________________
सप्तभङ्गी नयप्रदीपप्रकरणम् । केवलज्ञानादयो गुणाः ४ । अशुद्धगुण-गुणिनोरशुद्धद्रव्यपर्याययोर्भेदकथनमशुद्धसद्भूतव्यवहारः ५ । स्वजात्यसद्भूतव्यवहारः, यथा-परमाणुबहुप्रदेशीति कथनम् ६ । विजात्यसद्भूतव्यवहारः, यथा-मूर्तिमन्मतिज्ञानं मूर्तजनितत्वात् ७ । उभया
निरुपाधिगुण-गुणिभेदमात्रविषयकत्वेन शुद्धपर्याय-द्रव्ययोरपि भेदकथनात्मकाच्छुद्धसद्भूतव्यवहाराद् भेद इति ।
पञ्चमभेदं लक्षयति-अशुद्धगुण-गुणिनोरिति-अस्याशुद्धद्रव्यपर्याययोरपि भेदस्य बोधकत्वेनोपचरितसद्भूतव्यवहाराद् भेदः, उदाहरणम्-जीवस्य मतिज्ञानादयो गुणाः, मनुजादयः पर्याया इति ।
षष्ठं भेदमुपदर्शयति-खजात्यसद्भूतव्यवहार इति, द्वादशभेदमसद्भूतव्यवहारमग्रे लक्षयिष्यति, अन्यत्र प्रसिद्धस्य धर्मस्थान्यत्र समारोपणसद्भूतव्यवहार इति तदेव सामान्यलक्षणं किञ्चिद् विशेषमुपादाय षष्ठादिभेदानामपि भविष्यतीत्यभिसन्धाय लक्षणं नाभिहितम् , तथा च स्वजातिविषयकं यद् अन्यत्र प्रसिद्धस्य धर्मस्यान्यत्र समारोपणं स स्वजात्यसद्भूतव्यवहार इत्यर्थः । उदाहरति यथेति-'परमाणुबहुप्रदेशी' इत्यत्र बहुप्रदेशिभिन्ने परमाणौ बहुप्रदेशित्वस्य समारोपणमस्ति, परमाणु-बहुप्रदेशिनोः पुद्गलत्वेन साजात्यमस्तीति स्वजातिविषयकोऽयमिति भवति स्वजात्यसद्भूतव्यवहार इत्यर्थः।
सप्तमं भेदमुपदर्शयति-विजात्यसद्भूतव्यवहार इति-विजातिविषयकं यद् अन्यत्र प्रसिद्धस्य धर्मस्यान्यत्र समारोपणं स विजात्यसद्भूतव्यवहार इत्यर्थः । उदाहरति-यथेति-'मूर्तिमद् मतिज्ञानम्' इत्यत्र मूर्तिमत्पुद्गलभिन्ने मतिज्ञाने मूर्तजनितत्वहेतुतो मूर्तिमत्त्वस्य पुद्गले
६ सप्तभन्नी