SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ सप्तभङ्गी- नयप्रदीपप्रकरणम् । पर्याया अपि स्वभाव-विभावाभ्यां द्रव्य-गुणाभ्यां च चतुभेदाः, तथाहि खभावद्रव्यव्यञ्जनपर्यायाश्चरमशरीरात किंचिन्यूनसिद्धपर्यायाः १ | स्वभावगुणव्यञ्जनपर्यायाः, यथा जीवस्थानन्तचतुष्टयरूपाः २ | विभावद्रव्यव्यञ्जनपर्याया गत्यादयः ३ । विभावगुणव्यञ्जनपर्याया मत्यादयः ४ । ૪૭ दयः कदाचिदेवात्मनः सम्भवन्तीति ते क्रमभाविनः पर्याया इत्यर्थः । पर्यायाणां चातुर्विध्यमुपदर्शयति- पर्याया अपीति । स्वभावद्रव्यव्यञ्जनपर्याया इति-सिद्धस्य स्वभाव एवैषः, यदुत --चरमशरीरात् किञ्चिन्न्यूनपरिमाणक इति, स च सिद्धपर्यायः सिद्धत्वे सत्येव जात इति क्रमभावित्वात् पर्याय इति, सिद्धो जीवद्रव्यमिति द्रव्यस्यैवैष इति, अनन्तरं सर्वदाऽवतिष्ठत इति सिद्धपदप्रवृत्तिनिमित्तत्वाद् व्यञ्जन इति भवन्तिं किञ्चिन्यून सिद्धपर्यायाः स्वभावद्रव्यव्यञ्जनपर्याया इति १ । स्वभावगुणव्यञ्जन पर्याया इति - अनन्तज्ञानाऽनन्तदर्शनाऽनन्तचारित्राऽनन्तवीर्यस्वभावा ज्ञानादिगुणानामिति, ते उत्तरकालं सर्वदाऽवतिष्ठन्त इति शब्दप्रवृत्तिनिमित्ततामुपयान्तीति व्यञ्जनभूतास्त इति जीवस्याऽनन्तचतुष्टयरूपाः पर्याया भवन्ति स्वभावगुणव्यञ्जनपर्याया इति २। विभावद्रव्यव्यञ्जनपर्याया इति - देवादिगत्यादयो जीवद्रव्यस्य क्रमजन्मान इति पर्यायाः, नोत्तरं तथैवावतिष्ठन्त इति विभावाः, देवादिपदप्रवृत्तिनिमित्ततया व्यञ्जनतामुपयान्तीति भवन्ति गत्यादयो विभावद्रव्यव्यञ्जनपर्याया इति ३ । विभावगुणव्यञ्जनपर्याया इति-मत्यादयो ज्ञानादिगुणस्य पर्यायाः क्रमेण भवन्ति नोत्तरकालं सर्वदाऽवतिष्ठन्ते, अथ च मत्यादिशब्दप्रवृत्तिनिमित्ततामुपयान्तीति ते विभावगुणव्यञ्जनपर्यायाः ४ । इति जीवस्य चतुर्भेदाः पर्याया उपदर्शिताः ।
SR No.008452
Book TitleSaptabhangi Naypradipa Prakarana
Original Sutra AuthorYashovijay Upadhyay
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy