________________
बालवोधिनीविवृतिविभूषितं पूर्वोक्ता अपि षट् हानि-वृद्धिरूपा नर-नारकादिरूपाचह पर्यायशब्देन गृह्यन्ते । पर्यायो हि द्वेधा-सहभाविपर्यायोऽथ च क्रमभाविपर्यायः; तदुक्तम्
“पर्यायो द्विविधः-क्रमभावी सहभावी च, सहभावी गुण इत्यभिधीयते, पर्यायशब्देन तु पर्यायसामान्यस्य स्वव्यक्तिव्यापिनोऽभिधानान्न दोषः" इति ।
तत्र सहभाविनः पर्याया गुणाः, यथाऽऽत्मनो विज्ञानव्यक्तिशत्यादयः । क्रमभाविनः पर्यायास्त्वात्मनः, यथा-सुखदुःख-शोक-हर्षादयः।
शालिनः परिणामाः पर्यायाः के ? इत्यपेक्षायामाह---पूर्वोक्ता अपीति"अनन्ताऽसङ्ख्यात-सङ्ख्यातभाग-गुणवृद्धिभ्याम् , तथाऽनन्ताऽसङ्ख्यातसङ्ख्यातभाग-गुणहानिभ्याम्" इति ग्रन्थेनाभिहिता अपीत्यर्थः । 'नारकादि इत्यादिपदात् तिर्थगमरयोरुपग्रहः। सहभावि-क्रमभाविभेदाभ्यां पर्यायस्य द्वैविध्यं दर्शयति--पर्यायो हि द्वेधेति । तत्र प्राचां सम्मतिमुपदर्शयति-तदुक्तमिति । ननु पर्यायः क्रममाव्येवेति कथं तेन सहभाविनो ग्रहणमित्यत आह~-पर्यायशब्देन विति । स्वव्यक्तिव्यापिनः स्वस्य पर्यायसामान्यस्य पर्यायत्वस्य व्यक्तिः सहभावी क्रमभावी च तव्यापिनः तदुभयानुगतस्य, पर्यायसामान्यस्य पर्यायशब्देनाऽभिधानात् कथनात् , न दोषः नैकस्य पर्यायस्य ग्रहणं किन्तु द्वयोरपि क्रमभावि-सहभाविनोर्ग्रहणमिति पर्यायो द्विविध इत्युपपद्यत इत्यर्थः । तत्र तयोः पर्याययोर्मध्ये । सहभाविपर्यायानुदाहरति-यथेति-विज्ञानव्यक्तिशक्त्यादय आत्मना सहैवावतिष्ठन्त इति गुणाः सन्तस्ते पर्याया इत्यर्थः । क्रमभाविनः पर्यायानुदाहरति-यथेति-वैषयिकसुख-दुःखा