________________
५३
सप्तभङ्गी-नयप्रदीपप्रकरणम् । सत्यम्-द्रव्य-पर्याययोः स्वरूपविवक्षायां कश्चिद्विशेष इति 'राहो: शिर' इतिवत् कथञ्चिदभेदे षष्ठी, तथा हि,-द्रव्यादपि सूक्ष्मः पर्यायः, एकस्मिन् द्रव्येऽनन्तानां पर्यायाणां सम्भवात् , द्रव्ये वर्धमाने पर्याया नियमाद् वर्धन्ते, प्रतिद्रव्यं सङ्ख्येयानामसङ्खयेयानामवधिना परिच्छेदात् , पर्याये वर्धमाने च द्रव्यं भाज्यम् ।
"भयणाएँ खेत्त-काला परिवईतेसु दव्व-भावेसु । दव्वे वड्डइ भावो भावे दव्वं तु भयणिऑ" ॥
-[ विशेष्यावश्यक० गाथा-६१९ ]
विभजनं नासङ्गतमिति समाधत्ते-सत्यमिति । द्रव्य-पर्याययोः स्वरूपतोऽपि सर्वथाऽभेदे द्रव्यस्य पर्याया इति षष्ठी न भवेत् , राहोः शिर इत्यत्रापि भेदे सत्येव कथञ्चिदभेदे षष्ठी न सर्वथाऽभेद इत्याहद्रव्य-पाययोरिति । द्रव्य-पर्यायस्वरूपयोर्विशेषमेव भावयतितथाहीत्यादिना । द्रव्यस्य यत्रैकत्वं तत्रापि तत्पर्यायाणामनन्तत्वाद् द्रव्यात् पर्यायस्य सूक्ष्मत्वमित्याह--एकस्मिन् द्रव्य इति । द्रव्ये वर्धमाने पर्याया नियमेन वर्धन्ते, पर्याये वर्धमाने द्रव्यं वर्धते न वेत्यतोऽपि द्रव्य-पर्यायस्वरूपयोर्भेद इत्याह-द्रव्ये वर्धमान इति । अत्रैव हेतुमुपदर्शयति-प्रतिद्रव्यमिति । अवधिना अवधिज्ञानेन । उक्तार्थे विशेषावश्यकभाष्यसम्मतिं दर्शयति-भयणा इति-"भजनया क्षेत्र-कालौ परिवर्द्धमानयोर्द्रव्य-भावयोः । द्रव्ये वर्धते भावो भावे द्रव्यं तु भजनीयम्" ।। इति संस्कृतम् । क्षेत्रतोऽनन्तगुणत्वं द्रव्यस्य, द्रव्याच सङ्ख्यगुणत्वमसङ्ख्येयगुणत्वं वाऽवधिविषयपर्यायस्येत्यतोऽपि द्रव्यख