________________
७६
बालबोधिनीविवृतिविभूषितं
२, भेदकल्पना निरपेक्षशुद्धद्रव्यार्थिकः ३, कर्मोपाधिसापेक्षोऽशुद्धद्रव्यार्थिकः ४, उत्पाद - व्ययसापेक्षोऽशुद्धद्रव्यार्थिकः ५, भेदकल्पनासापेक्षोऽशुद्धद्रव्यार्थिकः ६, अन्वयसापेक्षो द्रव्यार्थिकः ७, स्वद्रव्यादिग्राहको द्रव्यार्थिकः ८, परद्रव्यादिग्राहको द्रव्यार्थिकः ९, परमस्वभावग्राहको द्रव्यार्थिकः १०, इत्येवं द्रव्यार्थिकस्य दश भेदाः; अनादिनित्यपर्यायार्थिकः १, सादिनित्यपर्यायार्थिकः २, सत्तागौणत्वेनोत्पादव्ययग्राहकोऽनित्यशुद्धपर्यायार्थिकः ३, सत्तासापेक्षो नित्याशुद्धपर्यायार्थिकः ४, कर्मोपाधिनिरपेक्षो नित्यशुद्धपर्यायार्थिकः ५, कर्मोपाधिसापेक्षो नित्याशुद्धपर्यायार्थिकः ६, इत्येवं पर्यायार्थिकस्य षड् भेदाः; भूत-भाववर्तमानकालभेदान्नैगमस्य त्रयो भेदाः; सामान्य- विशेषभेदात् सङ्ग्रहस्य द्वौ भेदौ; सामान्य विशेषभेदाद् व्यवहारस्यापि द्वौ भेदौ; स्थूल सूक्ष्मभेदाद् ऋजुसूत्रस्य द्वौ भेदौ; शब्दादीनां त्रयाणां प्रत्येकमेकैकभेद इति सर्वे मिलिता अष्टाविंशतिर्नयभेदा इत्येवं मन्यते ।
तस्यैव चेत्थमुपनयभेदप्रपञ्चनम्, यथा- उपनयेषु एकवस्तुभेदविषयः सद्भूतव्यवहारः, स च शुद्धाशुद्धभेदाद् द्विविधः, आद्यः शुद्धगुणगुणि'शुद्धपर्याय पर्यायभेदकथनम्, यथा- केवलज्ञानादयो जीवस्य द्वितीयो - ऽशुद्धगुण- गुण्यादिभेदकथनम्, यथा - मतिज्ञानादयो जीवस्य । असद्भूतव्यवहार उपचरितस्य पृथक् कथनादनुपचरितो गृह्यते, स च संश्लेषसहितवस्तुसम्बन्धविषयः स्वजाति - विजात्युभयविषयभेदेन त्रिविधः, आद्यो यथा- परमाणुर्बहुप्रदेशीति कथनम् द्वितीयो यथा-मूर्त मतिज्ञानं यतो मूर्त्तिद्रव्येण जनितम्, तृतीयो यथा ज्ञेये जीवेऽजीने च ज्ञानमिति कथनं तस्योभयनिष्ठत्वात् । असद्भूतव्यवहार एवोपचारः, तत उपचारानन्तरं य उपचारः क्रियते स संश्लेषरहितवस्तुसम्बन्ध
3
-