________________
सप्तभनी नयप्रदीपप्रकरणम् । भङ्गसम्भवतोऽष्टभङ्गी अपि किं न स्यादिति वाच्यम् , यतः कथञ्चिदस्तित्वादिनैव वक्तव्यत्वं भवेदिति यद्यद्र्येण वक्तव्यं भवति वस्त्विति तत्तद्रूपमेवास्तित्वादिकं वक्तव्यत्वमित्यस्तित्वादिप्रतिपादकभङ्ग एव वक्तव्य त्वप्रतिपादक इति नाष्टमः सः, यथा च स्वातन्त्र्येणाऽस्तित्वपर्यायमवलम्ब्य विधि-निषेधकल्पनया सप्तभङ्गी, तथा वस्तुनि वक्तव्यत्वपर्यायोऽपि समस्तीति तद्विधि-निषेधकल्पनापेक्षया कथञ्चिद्वक्तव्यत्व-कथञ्चिदवक्तव्यत्वादिसप्तधर्मप्रतिपादकसप्तभङ्गसम्भवतोऽपरा सप्तभङ्गी सम्भवन्ती न निरोढुं शक्येति; यथा चास्तित्वपर्यायं समाश्रित्य विधिनिषेधविभजनकल्पनया परिप्राप्तेषु धर्मेषु नाष्टमो वक्तव्यत्वाख्यधर्मः प्रविशति तथा निरुक्तसप्तधर्मव्यतिरिक्तधर्मान्तरस्य न प्रवेशसम्भवः । तथाहि-कथञ्चिदस्तित्वं प्रथमभङ्गेन कथञ्चिन्नास्तित्वं द्वितीयभङ्गेन प्रतिपाद्यत इति विधि-निषेधौ तौ स्वातत्र्येणावधृतौ स्तः, अथास्तित्वनास्तित्वे क्रमिकप्रधानभावकल्पनया यदा बोधनीये तदा तयोर्वैशिष्टयं समाश्रित्यास्तित्वविशिष्टनास्तित्वात्मकं यत् तदुभयस्वरूपमापतति, तत्प्रतिपादकं 'स्यादस्त्येव स्यान्नास्त्येव घटः' इति तृतीयभङ्गः, अस्तित्वनास्तित्वयोवैशिष्टयं चास्तिविशिष्टनास्तित्वस्वरूपे नास्तित्वविशिष्टास्तित्वस्वरूपे च पर्यवस्यति, तत्र विशेष्य-विशेषणभावे कामचार इति तद् विशिष्टद्वयं वस्तुगत्यैकरूपमिति तदाधिक्यनिबन्धनातिरिक्तभङ्गस्य न प्रसङ्गः । समसमयं प्रधानतया कल्पनागोचरीकृते वचनपथातीते भवत इति 'स्यादवक्तव्य एव घटः' इति तुरीयभङ्गस्तत्प्रतिपादकः, तत्प्रतिपायेऽवक्तव्यत्वे प्रथम-द्वितीयभङ्गविषयवैशिष्टयतः पञ्चम-षष्ठ-सप्तमभङ्गविषया धर्माः सम्भवन्तीति पञ्चम-षष्ठ-सप्तमभङ्गाः । एवं व्यवस्थिते, पञ्चमभाप्रतिपाद्येऽस्तित्वविशिष्टावक्तन्यत्वे अस्तित्वस्यावक्तव्यत्वस्य वैशिष्ट्यं पुनरुतत्वादेव न प्रविशति, नास्तित्ववैशिष्टयप्रवेशे तु स