________________
बालबोधिनीविवृतिविभूषितं सद्भूतव्यवहारः, यथा-ज्ञेये जीवे चाजीवे ज्ञानमिति कथनं तयोनिविषयत्वात् ८। स्वजात्युपचरितासद्भूतव्यवहारः, यथा
प्रसिद्धस्य धर्मस्य समारोपणमस्ति, मूर्तिमतो विजातीयं च मतिज्ञानमिति भवति विजात्यसद्भूतव्यवहार इत्यर्थः ।
अष्टमं भेदमुपदर्शयति-उभयासद्भूतव्यवहार इति-स्वजातिविजात्युभयविषयकं यद् अन्यत्र प्रसिद्धस्य धर्मस्यान्यत्र समारोपणं स उभयासद्भूतव्यवहार इत्यर्थः । उदाहरति-- यथेति-'ज्ञेये जीवे चाजीवे ज्ञानम्' इत्यत्र ज्ञातृस्वभावस्य ज्ञानलक्षणोपयोगस्य ज्ञातरि प्रसिद्धस्य ज्ञातृभिन्ने ज्ञेयभूते जीवेऽजीवे च समारोपणमस्ति, ज्ञातृखभावस्य ज्ञानस्य जीवो ज्ञेयस्वरूपः सजातीयः, विजातीयश्चाजीव इति, तदुभयं च विषय इति भवति सजाति-विजात्युभयासद्भूतव्यवहार इति, जीवे 'ज्ञेये' इति विशेषणोपादानेनेदं ज्ञापितम् , यदुत ज्ञानं जीवस्य धर्मो भवति, परमसौ ज्ञातुर्जीवस्य न तु तद्भिन्नस्य ज्ञेयतयाऽभिमतस्य जीवस्येति, तत्र तस्य समारोपणमेवेत्यर्थः । तयोः जीवाजीवयोः ।
नवमं भेदमुपदर्शयति-स्वजात्युपचरितासद्भूतव्यवहार इतिस्वजात्यसद्भूतव्यवहारस्य यल्लक्षणं तदेवोपचरितत्वविशेषणमधिकमुपादायाऽस्य लक्षणमवसेयम् , यथा च खजात्यसद्भूतव्यवहारादिष्वन्तर्भावयितुं शक्योऽप्यसद्भूतव्यवहारो दैगम्बरी प्रक्रियामाश्रित्य पार्थक्यमनुभवति सामान्य-विशेषयोर्भेदोपासनतस्तथैव स्वजात्युपचरितासद्भूतव्यवहारादिष्वन्तर्भवनशीला अपि स्वजात्यसद्भूतव्यवहारादयो दैगम्बरी प्रक्रियामवलम्ब्यैव पार्थक्यभाजोऽवसेयाः । उदाहरति-यथेति-'पुत्र