________________
सप्तभङ्गी-नयप्रदीपप्रकरणम् । ऽसावशुद्धद्रव्यार्थिको वा, यथैकस्मिन् समये द्रव्यमुत्पाद-व्ययध्रौव्ययुक्तम् ९ । भेदकल्पनासापेक्षोऽसावशुद्धद्रव्यार्थिको वा, यथाऽऽत्मनो दर्शन-ज्ञानादयो गुणाः १०। उक्ता द्रव्यार्थिकस्य भेदाः ॥
साम्प्रतं पर्यायार्थिकनयं व्याचिख्यासुराह-पयति-उत्पादमुत्पत्तिं [ व्ययं ] विपत्तिं च प्राप्नोतीति पर्यायः, यदुक्तम्
"अनादिनिधने द्रव्ये स्वपर्यायाः प्रतिक्षणम् । उन्मजन्ति निमज्जन्ति कूलकल्लोलवजले" ।।
व्ययसापेक्ष इति । उदाहरति-यथेति । तृतीयं द्रव्यार्थिकस्य दशमं भेदं दर्शयति--भेदकल्पनासापेक्ष इति । उदाहरति—यथेति ॥
इति सप्रभेदद्रव्यार्थिकनयनिरूपणम् ॥ अथ पर्यायार्थिकनयनिरूपणम्
समासतो नयो द्विविधः-द्रव्यार्थिकः पर्यायार्थिकश्च, तत्र प्रथमोद्दिष्टो द्रव्यार्थिक एतावता निरूपितः, अथ क्रमप्राप्तं पर्यायार्थिकनयं निरूपयति—साम्प्रतमिति । पर्याय एवार्थः प्रयोजनमस्यासौ पर्यायार्थिक इति निरुक्तिमाश्रित्य पर्यायार्थिकनयस्वरूपं व्याख्यातुकाम आचार्यों व्युत्पत्तितः पर्यायस्वरूपं तावदाह-पर्येतीति । पर्येतीति पर्यायः, तत्र पर्येतीत्यनेन किमुक्तं भवतीत्यपेक्षायामाह-उत्पादमुत्पत्तिं विपत्तिं च प्रामोतीति । उत्पत्तिं विपत्तिं च य आमोति स पर्याय इत्यत्र प्राचां सम्मतिमुपदर्शयति-यदुक्तमिति । अनादिनिधने उत्पाद-विनाशरहिते द्रव्ये, स्वपर्यायाः द्रव्यस्य परिणामाः, प्रतिक्षणमुन्मजन्ति उत्पद्यन्ते निमजन्ति विनश्यन्ति जले समुद्राद्यात्मनि कूलकल्लोलवत् तटे आगच्छद्विगच्छत्तरङ्गवदित्यर्थः । उत्पाद-विनाश