________________
सप्तमङ्गीनयप्रदीपप्रकरणम् । मतङ्गजान् परिजिघृक्षवः सम्यक् स्वीयसिद्धान्तरहस्सं विजिज्ञासवो वादिमतल्लिकाः सम्यक् तामवश्यमभ्यसन्ति, यदुक्तम्-- "या प्रश्नाद् विधि-पर्युदासभिदया बाधच्युता सप्तधा धर्म धर्ममपेक्ष्य वाक्यरचना नैकाऽऽत्मके वस्तुनि । निर्दोषा निरदेशि देव! भवता सा सप्तभङ्गी यया जल्पन जल्परणाऽङ्गणे विजयते वादी विपक्षं क्षणात्" ॥१॥
- रत्नाकरावतारिका । स्वपक्षसाधनाङ्गत्वात् परपक्षबाधनाङ्गत्वाच्च स्याद्वादवादिनः सप्तमजी सम्यगभ्यस्यन्तीत्याह-दुर्दमेति-दुःखेन दमनं निग्रहः खण्डनं येषां ते दुर्दमाः, दुर्दमाश्च ते परवादिवादमतङ्गजाश्च दुर्दमपरवादिवादमतङ्गजा-स्तान्, परिजिघृक्षवः परितः सर्वतो ग्रहीतुमिच्छवः, परमतखण्डनैकावधाना इति यावत् । सम्यग् यथार्थतया । खीयसिद्धान्तरहस्यं जैन'सिद्धान्ताभिप्रेतम् । विजिज्ञासवो विशेषेण ज्ञातुमिच्छवः । वादिमतल्लिका वादिप्रवराः । सम्यक् समीचीनतया । तां सप्तभङ्गीम् । अभ्यस्यन्ति स्याद्वादसंस्कारदायि भूयः परिशीलयन्ति । सम्यगभ्यस्ता च सप्तभङ्गी सभाक्षोभादिकारणेनाऽप्यप्रतिबद्धप्रचारा वादिपराजयाय जैनराद्धान्तेष्टतत्त्वसमर्थनाय च स्याद्वादिनां भवत्येवेति जिज्ञासिता सा निरूपणाहेति भावः । सप्तभङ्गया वादिविजयहेतुत्वे प्राचीनानुमतिमुपदर्शयति-यदुक्तमिति । या वाक्यरचना प्रश्नात् प्रश्नवशेन तदुत्तररूपतया जायमाना, धर्म धर्ममपेक्ष्य विधि-पयुदासभिदया सप्तधा सप्तप्रकारा, बाधच्युता बाधरहिता, नैकात्मके अनेकान्तात्मके, वस्तुनि धर्मिणि, हे देव! भवता सर्वज्ञेन, निरदेशि प्रत्यपादि, सा सप्तभङ्गी भण्यते, जल्परणाङ्गपणे जल्पकथात्मकसंग्रामभूमौ, यया सप्तभझ्या, जल्पन वादी विपक्ष प्रतिवादिनम् , क्षणात झटिति विजयत इत्यर्थः । प्रमाणवाक्यं सप्तभङ्गीस्वरूपतामासादयदेव खीयार्थ