्तरालः सदा
शीलं शैशवतोऽमलं च कलयन्नाचार्यचूलामणिः । सम्राट् श्रीजिनशासनस्य वसतिः प्रौढप्रतापश्रियो राराजीतितरां जगद्गुरुरयं श्रीनेमिसूरीश्वरः ।। १२ ॥
[वसन्ततिलकावृत्ते] ईडे सुदर्शनधरं पुरुषोत्तमं तं मैत्रीयुतं समुदयश्रियमादधानम् । सनन्दनं सुमनसामनुरागचङ्गं विज्ञानतामरसतामरसाकरं च ॥ १३ ॥ भव्यालिपङ्कविकलं जडतातिगं च नित्यं पुनानमखिलं किल साधुपनम् । सन्दर्शिताऽमृतपथं वरदेशनातो लावण्यमन्दिरमुदारमनोऽभिरामम्॥१४॥
[ उपजातिवृत्ते ] नम्यं नरेन्द्रैः सुजयन्तमार्यदक्षं सुशीलोच्चविशुद्धचित्तम् । कल्याणभृत्केवलनामधेयजिनप्रभोल्लासितभावविज्ञम् ॥ १५॥ सच्चन्दनं सज्जनतापहारं प्रौढप्रभावं विबुधार्चितं च । सन्मङ्गलं सचरणादिकान्तं मतीशमान्यं निपुणं सुमुक्तिं ॥ १६ ॥
चतुर्भिः कलापकम् । [शार्दूलविक्रीडितवृत्तानि ] वीरे जीवति नन्दिवर्धनमहीनाथेन निर्मापितं
बिम्ब वीरविभोः सुधांशुविमलं यस्यां सदा राजते ।
rom
www
M
Page #134
--------------------------------------------------------------------------
________________
Mamma
११६
बालबोधिनीविवृतिविभूषितं श्रीवज्रागमनं च यत्र जगड्डर्जातो जयी जावडो ... धन्या सा गुरुजन्मभूर्मधुपुरी नव्या न काव्यैः ककैः ? ॥१७॥ तत्र श्रीगुरुजन्मभूतलभुवि श्राद्धैः कृतं भावुकै___ श्चैत्यं नेमिविहारनाम विततं विद्योतते प्रोन्नतम् । तत्पार्धस्थितनेमिबोधसदने वर्षास्थितिं कुर्वता ___ वर्षे विक्रमगे जगत्-ख-नखगे पक्षे सिते कार्तिके ॥ १८ ॥ कैवल्यं गणिगौतमे निजगुरौ जन्मादधाने दिने
दीपालीललिते प्रमोदकलिते लक्ष्मीयुते गेहिनि । वर्षारम्भतया गीते मुदमिते लोकेऽखिलेऽलंकृते लावण्याभिधसूरिणा विरचिता बालाय वृत्तिर्मुदा ॥ १९॥ .
[ स्नग्धरावृत्ते ] 'अन्थेऽस्मिन् सप्तभङ्गी जिनमतगदिता भाविता युक्तिजालैः
संक्षिप्तार्थस्वरूपा अपि विशदतया दर्शिता नीतयोऽपि । व्याख्यानादस्मदीयादविहतमनना धीमतामग्रगण्याः .. श्रीमन्तो नेमिसूरीश्वरगुरुचरणा अर्पितात् सन्तु भूत्यै ॥२०॥ श्रीमल्लावण्यसूरेमननपरिणता श्रीयशोग्रन्थटीका
मूलार्थोबोधदक्षा परवचनघटाऽमिश्रिताऽविस्तृता च । बालानां सप्तभङ्गी-नयमननविधौ बोधदाऽस्तु प्रकामं
भूयादाकल्पमेषा जिनमतप्रथिमाधानहेत्वर्थगत्यै ॥ २१ ॥ चन्द्रार्कमहिमा यावद् भाति कान्तिकृतो भुवि । तावद् विवेकशालिनां ग्रन्थोऽयं हृदि नन्दतु ॥ २२ ॥
Page #135
--------------------------------------------------------------------------
________________
सप्तभङ्गी-नयप्रदीपप्रकरणम् । विवृतिसहितसप्तभङ्गी-नयप्रदीपप्रकरणशुद्धाशुद्धिपत्रम् । अशुद्धम् शुद्धम्
पत्रम् पतिः भाही.
