________________
बालबोधिनीविवृतिविभूषितं
अथ सप्तभङ्गी प्रारभ्यते । जैनानां तावत् सप्तभङ्गी विजिज्ञासितव्या, सैव तेषां प्रमाणभूमिमारचयति । दुर्दमपरवादिवाद
सप्तभङ्ग-नयविस्तरकथनप्रतिज्ञायां
सप्तभङ्गाऽऽत्मकमहावाक्यरूपसप्तभन्या निरूपणस्य प्राथम्यं मनसिकृत्य तामधिकरोति - अथेति । एकान्तवादिमते विधि-निषेधयोः परस्परं विरुद्धयोर्नैकस्मिन् समावेश इति विधि - निषेधप्रतिपादकभङ्गद्वयस्याभावे नास्त्येव सप्तभङ्गीति तज्जिज्ञासाया अप्यभावान्नैकान्तवादिजिज्ञासितव्यत्वं सप्तभङ्गयाः, तथाऽप्यनेकान्तवादिमतेऽनन्तधर्मात्मके वस्तुनि एकैकधर्ममभिमुखीकृत्य विधि - निषेध - कल्पनया सप्तानां धर्माणां सम्भवे तत्प्रतिपादकसप्तभङ्गसमूहाऽऽत्म कसप्तभङ्गीत एव निराकाङ्क्षार्थावबोध इति तत्प्रभवसंस्कारमाहात्म्यतः प्रमाणान्तरेऽप्यनेकान्तात्मार्थाध्यवसायस्योल्लेखः सप्तभङ्गपरिकर्मित इति तत एव प्रामाण्यावसितिः, अन्यथा स्याद्वादिनां निराकाङ्क्षबोध एव न भवेदिति सप्तभङ्गी जिज्ञासितव्येत्याह - जैनानामिति । सप्तभङ्गघाः फलवत्त्वे सत्येव तज्जिज्ञासा प्रेक्षावतां स्याद्, अतस्तस्याः सकलप्रमाणविषयोल्लेखशेखरत्वेन प्रमाणमूर्धाभिषिक्तत्वादुपादेयत्वमित्याह - सैवेति । सप्तभयेवेत्यर्थः । तेषां जैनानाम् । प्रमाणभूमिं प्रमाणभावम् । आरचयति व्यवस्थापयति, सप्तभङ्गीत एव खखप्रतिनियत निमित्तापेक्षायाsविरोधेन विधि - निषेधादिलक्षणधर्मव्यवस्थितौ तथा तत्तद्धर्मावगाहिबोधस्वरूपस्य प्रमाणस्य प्रमाणत्वं सम्यग् व्यवस्थितं भवति, अन्यथा स्वस्व - निमित्तभेदाप्रतिसन्धानतोऽवधारणमेव विरोधाघातत्वान्न भवेदिति न कस्यापि प्रमाणस्य प्रामाण्यं व्यवतिष्ठेत, एकान्तवादिनस्तु न विरुद्धधर्मद्वयसन्निपात इति न निमित्त मेदापेक्षेति न सप्तभङ्गी जिज्ञासितव्येति भावः ।