________________
. 20
बालबोधिनीविवृतिविभूषितं आंदकथनं शुद्धसद्भूतव्यवहारः २ । सोपाधिगुण-गुणिनोर्मेदविषय उपचरितसद्भूतव्यवहारः, यथा-जीवस्य मतिज्ञानादयो गुणाः३। निरुपाधिगुण-गुणिनोर्भेदकोऽनुपचरितसद्भूतव्यवहारः, यथा
आत्मनो ज्ञानादयो गुणाः, आत्मनः पर्याया गत्यादय इति; एवं पुद्गलस्य रूपादयो गुणाः, मृदादयः पर्याया इत्युदाहरणम् , गुण-पर्याययोर्भेदं दिगम्बरोऽभ्युपगच्छति तेन शुद्धस्य गुणस्य शुद्धस्य पर्यायस्य च द्रव्येण सह भेदकथनरूपत्वाद् भवति शुद्धसद्धृतव्यवहार इति, अनुपचरितसद्भूतव्यवहारो गुण-गुणिनोरेव भेदकः, अयं च द्रव्य-पर्याययोरपीत्यधिकविषयकत्वात् तस्मादयं भिद्यत इति, अत्राप्युदाहरणं सुगमावबोध्यत्वान्नोट्टङ्कितम् । ___ तृतीयभेदं लक्षयति--सोपाधिगुण-गुणिनोरिति । उदाहरतियथेति-प्राणधारणविशिष्टात्मनो जीवत्वमिति 'जीवस्य' इति सोपाधिद्रव्यग्रहणम् , सावरणमेव मतिज्ञानाद्यावरणक्षयोपशमविशेषसमुत्थं ज्ञानं मतिज्ञानादिवाच्यमिति मतिज्ञानादयः' इत्यनेन सोपाधिगुणग्रहणम् , सोपाधित्वादेव चानयोरुपचरितत्वमिति भवति जीवस्य मतिज्ञानादयो गुणा इति सोपाधिगुण-गुणिभेदविषय उपचरितसद्भूतव्यवहारः, अशुद्धसद्भूतव्यवहारेऽशुद्धद्रव्य-पर्याययोर्भेदोऽपि विषयः, न चात्र तथेति ततोऽस्य न्यूनविषयत्वाद् भेद इति । . ___चतुर्थभेदं लक्षयति-निरुपाधीति । उदाहरति यथेति- केवलज्ञानादयो गुणाः' इति स्थाने 'केवलज्ञानादय आत्मनो गुणाः' इति पाठो युक्तः, यद्यपि ग्रन्थान्तरे शुद्धसद्भूतव्यवहारस्योदाहरणं 'केवलज्ञाना. दयो जीवस्य' इत्युक्तं तथापि तत्र जीवपदमात्मपरमेव बोध्यम् , अस्य