________________
૭ર
बालबोधिनी विवृतिविभूषितं तदाभासलक्षणमाह-"द्रव्यत्वादिकं प्रतिजानानः तद्विशेषानिढुवानस्तदाभास"
-[प्रमा० परि० ७ सूत्रम्-२१] “यथा-द्रव्यत्वमेव तत्त्वम्" इति,
-[प्रमा० परि० ७ सूत्रम्-२२] नास्ति च धर्मादि द्रव्यमित्यपह्नवः, यथा-वस्तु वर्तते परं सामान्यविशेषत्वं क्व वर्तत इत्यपह्नवः । एवं सामान्यविशेषात्मनो वस्तुनो द्रष्टव्यम्।
अथवा सङ्ग्रहः सामान्य-विशेषाभ्यां द्विधा,सामान्यसङ्ग्रहोदानेति-अत्र 'पर्यायत्वेन' इति पाठो युक्तः, चैतन्याचैतन्ययोः पर्यायरूपतया पर्यायत्वेनाभेदबुद्धेरेव विवक्षणात् , पर्यायत्वसाधादेव च चैतन्याचैतन्यपर्यायाणामैक्यमिति ज्ञानस्यापरसङ्ग्रहत्वं प्रस्तुतमपीति बोध्यम् ।
प्रसङ्गादपरसङ्ग्रहाभासलक्षणं विचारपद्धतिमानयति-तदाभासलक्षणमाहेति-अपरसङ्घहाभासलक्षणं कथयतीत्यर्थः । 'द्रव्यत्वादिकम्' इत्यत्रादिपदाद् गुणत्वादेग्रहः । तद्विशेषान् द्रव्यविशेषान् धर्माधर्मादीन् । तदाभासः अपरसङ्ग्रहाभासः । उदाहरति-यथेति । 'द्रव्यत्वमेव' इत्येवकारेण धर्मत्वादेर्व्यवच्छेदः। धर्माद्यपह्नवस्वरूपमुल्लिखति-नास्ति चेति । सामान्यविशेषत्वस्याप्याधेयभावेनापह्नवोऽपरसङ्ग्रहाभास एवेत्याह-यथेति । सामान्यविशेषो द्रव्यत्वादिकं समस्ति, न च तत् कुत्रापि वर्तते सामान्यविशेषात्मनो वस्तुधर्मिणोऽभावादित्येवमपह्नवोऽप्यपरसङ्ग्रहाभास इत्याह--एवमिति ।
सामान्यसङ्ग्रहो विशेषसङ्ग्रहश्चेत्येवं वा सङ्ग्रहस्य द्वैविध्यमित्याहअथवेति । क्रमेण सङ्ग्रहद्वयमुदाहरणद्वारा भावयति--सामान्यसनहोदाहरणमिति । इति सनहनयनिरूपणम् ॥