________________
७३
सप्तमङ्गी नयप्रदीपप्रकरणम् । हरणम्-सवोणि द्रव्याणि परस्परमविरोधीनि, विशेषसङ्ग्रहो यथासर्वे जीवाः परस्परमविरोधिनः । इति सङ्ग्रहः ॥ ___ अथ व्यवहारद्रव्यार्थिकनयं प्ररूपयन्ति-"सङ्ग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनाभिसन्धिना क्रियते स व्यवहारः" इति।
--[ प्रमा० परि० ७ सूत्रम्-२३ ] एतस्यार्थ:-- सङ्ग्रहगृहीतस्य सत्त्वाद्यर्थस्य विधीयमानो यो ज्ञानविशेषस्तमेव विवेचयति स व्यवहारनामा नयः कथ्यते बुधैः । उदाहरणम् “यथा-यत् सद् द्रव्यं पर्यायो वेत्यादिः"
-[ प्रमा० परि. ७ सूत्रम्-२४ ]
अथ व्यवहारनयनिरूपणम्व्यवहारनयनिरूपणमधिकरोति-अथेति । व्यवहारनयमुल्लिखति-सङ्ग्रहेणेति। उक्तलक्षणवाक्यार्थमावेदयति-एतस्यार्थ इति'सङ्ग्रहेण' इत्यादिलक्षणवाक्यस्यार्थ इत्यर्थः । सङ्ग्रहगृहीतस्य सङ्ग्रहनयेन विषयीकृतस्य । सत्त्वाद्यर्थस्य सत्त्व-द्रव्यत्वादिरूपमहासामान्यसामान्यविशेषादिरूपार्थस्य । 'विधीयमानः' इत्यनन्तरं यो विशेष इति दृश्यम् , विशेष इत्यनेन च द्रव्यत्वपृथिवीत्वादेर्ग्रहणम् । तमेव द्रव्यत्व-पृथिवीत्वादिलक्षणविधीयमानविशेषमेव, यो ज्ञानविशेषो विवेचयति विभज्य गृह्णाति, स ज्ञानविशेषो बुधैर्व्यवहारनामा नयः कथ्यत इत्यर्थः। यत् सत् तद् द्रव्यं पर्यायो वेति परसङ्ग्रहगृहीतस्यार्थस्य विधीयमानविशेषविवेचनलक्षणव्यवहारस्योदाहरणम् । 'पर्यायो वेत्यादि'