________________
GG
सप्तभङ्गी नयप्रदीपप्रकरणम् । विषय उपचरितासद्भूतव्यवहारः, सोऽपि स्वजाति-विजात्युभयविषयभेदेन त्रिविधः, आयो यथा-पुत्र-दारादि मम, द्वितीयो यथा-वस्त्राऽऽभरण-हेम-रजतादि मम, तृतीयो यथा-दुर्ग-देश-राज्यादि ममेति । इत्थं नयोपनयनिरूपणम्, तेषां च स्वभावेषु योजनम् , तदुपयोगितया गुण-पर्याय-स्वभावानां परस्परभिन्नतया प्ररूपणमिति या दिगम्बरप्रक्रिया सोपदर्शनपूर्वकं गुणानां पर्यायानतिरिक्तत्वमेव स्वभावा अपि पर्यायेष्वेवान्तर्भवन्तीत्येवं श्वेताम्बरराद्धान्तमेव पुरस्कुर्वतैतदन्थकारेण श्रीमता यशोविजयमहोपाध्यायेन स्वनिर्मितेऽनेकान्तव्यवस्थाप्रकरणे खण्डितैव, तदुपपादनप्रकारस्तत्खण्डनप्रकारश्च परिशीलनीयो जिज्ञासुभिरनेकान्तव्यवस्थाप्रकरणावलोकनतः, ततश्च सिद्धमिदं योऽनन्तरं व्यवहारभेदोऽत्र दर्श्यते स दिगम्बरसम्मत उपनयभेद एवेति । भेदोपचारतयेति-भेदश्वोपचारश्च भेदोपचारौ; तयोर्भावो भेदोपचारता, तया भेदोपचारतयेत्यर्थः, अत्रोपचारोऽपि सन्निधानाद् भेदस्यैवावगन्तव्यः, तथा च सनहाभिमतं यद् गुण-पर्याय-नाम-स्वभाव-कारक-क्रियाद्यात्मकद्रव्यस्वरूपमेकं वस्तु तद् गुणादिभिर्भेदेनोपचरितभेदेन वा व्यवहियत इत्यर्थः । अस्य व्यवहारस्योपनयतया दिगम्बरैः परिभाषितस्यैकवस्तुभेदविषयः सद्भूतव्यवहार इत्येवं लक्षणलक्षितो यः सद्भूतव्यवहाराख्यः प्रथमभेदस्तस्य शुद्धाशुद्धभेदेन द्वैविध्यं ग्रन्थान्तरे व्यावर्णितम् , तथाऽत्रानुपचरितसद्भूतव्यवहारस्य तुरीयभेदस्य यदुदाहरणम् 'केवलज्ञानादयो गुणाः' इति तद् ग्रन्थान्तरे शुद्धसद्भूतव्यवहारस्योदाहरणं दर्शितम्, यच्चात्रोपचरितसद्भूतव्यवहारस्य तृतीयभेदस्योदाहरणम् 'मतिज्ञानादयो जीवस्य' इति तद् ग्रन्थान्तरेऽशुद्धसद्भूतव्यवहारस्योदाहरणमुक्तम् ।