________________
बालबोधिनीविवृतिविभूषितं
प्रतिपदार्थं प्रतिधर्मं परिप्रश्नकाले एकैकशो वस्तुधर्मे एकैकैव सप्तभङ्गी भवतीति नियमः ।
अनन्तधर्मविवक्षया सप्तभङ्गीनामपि नानाकल्पनमभीष्टमेव, एतत् तु सूत्रकारेणैव ज्ञापितम्, तथाहि
“विधि निषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुन्यनन्तानामपि सप्तभङ्गीनामेव सम्भवात् ॥ ३८ ॥ प्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव सम्भवात् " ॥ ३९ ॥ इति ॥
अथ सप्तभङ्गी स्वरूपतः प्रदर्श्यते, तथाहि - 'स्यादस्त्येव
इत्यस्य 'नियमः' इत्यनेनान्वयः, यद्यप्यनन्तधर्माध्यासिता अनन्ता एव पदार्थाः, तथाऽप्येकस्मिन् पदार्थे एकधर्ममधिकृत्य प्रश्नाः सप्तैवेति तदुचरवाक्यरूपा एकैव सप्तभङ्गी भवतीति नियमः, 'एकत्र धर्मिणि' इत्युपादानेन 'एकैकधर्मपर्यनुयोगवशाद्' इत्युपादानेन चेत्यर्थः । यद्येकधर्मविवक्षया एका सप्तभङ्गी, तर्हि अनन्तधर्मविवक्षया अनन्ता सप्तभक्त्यपि स्यादित्यत्रेष्टापत्तिमाह- अनन्तधर्मविवक्षयेति - एकत्र धर्मिणि यावन्तो धर्मास्तत्र प्रत्येकधर्मविवक्षया एकैकसप्तभङ्गीसम्भवे तावत्यः सप्तभङ्ग्यः स्युरेवेत्यर्थः । एतत् तु सप्तभङ्गीनामनन्तत्वं पुनः । सूत्रकारे - णैव प्रमाण - नयतत्वालोकालङ्कारसूत्रकृता श्रीदेवसूरिणैव । तज्ज्ञापके सूत्रे उल्लिखति-विधि - निषेधप्रकारापेक्षयेति सूत्रे स्पष्टे । सप्तभङ्गसमूहरूपायाः सप्तभञ्ज्याः समूहिनां सप्तानामपि भङ्गानां प्रत्येकं स्वरूपपरिचये खरूपावगतिरित्याशयेन क्रमेण सप्तानामपि भङ्गानां स्वरूपमुपदर्शयति - तथाहीत्यादिना । सत्त्वासत्त्वादिसप्तविधधर्मपरिकर्मिते वस्तुनि अखण्डे सदंशस्य कल्पनया यद् विभजनं पृथक्करणं तेन 'स्यादस्त्येव