________________
२२
बालबोधिनीविवृतिविभूषितं तत्रैव-"इयं सप्तभङ्गी प्रतिभङ्ग सकलादेशस्वभावा विकलादेशखभावा च ॥४३॥ प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरमेदवृत्तिप्राधान्यादभेदोपचाराद् वा यौगपद्येन प्रतिपादकं वचः सकलादेशः ॥४४॥ तद्विपरीतस्तु विकलादेश" ॥४५॥
तिपालकानयादेशादेकस्यातिपर्यायार्थिकनयादेशान् तदभिन्नतया
उक्तदिशा सप्तभङ्गीव्यवस्थितौ चेत्यर्थः । तत्रैव प्रमाणनयतत्त्वालोकालङ्कार एव, उक्तमिति शेषः। सकलादेशः कः? इत्यपेक्षायामाहप्रमाणेति । 'स्यादस्त्येव घटः' इति भङ्गोऽस्तित्वधर्मात्मकवस्तुन एव प्रतिपादको नानन्तधर्मात्मकवस्तुन इत्यत आह-कालादिभिरिति । द्रव्यार्थिकनयादेशादेकस्यास्तित्वादिधर्मस्य नास्तित्वादिधर्मैः सह कालादिभिरभेदवृत्तिप्राधान्यात् , पर्यायार्थिकनयादेशाद् धर्माणामभेदवृत्तेरसम्भवेनाभेदोपचाराश्रयणाद् वा, एकधर्मप्रतिपादने तदभिन्नतयाऽशेषधर्मप्रतिपादकत्वसम्भवेन यौगपद्येनानन्तधर्मात्मकवस्तुनः प्रतिपादकं 'स्यादस्त्येव घटः' इत्यादिकं वचनं सकलादेशः। तद्विपरीतस्त्विति । सकलादेशविपरीतस्तु, कालादिभिर्भेदवृत्तिप्राधान्याद् भेदोपचाराद् वा क्रमेण वस्त्वेकदेशप्रतिपादकं वचो विकलादेश इत्यर्थः । अयमभिप्रायः- घटे यत्कालेऽस्तित्वं समस्ति तत्काल एव नास्तित्वादिकमपीत्येककालाः सर्वेऽपि धर्माः, तेषां च कालेन सह कथञ्चिदभेदे तदभिन्नाभिन्नस्य तदभिन्नत्वमिति नियमेनास्तित्वाभिन्नकालाभिन्ननास्तित्वादेरस्तित्वाभिन्नत्वमिति 'स्थादस्त्येव' इति वाक्यमस्तित्वप्रतिपादकं सद् अस्तित्वाभिन्नाशेषधर्मप्रतिपादकमित्यस्तित्वाद्यनन्तधर्मात्मकवस्तुप्रतिपादकमित्यतः सकलादेशः । एवं 'स्यान्नास्त्येव' इत्यादिभङ्गा अपि सकलादेशाः । तथाऽस्तित्वस्य घटधर्मत्वं यदात्मरूपं तदेव नास्तित्वादीनामपीत्यस्तित्वा