________________
बालबोधिनीविवृतिविभूषितं "द्रव्यार्थनये नित्यं पर्यायार्थनये त्वनित्यम्"। द्रव्यास्तिकनयो द्रव्यमेव तात्त्विकमभिमन्यते, न तु पर्यार्यान्, द्रव्यं चान्वयि परिणामित्वात् सकलकालभावि भवति । ननु गुणप्रधानस्तृतीयो गुणार्थिकनामा नयः कथं न स्यादिति चेत्, न-गुणानां पर्यायग्रहणेनैव ग्रहणसम्भवात् । ननु द्रव्याणामेव पर्यायास्तर्हि द्रव्यार्थिक-पर्यायार्थिकनयद्वयं कथमिति चेत्,
नित्यत्वमुपपादयति-द्रव्यास्तिकनय इति-स्थानमात्रस्य तत्त्वे सिद्धिस्थानस्य तत्त्वमावेदितं भवतीति । ननु यथा द्रव्यविषयकत्वाद् द्रव्यार्थिकनयः पर्यायविषयकत्वात् पर्यायार्थिकनयस्तथा गुणविषयकत्वाद् गुणार्थिकनयोऽपि भवितुमर्हति, तथा च नयस्त्रिविधः-द्रव्यार्थिकः, गुणार्थिकः, पर्यायार्थिकश्चेत्येवं नयविभागः समुचित इत्याशङ्कतेनन्विति । पर्यायार्थिकनयो हि पर्यायसामान्यावलम्बनः, पर्यायसामान्ये च क्रमभावी पर्यायः सहभावी पर्यायश्चान्तर्भूत इति सहभाविपर्यायरूपगुणविषयकनयोऽपि पर्यायार्थिकनय एवेति नातिरिक्तो गुणार्थिकनय इति समाधत्ते-नेति । नन्वेवं पर्यायार्थिकनयत्वेन सङ्ग्रहाद् गुणार्थिकनयो यदि नातिरिक्तस्तर्हि पर्याया द्रव्यस्यैवेति द्रव्यपदेन द्रव्यसम्बन्धिनः पर्यायस्यापि ग्रहणसम्भवाद् द्रव्यार्थिकनयत्वेन पर्यायार्थिकनयोऽपि सङ्ग्रहीत इति सोऽप्यतिरिक्तो माऽस्त्विति शङ्कते- नन्विति । द्रव्यस्यैव पर्याया इति द्रव्यसम्बन्धित्वेऽपि द्रव्यस्वरूपादनुगामिनः पर्यायस्वरूपस्याननुगामिनः कथञ्चिद् भेद इति भिन्नविषयत्वाद् द्रव्यार्थिकनयात् पर्यायार्थिकनयो भिन्न इति द्रव्यार्थिक-पर्यायार्थिकनयाभ्यां