SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ १०४ ‘बालबोधिनीविवृतिविभूषितं "एषु चत्वार आद्या नया अर्थनिरूपणायां प्रवीणत्वादर्थनया"। -[ प्रमा० परि० ७ सूत्रम्-४४ ] "अग्रेतनास्त्रयो नयाः शब्दवाच्यार्थगोचरतया शब्दनया:" इति । -[प्रमा० परि० ७ सूत्रम्-४५] के पुनर्भेदाः? तानाह"इकिको य सयविहो, सत्त नयसया हवन्ति एमेव । अन्नो वि अ आएसो, पंचेव सया नयाणं तु" ॥ -[ विशेषावश्यकभाष्यगाथा-२२६४ ] आद्याश्चत्वानिरूपणाया। अर्थनया नयाधारतया निरूपयति-एतेष्विति-निरुक्तेषु सप्तसु नयेष्वित्यर्थः । तद् दर्शयति अर्थनयत्वं शब्दनयत्वं च दर्शयति । एषु सप्तसु नयेषु । आद्याश्चत्वारो नयाः नैगम-सङ्ग्रह-व्यवहार-ऋजुसूत्राख्याश्चत्वारो नयाः । अर्थनिरूपणायाम् अर्थविषयकज्ञानानुकूलशब्दात्मकनिरूपणे। प्रवीणत्वात् समर्थत्वात् । अर्थनया ज्ञेयाः । अग्रेतनास्त्रयो नयाः शब्द-समभिरूद्वैवम्भूताख्या नयाः । 'शब्दवाच्यार्थगोचरतया' इत्यनेन शब्दप्राधान्यं ख्यापितं भवति, कालभेद-लिङ्गभेदादिकं शब्दगतमेव, तहलाद् विभिन्नार्थगोचरत्वेन शब्दवाच्यार्थगोचरता शब्दाख्यसाम्प्रतनयस्य, समभिरूद्वैवम्भूतयोरपि व्युत्पत्तिः शब्दस्यैवेति तन्निमित्तक्रियाभेदोऽपि शब्दाधीन एवेति तत एव च विभिन्नार्थगोचरत्वेन शब्दवाच्यगोचरतेति, अर्थभेदे शब्दभेद एव निबन्धनमिति यथा यथा शब्दा अन्यथाभावमुपयान्ति तथा तथाऽर्था अप्यन्यथाभावं प्रतिपद्यन्त इति शब्दप्राधान्याच्छब्दनयत्वमेषामित्यर्थः । नयभेदसङ्ख्यानिरूपणम्--- नयानां सप्तत्वादिसङ्ख्याप्रकारानुपदर्शयितुमाह के पुनर्भेदाः?
SR No.008452
Book TitleSaptabhangi Naypradipa Prakarana
Original Sutra AuthorYashovijay Upadhyay
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy