________________
बालबोधिनीविवृतिविभूषितं ऐन्द्रादिगणतं देवं ध्यात्वा सर्वविदं हृदि ।
सप्तभङ्ग-नयानां च वक्ष्ये विस्तरमाश्रुतम् ॥१॥ स्पष्टाभीष्टार्थबोधाऽप्यभिभवतितरां वाक्छटा मन्दबुद्धीन्
यस्मात् तस्मान्मदीयाऽप्युपकृतिफलिका भाविनी तत्र वृत्तिः । नोपेक्ष्या स्याद् बुधानामितिधृतधिषणो यत्नमास्थाय योग्यं __व्याख्यामेनां प्रकुर्वे मितनयविमलां श्रीललावण्यसूरिः ॥ ५॥ शिष्टाचारपरिपालनाय विघ्नविघाताय वा कृतं मङ्गलं शिष्यशिक्षायै अन्थादौ निबध्नन्, श्रोत्रवधानाय तत्प्रवृत्तिफलकानुबन्धचतुष्टयप्रतिपचये च कर्तव्यं प्रतिजानीते-ऐन्द्रादिप्रणतमित्यादि । 'ऐन्द्रादिप्रणतम्' इत्यनेनान्यसत्त्वपूज्यैरपीन्द्रसमूहादिभिः प्रणतस्यान्यैरपि प्रणतत्वमागतमेवेति पूजातिशयो. लभ्यते । दिव्यति आन्तरकाम-क्रोधाद्यशेषशत्रून्मूलनात् सर्वोत्कर्षेण वर्तत इति देव इति 'देवम्' इत्युक्त्याऽपायापगमातिशयो लभ्यते । 'सर्वविदम्' इत्यनेन ज्ञानातिशयः प्रतीयते। एतादृशस्य भगवतो ध्यानं तदुक्तसप्तभङ्ग-नयविस्तरवचननिर्विघ्नपरिपू.
र्त्यर्थम् , अतस्तस्य श्रुतानुगतिमत्त्वावगतये आश्रुतमिति । ततो वचनातिशयोऽप्याल्लभ्यत इति । एतादृशातिशयचतुष्टयसम्पत्समन्वितस्य भगवतो ध्यानं हृदय एव, इत्येवमपि 'हृदि' इत्युक्तिर्हदयस्थितस्य तस्य तद्वचननिर्दिष्टसप्तभङ्ग-नयनिरूपणयुक्तत्वायुक्तत्वविचारसाक्षित्वावगतये, तथा च येन भगवता सप्त भङ्गा नयाश्चोपदिष्टाः स एव भगवान् मद्धृदि व्यवस्थितोऽनन्तराभिधीयमानसप्तभङ्ग-नयविस्तरसाक्षीति स एवात्रार्थे प्रमाणमित्याशयः । सप्तभङ्ग-नयविस्तरकथनरूपग्रन्थे सप्तभङ्ग-नयविस्तर एवाभिधेयः, तेन समं ग्रन्थस्य प्रतिपाद्य-प्रतिपादकभावः सम्बन्धः, तदधिगतिः प्रयोजनम् , तदधिगतिकामोऽधिकारीत्यनुबन्धचतुष्टयावगतिरिति ।