________________
૨૮
बालबोधिनीविवृतिविभूषितं धर्मः सप्तमङ्गप्रतिपाद्य एवेति न ततोऽधिकमासम्भावना । षष्ठमङ्गप्रतिपाद्ये नास्तित्वविशिष्टावक्तव्यत्वेऽपि पुनरुक्तत्वादेव न नास्तित्वावक्तव्यत्वयोर्वैशिष्ट्वं प्रविशति, अस्तित्ववैशिष्ट्यप्रवेशे तु सप्तमभङ्गविषयीभूतधर्मप्राप्तिरेवेति तत्प्रतिपादकः सप्तमभङ्ग एवेति नाधिकभङ्गसम्भवः । सप्तमभङ्गप्रतिपाद्येऽस्तित्व-नास्तित्वविशिष्टावक्तव्यत्वेऽस्तित्व-नास्तित्वाऽवक्तव्यत्वानां मध्यान्न कस्यापि वैशिष्टयं पुनरुक्तभयात् प्रविशति, इत्थमष्टमधर्माभावतोऽष्टमभङ्गासम्भवान्माष्टमङ्गीति भवति सुव्यवस्थितासप्तभङ्गी । तस्याः प्रतिभङ्गमुपपादने कल्पनाविभजनाशब्दसङ्घरचनातस्तत्तद्भङ्गप्रतिपाद्यानां तत्तद्धर्माणां कल्पितत्वमिति कल्पितार्थबोधवैचित्र्यमात्रं सप्तभङ्गया इति न चेतसि निधेयम् , यतः प्रतिपर्यायमाश्रित्यान्योऽन्याऽविभागवृत्तयः सप्तापि धर्मा वस्तुस्थित्याऽनन्तधर्मात्मके वस्तुनि समवयन्ति,तेषां प्रत्येकं स्वस्खनिमित्तापेक्षया वर्तनं यद् अस्ति तत्स्पष्टप्रतिपत्त्यर्थमेव तत्तत्कल्पनातो विभजनाऽऽश्रीयत इति सदर्थविषयिण्येव सा कल्पना, नैतावता काल्पनिकत्वं तत्तद्धर्माणाम् , नहि शाखावच्छेदेन वृक्षे कपिसंयोगो मूलावच्छेदेन तदभाव इति कल्पनया विभज्योपदर्शने वृक्षे कपिसंयोग-तदभावयोः काल्पनिकत्वमिति । सप्तधर्मप्रतिपादनतो निराकाङ्क्षार्थावबोधकत्वेऽपि सप्तभङ्गयाः प्रमाणप्रतिपन्नानन्तधर्मात्मकबस्तुविषयकबोधजनकत्वाभावे प्रमाणवाक्यत्वं न स्यादित्येतदर्थ सकलादेशता समाश्रीयते । द्रव्यार्थिकनयादेशात् कालादिभिरष्टभिरस्तित्वादिनैकधर्मेण सह तदन्येषामशेषधर्माणामभेदवृत्तिप्राधान्यात् पर्यायार्थिकनयादेशादभेदोपचाराद् वाऽस्तित्वाघेकधर्मावभासकत्वतस्तदभिन्नाशेषधर्मावभासकत्वेनामन्तधर्मात्मकवस्तुनो योगपचेन प्रतिपादकत्वं प्रतिमा सकलादेशत्वम्, ततश्च प्रतिभङ्गं प्रमाणवाक्यत्वम् , कालादिभिस्टमि