भङ्गीं व्यस्तयो
व्यस्तयोः नानाकल्पन
नानात्वकल्पन नीयख्यापनाकजल्पना नीयताख्यापनाकल्पना नया
°जनया 'चतु,
चतुभूती
भुती द्वय
द्वयइति प्रधान
प्रधान खद्रव्यादि
परद्रव्यादि चास्ति विशिष्ट
चास्तित्वविशिष्ट सप्तभङ्ग
सप्तमभङ्ग वक्तवचना
वक्तृवचना 'वक्तरूप
°वक्तुरूप योत्येक
योरिये कौका वि०
कैका अवि० णम् , प्र.
०णं प्र' द्रव्यत्वभे
"द्रव्यत्वामे
गजनि वखनु
वस्वनु तथा
तथापि पण
पणमस० .
१
१०
'गजनि,
१८
Page #136
--------------------------------------------------------------------------
________________
११८
अशुद्धम्
संश्लेषरहितरहितस्य
कृतकर्म
प्रभेदयन्ति
तथागतमिति
"संख्याभेदना
● व्यवस्था
'विवाहपद
निमित्ततया
प्रचुरविषय
"विषयलवा
बालबोधिनीविवृतिविभूषितं
शुद्धम्
संश्लेषरहितस्य
कृतकम O
प्ररूपयन्ति
तथागतमतमिति
संख्याभेदेना
'व्यवस्था
● विवादपद
निमित्तकतया
प्रचुर विष
" विषलवा
पत्रम् पङ्गिः
८५
८६
९०
९२
९३
९६
१०१
१०८
१०८
.
२२
.
११
१३
१९
१०
૧૮
१९
२२
Page #137
--------------------------------------------------------------------------
________________
श्रीविजयनेमिसूरिग्रन्थमालाया लभ्या ग्रन्थाः
धातुरत्नाकर भाग १
२
""
39
37
33
""
""
11
33
93
""
55
३
४
५
६
37
सिद्धमदीपिका
सिद्धमदीपिका प्रकाश
तत्वार्थत्रिसूत्रीप्रकाशिका प्रथमकर्मग्रन्थपद्यानुवाद विवेचनादिसहित
चैत्यवन्दनभाष्य छन्दोबद्ध भाषानुवाद
स्याद्यन्तरत्नाकर ( शब्दरूपसागर )
तिलकमञ्जरी टीकात्रयोपेता प्रथमांश
जिनसंगीतसरिता ( नोटेशन तथा स्नात्रयुक्त )
नयरहस्यप्रकरणं प्रमोदाटीकायुतम्
सप्तभङ्गीनयप्रदीपप्रकरणं बालबोधिनीटी कायुतम्
५-०-०
४-०-०
२-०-०
२-०-०
४-०-०
२८-०
५-५-०
२००
०-१४-०
४-८-०
०-३-०
०-८-०
१-४-०
०-१२-०
०-१२-०
Page #138
--------------------------------------------------------------------------
________________ मुग्यमाणग्रन्था१ सिद्धहेमशब्दानुशासनं बृहद्वृत्ति बृहन्न्यास-लघुन्यासादियुतम् 2 तिलकमञ्जरी टीकाद्वयोपेता / 3 अनेकान्तव्यवस्थाप्रकरणं तत्त्वबोधिनीवृत्तियुतम् / 4 नयोपदेशोनयामृततरङ्गिणी-तरङ्गिणीतरणियुतः / 5 सिद्धहेमलघुवृत्तिः।