________________
२६
वालबोधिनीविवृतिविभूषितं भावविवक्षितधर्मद्वयप्रतिपादने किमपि वचनं प्रगल्भत इति तथाभूतं तद् अवक्तव्यतास्वभावमेव बिभर्तीति तस्य धर्मान्तरत्वव्यवस्थितौ तदवबोधकं वचनमावश्यकम् , तदन्तरेण तद्धर्मविशिष्टतया वस्त्वनवगमे निराकाङ्क्षार्थबोधासम्भवादिति तत्प्रतिपादकं 'स्यादवक्तव्य एव घटः' इति तुरीयभङ्ग आवश्यकः, तेन च कथञ्चिदवक्तव्यत्वनिष्ठप्रकारतानिरूपितघटनिष्ठविशेष्यताको बोधो जायते, युगपत्प्रधानभावविवक्षित धर्मद्वयमवक्तव्यताख्यधर्मभावं भजत इति, यथा च नास्तित्वेऽस्तित्व वैशिष्टयपरिप्रापितं धर्मान्तरं तृतीयभङ्गविषयः, एवं युगपत्प्रधानभावकलितस्यैकदैकेन शब्देन वक्तुमशक्यस्य विधि-निषेधलक्षणधर्मद्वयस्यावक्तव्यतालक्षणस्वभावान्तरशालित्वाद् धर्मान्तरत्वम् , अतस्तत्प्रतिपादकस्तुरीयो भङ्गः । तथाऽस्तित्वांशविधिकल्पना-युगपद्विधिनिषेधावक्तव्यांशकल्पनाभ्यां कथञ्चिदस्तित्व-कथञ्चिदवक्तव्यत्वयोर्वैशिष्ट्याकलननिबन्धनधर्मान्तरस्य प्राप्त्या तत्प्रतिपादकः 'स्यादस्त्येव स्यादवक्तव्य एव घटः' इति पञ्चमभङ्ग आवश्यक एव, तमन्तरेणोक्तविशिष्टलक्षणधर्मान्तरानधिगमे निराकासबोधासम्भवात् । तथा निषेधांशकल्पना-युगपद्विधिनिषेधकल्पनाभ्यां च कथञ्चिन्नास्तित्ववैशिष्टयानुरञ्जितकथञ्चिदवक्तव्यत्वधर्मप्राप्तौ तत्प्रतिपादकः 'स्यान्नास्त्येव स्यादवक्तव्य एव घटः' इति षष्ठो भङ्ग आवश्यकः । एवं क्रमिकविधिनिषेधकल्पना-युगपद्विधिनिषेधकल्पनाभ्यां कथञ्चिदस्तित्वकथञ्चिन्नास्तित्ववैशिष्टयानुस्यूतकथञ्चिदवक्तव्यत्वलक्षणधर्मान्तरप्राप्तौ तदवबोधकः 'स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्य एव घटः' इति सप्तमो भङ्ग आवश्यकः । एकमस्तित्वपर्यायमाश्रित्य विधि-निषेधधर्मद्वयपरिकल्पनयोक्तदिशा सप्तैव धर्माः सम्भवन्ति । न चावक्तव्यत्ववद् वक्तव्यत्वधर्मोऽपि कथं न भवेदिति तत्प्रतिपादकाष्टम