________________
बालबोधिनीविवृतिविभूषितं
एतावतोपचरितत्वमशुद्धत्वम्, अनुपचरितत्वं शुद्धत्वमिति बोध्यम् । निरुक्तनियुक्त्युपदर्शित खरूपस्य व्यवहारस्य सद्भूतव्यवहारादयश्चतुर्दश भेदाः, तत्र प्रथमं सद्भूतव्यवहाराख्यं भेदमुपदर्शयति-गुण-गुणिनोरिति-गुण- गुणिनोर्भेदाद् भेदकः सद्भूतव्यवहार इत्यन्वयः इत्थमेव द्रव्य - पर्याययोरित्यादावप्यन्वयो बोध्यः । यद्यपि स्वमते सहभाविपर्याय एव गुण इति द्रव्य-पर्याययोरित्यनेनैव गुण-गुणिनोरित्यस्य गतार्थता, एवं संज्ञा-स्वभाव-कारक - क्रियाणामपि पर्यायरूपत्वाद् द्रव्य-पर्याययोरित्यनेनैव गतार्थता, तथा दिगम्बरमते गुण-स्वभावादीनां पर्यायात् पार्थक्यमिति तन्मतानुसारेणेवेदं व्यवहारभेदप्रपञ्चनम्, अतः पार्थक्ये - नाभिधानमिति बोध्यम् ।
यद्यपि सद्भूतव्यवहारः शुद्धसद्भूतव्यवहारोपचरितसद्भृतव्यवहारानुप
७
चरितसद्भूतव्यवहाराशुद्धसद्भूतव्यवहारेष्वनन्तरमेवाभिधीयमानेष्वन्तर्भवतीति न तस्य पार्थक्येनाभिधानमुचितम्, यदि च पार्थक्येनाभिधानं नेष्टमस्य, तर्हि सद्भूतव्यवहारश्चतुर्धा शुद्धोपचरितानुपचरिताशुद्धभेदादित्येवं तदभिधानं युक्तं स्यात् न च तथाऽनभिधानेऽपीष्टं तथैव अन्यथा तस्य पृथक्तयाऽभिमतत्वे तदुदाहरणमपि पृथगभिहितं स्याद्, न च तदुदाहरणं किश्चिदुक्तमिति वाच्यम्, एवं सति शुद्धसद्भूतव्यवहारोऽशुद्धसद्भूतव्यवहारश्च पृथग् नाभिधातुं युक्तौ तयोरप्युदाहरणानुपदर्शनात् । न च यदेवानुपचरितसद्भूतव्यवहारस्योदाहरणं तदेव शुद्धसद्भूतव्यवहारस्य, यदेव चोपचरितसद्भूतव्यवहारस्योदाहरणं तदेवाशुद्धसद्भूतव्यवहारस्येत्यत उदाहरणान्तरानुपदर्शनं तयोरिति वाच्यम्, तथा सति अनुपचरितसद्भूतव्यवहार एव शुद्धसद्भूतव्यवहारः, उपचरित - सद्भूतव्यवहार एव चाशुद्धसद्भूतव्यवहार इत्येवमपि सद्भूतव्यवहारस्य