________________
सप्तभङ्गी नयप्रदीपप्रकरणम् । सर्वम्' इति सदंशकल्पनाविभजनेन प्रथमो भङ्गः ॥१५॥ 'स्यानास्त्येव सर्वम्' इति पर्युदासकल्पनाविभजनेन द्वितीयो मङ्गः ॥ १६ ॥ 'स्यादस्त्येव स्यान्नास्त्येव' इति क्रमेण सदंशाऽसदंशकल्पनाविभजनेन तृतीयो भङ्गः ॥॥१७॥ 'स्यादवक्तव्यमेव
सर्वम् इति प्रथमो भङ्गो भवति, सर्वस्य कथञ्चिदस्तित्वे सर्वान्तर्गतघटादावपि प्रत्येकं कथञ्चिदस्तित्वं समनुगतमिति सर्वस्य धर्मितयोपन्यासः, तेन 'स्यादस्त्येव घटः' 'स्यादस्त्येव पटः' इत्येवंदिशा घटादिधर्मिणि अस्तित्वप्रतिपादकः प्रथमो भङ्गः, अस्तित्वं च विध्यंशस्य नित्यत्वादेरप्युपलक्षणमिति 'स्याद् नित्यमेव सर्वम्' इत्येवंदिशा प्रथमो भङ्गो भावनीयः।
'स्यान्नास्त्येव सर्वम्' इति द्वितीयो भङ्गः सर्वस्य धर्मिण उपादानेन यथा भवति तथा 'स्यान्नास्त्येव घटः' 'स्यान्नास्त्येव पटः' इत्येवं घटादिधर्मिण उपादानतोऽपि सम्भवति, एवं भङ्गान्तरेऽपि, नास्तित्वलक्षणपर्युदासकल्पनाविभजनेन यथा द्वितीयो भङ्गस्तथाऽनित्यत्वादिलक्षणपर्युदासकल्पनाविभजनेनापि, तेन 'स्यादनित्यमेव सर्वम्' 'स्यादनित्य एव घटः' इत्येवंदिशा द्वितीयो भङ्गो भावनीयः।
प्रथम-द्वितीयभङ्गाभ्यां विधि-निषेधरूपधर्मद्वयव्यवस्थितौ तयोः क्रमेण विवक्षया क्रमिकतदुभयप्रतिपादकः ‘स्यादस्त्येव स्यान्नास्त्येव च सर्वम्' इति तृतीयो भङ्ग इत्याह-'स्वादस्त्येव स्थानास्त्येव' इति । युगपत् तदुभयविवक्षायां युगपदेव तयोः प्राधान्येन प्रतिपादकं किमपि वचनं नास्तीत्यनिर्वचनीयतांशकल्पनाविभजनेन चतुर्थो भङ्ग इत्याह-'स्यादवक्तव्यमेव' इति । विधिप्राधान्येन युगपद्विधि-निषेधप्राधान्येन च सदंश-युगपद्विधिनिषेधांशकल्पनाविभजनया 'स्यादस्त्येव स्यादवक्तन्य