SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ सप्तभङ्गी-नयप्रदीपप्रकरणम् । सदृक् शुद्धात्मा ५, कर्मोपाधिसापेक्षखभावोऽप्यनित्याशुद्धपर्यायार्थिका, यथा-संसारिणामुत्पत्ति-मरणे स्तः ६, इति पर्यायार्थिकस्य षड् भेदाः॥ अथ तयोः स्थानप्रधानमाह-द्रव्यास्तिकनयो हि नित्यस्थानमेवाह, द्रव्यस्य नित्यत्वात् सकलकालभावित्वाच्च । पर्यायार्थिकस्त्वनित्यमेव स्थानमाह, पर्यायाणामनित्यत्वात् प्रायशः । तदुक्तं राजप्रश्नीयवृत्तौ--- पर्यायार्थिकं षष्ठं भेदमाह-कर्मोपाधीति । उदाहरति-यथेति-जीवस्याऽनादिनिधनस्वभावस्योत्पत्तिमरणे कार्मणशरीरसम्बन्धकृते इति कर्मोपाधिसापेक्षस्वभावत्वम् , विभिन्नकालीनयोरुत्पत्ति-मरणयोरेकत्र विधानं नानुगामिद्रव्यमन्तरेणेति तथाभूतद्रव्यसम्बन्धादशुद्धतेति तथाग्राहिणो ज्ञानस्य विषयनिबन्धनं कर्मोपाधिसापेक्षस्वभावत्वमनित्याशुद्धपर्यायार्थिकत्वं चेति बोध्यम् । उपसंहरति-इति पर्यायार्थिकस्य षड् भेदा इति । ___ स्थाने तयोर्मन्तव्यभेदमुपदर्शयति-अथेति । तयोः द्रव्यार्थिकपर्यायार्थिकनययोः । द्रव्यास्तिकस्य नित्यं द्रव्यमेव विषयस्तस्य त्रिकालावस्थानादिति स्थानमवस्थानमेतन्नये नित्यमित्याह-द्रव्यास्तिकनयो हीति । पर्यायास्तिकनयविषयस्य पर्यायस्य बहुधाऽनित्यत्वात् , केषाञ्चित् पर्यायाणां सिद्धत्वादीनामुत्तरकाले सर्वदाऽवस्थानेऽपि पूर्वकालेऽवस्थानाभावादशुद्धपर्यायस्य नित्यत्वस्यौपाधिकस्य सम्भवेऽपि शुद्धपर्यायस्य नित्यत्वासम्भवात् तत्स्थानमनित्यमित्याह-पर्यायार्थिकस्त्विति । द्रव्यास्तिकस्य नित्यस्थानाभ्युपगमः पर्यायास्तिकस्याऽनित्यस्थानाभ्युपगम इत्यत्र राजप्रश्नीयवृत्तिसंवादमुपदर्शयति-तदुक्तमिति । द्रव्यातिकनये स्थानख
SR No.008452
Book TitleSaptabhangi Naypradipa Prakarana
Original Sutra AuthorYashovijay Upadhyay
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy