SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ बालबोधिनी विवृतिविभूषितं [अथ द्वितीयसर्गे नयप्रदीपप्रकरणम् ।] अथानुसप्तभङ्ग नयलक्षणान् प्रारभन्ते-१ नानास्वभावेभ्यो व्यावृत्त्यैकस्मिन् स्वभावे वस्तु नयति-प्राप्नोतीति नयः। २ प्रमाणेन अथ नयनिरूपणमधिकरोति___ अथेति । अनुसप्तभङ्ग सप्तभङ्गनिरूपणानन्तरम् , यतः "सप्तभङ्गनयानां च वक्ष्ये विस्तरमाश्रुतम्" इत्यनेन सप्तभङ्ग-नयोभयनिरूपणस्य प्रतिज्ञातत्वेन तत्र सप्तभङ्गनिरूपणे वृत्ते सति नयनिरूपणमेवावसरप्राप्तम् , तथा सङ्ग्रहादिनयविषयीकृतार्थस्य सप्तभिर्भङ्गैः प्ररूपणम् , नयद्वययोजनयैव च सप्तभङ्गीप्रवृत्तिरिति नयनिरूपणे सत्येव सप्तभङ्गीस्वरूपावगतिः स्पष्टेति युक्तं सप्तभङ्गनिरूपणानन्तरं नयनिरूपणमिति । नयलक्षणान् प्रारभन्त इति-लक्षणशब्दस्य नपुंसकलिङ्गत्वाद् 'नयलक्षणानि प्रारभन्ते' इति पाठो युक्तः । निरुक्तिबलेन नयलक्षणं तावदाह-नानाखभावेभ्य इति-यथा सामान्य-विशेषादिनानास्वभावात्मकं घटादिवस्तु प्रमाणविषयः, तच्च घटादिवस्तु नानास्वभावेभ्यो व्यावृत्त्य-व्यवच्छिद्य एकस्मिन् स्वभावे- सामान्यात्मनि विशेषात्मनि वा सङ्ग्रहनयो व्यवहारादिनयो वा प्राप्नोति- तथावद्वस्तु गृह्णातीति सङ्ग्रहादिर्नय इत्यर्थः। प्रमाणेनेति-अनन्तधर्मात्मकवस्तुग्राहि प्रमाणम् , तेन सङ्ग्रहीतस्यसम्यग् गृहीतस्य, अर्थस्य-अनन्तधर्मात्मकवस्तुनः, एकोऽशः-सामान्यात्मा विशेषात्मा वा, नया-नयविषयत्वान्नय उपचर्यते, तथा च प्रमाणसङ्ग्रहीतार्थेकांशग्राही नय इत्यर्थः ।
SR No.008452
Book TitleSaptabhangi Naypradipa Prakarana
Original Sutra AuthorYashovijay Upadhyay
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy