________________
बालबोधिनीविवृतिविभूषितं हारः, यथा-देशराज्यकीर्तिदुर्गादि मम ११ । अन्यत्र प्रसिद्धस्य धर्मस्थान्यत्र समारोपणमसद्भूतव्यवहारः १२ । असद्भूतव्यवहार एवोपचारः, य उपचारादप्युपचारं करोति स उपचरितासद्भूतव्यवहारः, यथा-देवदत्तस्य धनमित्यत्र संश्लेषरहितवस्तु
लक्षणं प्रतिपत्तव्यम् । उदाहरति-यथेति-देशाधन्तर्गतं जीवविशेषादिकमपीति तदपेक्षया खजातिविषयकत्वं तदन्यापेक्षया विजातिविषयकत्वमिति स्वजाति-विजात्युभयविषयकत्वम् , अन्यत् पूर्ववद् भावनीयम् ।
द्वादशभेदं लक्षयति-अन्यत्रेति-यद्यपि खजात्यसद्भूतव्यवहारादीनां यान्युदाहरणानि तानि सर्वाण्येवासद्भूतव्यवहारस्योदाहरणानि सम्भवन्ति, यच्चान्यदेव किञ्चिदुदाहरणं परिकल्प्योपदर्शनीयं तदपि स्वजात्यसद्भूतव्यवहारादिलक्षणान्यतमावगुण्ठितमेव तथापि सर्वलोकप्रसिद्धं यद् भारवाहीके गोत्वारोपणम् 'अयं गौः' इति तदस्योदाहरणमवगन्तव्यम् , एवं कुण्डिका स्रवति, पन्था गच्छतीत्यादिकं ज्ञेयम् ।
त्रयोदशं भेदमुपदर्शयति-असद्भूतेति-'सिंहो माणवकः' इत्यादिरौपचारिकः प्रयोग इति गीयते, तत्रोपचारः क इति पृच्छायां योऽर्य माणवके सिंह इत्येवमसद्भुतव्यवहारः स एवोपचार इत्येवोत्तरं भवति, तदतिरिक्तस्योपचारस्य तत्र वक्तुमशक्यत्वादित्यभिसन्धिः । उपचरितासद्भूतव्यवहारमुदाहरति-यथेति-'देवदत्तस्य धनम्' इत्यत्र कस्मिंश्चिच्छरीरविशेषविशिष्टे पुरुषे देवदत्त इति नामकरणाद् योऽयं देवदत्त इति व्यवहारः स उपचार एव, यतः पुरुषेच्छापरतन्त्रमेव नामकरणं न वस्त्वधीनमिति देवदत्त इति नामकरणवत्, तत्र पुरुषे यज्ञदत्त-भवदत्तादि