________________
सप्तभङ्गी नयप्रदीपप्रकरणम् । भेदकः सद्भूतव्यवहारः१ । शुद्धगुण-गुणिनोः, शुद्धपर्याय-द्रव्ययो
द्वैविध्यमेव स्यान्न चातुर्विध्यम् । न च ग्रन्थान्तरे शुद्धाशुद्धभेदेन द्वैविध्यमेव सद्भूतव्यवहारस्य दर्शितमित्यत्रापि तदेवाभिमतम् , शुद्धसद्भूतव्यवहारस्यैव नामान्तरेण कथनमनुपचरितसद्भूतव्यवहार इति, अशुद्धसद्भूतव्यवहारस्यैव च नामान्तरेण कथनमुपचरितसद्भूतव्यवहार इति वक्तुं साम्प्रतम् , तथा सति स्वलक्षणेन लक्षितं शुद्धसद्भूतव्यवहारमभिधाय तस्य नामान्तरकथनरूपमनुपचरितसद्भूतव्यवहार इत्यभिधाय तदुदाहरणमुपदर्शनीयं स्यात् , एवं स्वलक्षणेन लक्षितमशुद्धसद्भूतव्यवहारमभिधाय तस्य नामान्तरकथनरूपमुपचरितसद्भूतव्यवहार इत्यभिधाय तदुदाहरणं च प्रदर्शनीयं स्यात् , न चेत्थमत्र सन्दर्भः, किन्तु शुद्धसद्भूतव्यवहारस्य लक्षणमन्यद्, अन्यदेव चानुपचरितसद्भूतव्यवहारस्य, एवमशुद्धसद्भूतव्यवहारस्य लक्षणं भिन्नं ततो भिन्नं चोपचरितसद्भूतव्यवहारस्येति । ___ तथापि द्रव्यार्थिकस्य नैगम-सङ्ग्रह-व्यवहारेषु पर्यायार्थिकस्य ऋजुसूत्रशब्द-समभिरूद्वैवम्भूतेषु चान्तर्भावसम्भवेऽपि दिगम्बरेण तयोः पार्थक्यमेवोररीकृत्य नया नवोररीकृताः, तथा शुद्धसद्भूतव्यवहारादिप्वन्तर्भावशीलस्यापि सद्भूतव्यवहारस्य तन्मते पार्थक्यमेव युक्तम् , विशेषेभ्यः सामान्यस्य भिन्नतयोररीकारेण तथाभिधानं तन्मते नासङ्गतम् , उदाहरणं च तस्य-द्रव्यस्य गुणाः, द्रव्यस्य पर्यायाः, संज्ञिनः संज्ञा, द्रव्यस्य स्वभावाः, द्रव्यस्य कारकम् , द्रव्यस्य क्रिया, इत्यादि; सामान्यतो गुणगुणिनोरित्यादीनां भेदकथनम् , अस्योदाहरणस्य स्पष्टत्वादनभिधानमिति । - शुद्धसद्भूतव्यवहारं द्वितीयभेदं लक्षयति-शुद्धगुण-गुणिनोरिति