________________
૪૮
बालवोधिनीविवृतिविभूषितं पुद्गलस्यापि व्यणुकादयो विभावद्रव्यव्यञ्जनपर्यायाः १ । रसरसान्तरगन्धगन्धान्तरादयो विभावगुणव्यञ्जनपर्यायाः २ । अविभागिपुद्गलपरमाणवः स्वभावद्रव्यव्यञ्जनपर्यायाः ३। वर्णगन्धरसैकैकाविरुद्धस्पर्शद्वये च स्वभावगुणव्यञ्जनपर्यायाः ४ ।
अथ पुद्गलस्य ते उपदर्श्यन्ते-पुद्गलस्यापीति । विभावद्रव्यव्यञ्जनपर्याया इति-व्यणुकादयो भूत्वा न सर्वदाऽवतिष्ठन्त इति पुद्गलद्रव्यस्य विभावाः, अथ च घ्यणुकादिसंज्ञानिमित्ततामुपयान्तीति विभावद्रव्यव्यञ्जनपर्याया व्यणुकादयः १ । विभावगुणव्यञ्जनपर्याया इति-रस-गन्धादिगुणस्य रसान्तर-गन्धान्तरादिभावेन परिणमनं गुणपर्यायाः, ते च परावर्तन्त इति विभावाः, अथ च मधुरादिसंज्ञानिमित्ततामुपयान्तीति व्यञ्जनस्वभावा इति भवन्ति रसरसान्तर-गन्धगन्धान्तरादयो विभावगुणव्यञ्जनपर्याया इति २ । स्वभावद्रव्यव्यञ्जनपर्याया इति-पुद्गलद्रव्यस्य तु परमाणवो नियमेनानुस्यूता एव, यद्यप्येके परमाणवो व्यपगच्छन्ति अन्ये समागच्छन्ति तथाऽपि परमाणुसामान्यं पुद्गलाविभक्तमवतिष्ठत इति अविभागिपुद्गलपरमाणवः पुद्गलस्य स्वभावाः, अथागमनव्यपगमनादिपरिणामासादनात् पर्यायाः, परमाणुसंज्ञानिमित्तत्वाद् व्यञ्जनात्मका इति स्वभावद्रव्यव्यञ्जनपर्याया भवन्ति अविभागिपुद्गलपरमाणव इति ३ । स्वभावगुणव्यञ्जनपर्याया इति-एको वर्ण एको गन्ध एको रसः स्पर्शद्वयं चाविरुद्धमिति पुद्गले नियमेनावतिष्ठन्त इति वर्णादिगुणस्वभावोऽयम् , अन्यान्यभावेन परिणमतीति पर्यायः, संज्ञानिमित्ततामुपयान्तीति व्यञ्जनात्मक इति भवन्ति स्वभावगुणव्यञ्जनपर्याया वर्ण-गन्ध-रसैकैका अविरुद्धस्पर्शद्वये