________________
सप्तभङ्गी नयप्रदीपप्रकरणम् ।। सम्बन्धविषयः१३। संश्लेषसहितवस्तुसम्बन्धविषयोऽनुपचरितासद्भूतव्यवहारः, यथा-जीवस्य शरीरमिति १४ । उपचारोऽपि नवधा, तथाहि-द्रव्ये द्रव्योपचारः१,गुणे गुणोपचारः२, पर्याये
नामकरणेऽपि तथा व्यवहियेतैव सः, एवं यस्य स्वत्वं यत्र ब्रीह्यादौ रत्नादौ विद्यादौ वा तस्य तद् धनम् , उदासीनपुरुषापेक्षया तु न तद् धनमिति ब्रीह्यादौ सङ्केतितमेव धनमिति, तथा च ब्रीह्यादौ योऽयं धनमिति व्यवहारः सोऽप्युपचार एव, धनेन सह देवदत्तस्य न संयोगलक्षणसंश्लेष इति संश्लेषरहितरहितस्य धनात्मकवस्तुनः स्वस्खामिसम्बन्धविषयकोऽयं देवदत्तस्य धनमिति भवति उपचरितासद्भूतव्यवहार इत्यर्थः।
चतुर्दशभेदमुपदर्शयति-संश्लेषसहितेति । अनुपचरितासद्भूतव्यवहारममुदाहरति-यथेति-'जीवस्य शरीरम्' इत्यत्र न जीव उपचरितः प्राणधारणकर्तृत्वस्य तत्र वस्तुतो भावात् , शीर्यत इति शरीरमिति व्युत्पत्तिलभ्यविनशनशीलत्वरूपार्थस्य काये वस्तुतो घटनान्न शरीरमित्युपचरितं किन्तु जीवस्य सुखदुःखाद्युपभोगेऽवच्छेदकविधया कारणत्वेन सहकारिभूते शरीरे जीवस्य सम्बन्धः कल्प्यत एव न वस्तुतः सम्बन्धोऽस्तीत्यतोऽसद्भूतव्यवहारोऽयं शरीरेण सहान्योऽन्यानुविद्धतया संयोगलक्षणसंश्लेषो विद्यत इति संश्लेषसहितं यच्छरीरलक्षणं वस्तु तत्सम्बन्धविषयकोऽयमिति भवति संश्लेषसहितवस्तुसम्बन्धविषयोऽनुपचरितासद्भूतव्यवहार इत्यर्थः ।
असद्भूतव्यवहारविषयस्योपचारस्य नवविधत्वमुपदर्शयति-उपचारोऽपि नवधेति । तानेव नव प्रकारानुल्लिखति-तथाहीति-द्रव्ये