________________
सप्तभङ्गी नयप्रदीपप्रकरणम् । सगृह्यते । धर्मादिविशेषभेदेषु च गजनिमीलिकावदुपेक्षा। एवं चैतन्याऽचैतन्यपर्यायाणामैक्यं पर्यायत्वसाधात् । चैतन्य ज्ञानम्
"चैतन्यमनुभूतिः स्यात् सक्रियारूपमेव च । क्रिया मनो-वच:-कायैरन्विता वर्तते ध्रुवम्" ॥१॥ तद्विपरीतमचैतन्यम्, तयोरैक्यं कथमिति विशेषविवक्षानाकाङ्क्षणमुपेक्षा द्रव्यत्वेनाभेदबुद्धिविवक्षणात् ।
'धर्मादीनामैक्यं द्रव्यत्वाभेदाद्' इति ज्ञाने यतः । यथा द्रव्यत्वाभेदाद् धर्मादीनामैक्यमिति ज्ञानमपरसङ्ग्रहस्तथा चैतन्याचैतन्यपर्यायाणामैक्यं पर्यायत्वाभेदादित्यपि ज्ञानमपरसङ्ग्रह इत्याह-एवमिति । चैतन्य ज्ञानम् , अज्ञानमचैतन्यम् , ततो ज्ञानाज्ञानयोरैक्यं कथमिति विशेषानाकाहालक्षणोपेक्षवात्र, तेन पर्यायत्वसाधादैक्यज्ञानं सम्भवत्येवेत्याहचैतन्यं ज्ञानमिति । चैतन्यस्य ज्ञानरूपत्वे प्राचां वचनं प्रमाणयतिचैतन्यमनुभूतिः स्यादिति-अनुभूतिरनुभवात्मकं ज्ञानमिति ज्ञानरूपता चैतन्यस्य । आत्मनो वस्त्वनुभवलक्षणक्रियारूपमेव चैतन्यमित्याहसक्रियारूपमेव चेति । वस्वनुभवकाले क्रिया वर्तते चेत् क्रियारूपत्वं तस्याभ्युपगन्तुमुचितम् , न च तदानी क्रिया काऽपि दृश्यत इति कथं सक्रियारूपत्वमित्यत आह—क्रियेति-यदा किमप्यनुभवति तदा मनो-वचः-कायैः कामपि क्रियां कुर्वन्नेवास्ते नहि निश्चेष्ट एव किमप्यनुभवतीति, अनुभवनमपि मानसी क्रियैवेति क्रियारूपत्वं चैतन्यस्यावश्यकमिति । तद्विपरीतं ज्ञानविपरीतमज्ञानमिति यावत् । तयोः ज्ञानाज्ञानखरूपयोश्चैतन्याचैतन्ययोः । कथमुपेक्षेत्यत आह-द्रव्यत्वे