________________
सप्तभङ्गी - नयप्रदीपप्रकरणम् ।
२३
के पुनः कालादयः ?, कालः, आत्मस्वरूपम्, अर्थः, सम्बन्धः, उपकारः, गुणिदेशः, संसर्गः, शब्द इत्यष्टौ । सङ्ग्रहश्व
"काला - ssत्मरूप - सम्बन्धाः, संसर्गोपक्रिये तथा । गुणिदेशार्थ - शब्दाचेत्यष्टौ कालादयः स्मृताः” ॥ १ ॥ विशेषार्थजिज्ञासुभिः स्याद्वादरत्नाकरे लघुवृत्तौ च द्रष्टव्यमिति ॥
इति सप्तभङ्गीसमर्थनः प्रथमः सर्गः ॥
भिन्नात्मरूपाभिन्नत्वान्नास्तित्वादीनामस्तित्वाभिन्नत्वमित्येवमप्यस्तित्वप्रतिपादने तदभिन्नत्वान्नास्तित्वादिप्रतिपादनमपीत्यस्तित्वाद्यनन्तधर्मात्मकवस्तुप्रतिपादकत्वाद् भवति 'स्यादस्त्येव' इति भङ्गः सकलादेशः । एवं 'स्यान्नास्त्येव' इत्यादिभङ्गा अपि ज्ञेयाः । एवमर्थादिद्वारकान्तित्वाद्यशेषधर्माभेदभावतः सकलादेशता 'स्यादस्त्येव' इत्यादिभङ्गानां भावनीया ! यः कालादिरस्तित्वस्य स न नास्तित्वादेः, अस्तित्वादिपर्यायाणां भेदे तत्कालादेरपि भिन्नत्वाद्, इत्यस्तित्वात्मकै कधर्मप्रतिपादकमेव 'स्यादस्त्येव' इति वचनम्, तथा 'स्यान्नास्त्येव' इत्यादिवचनमपीति धर्माणां द्रव्यार्थिकनया देशाद् भेदोपचारात् पर्यायार्थिकनया देश द् भेदवृत्तिप्राधान्याद् वा एकैकधर्ममात्रप्रतिपादकत्वात् 'स्यादस्त्येव' इत्यादिभङ्गा विकलादेशा इति । विशेषजिज्ञासुभिरेतत्स्वरूपावगतये स्याद्वादरत्नाकरतदवतारिके विलोकनीये, ग्रन्थगौरवभयान्नात्र विस्तरतः सकलादेशविकलादेशौ भावितावित्युपदिशति - विशेषार्थजिज्ञासुभिरिति । तदयमत्रेत्थं सप्तभङ्गीस्वरूपनिष्कर्षः - प्रतिपाद्यपुरुषसंशया-ज्ञान- विप्रतिपत्त्यपाकरणाय प्रमाणवाक्यमुच्चारयन्ति प्रेक्षादक्षा वक्तारः, येन च वाक्येन
.