________________
सप्तभङ्गी - नयप्रदीपप्रकरणम् ।
एतस्यार्थः - सङ्केताद् व्याकरणात् प्रकृति - प्रत्ययसमुदायेन सिद्धः काल-कारक-लिङ्ग-सङ्ख्या-पुरुषोपसर्गभेदेनार्थं पर्यायमात्रं प्रतीयते स शब्दनयः । कालभेदे उदाहरणम् - " यथा बभूव भवति भविष्यति सुमेरुरित्यादिः " ॥
९१
-- [ प्रमा० परि० ७ सूत्रम् - ३३ ] अत्र कालत्रयविभेदात् सुमेरोरपि भेदत्वं शब्दनयेन प्रतिपाद्यते, द्रव्यत्वेन त्वभेदोऽस्योपेक्ष्यते । कारकभेदे उदाहरणम् करोति
र्गाणां परिग्रहः । ध्वनेः शब्दस्य । एतस्यार्थः 'कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः' इति लक्षणवाक्यस्यार्थः । सिद्धः शब्द इति दृश्यम् । प्रतीयत इति स्थाने प्रत्याययतीति पाठो युक्तः, प्रत्येतीति पाठो वा, 'प्रतीयते' इति पाठप्रामाण्ये तु पर्यायमात्रं प्रति इयते इति छेदः, तस्य प्रतिपादकत्वेन पर्यायमात्रं प्रति गच्छतीत्यर्थः । कालभेदेन भिन्नार्थप्रतिपादकमुदाहरति- कालभेदे उदाहरणमिति - ' बभूव मेरुः ' इति शब्दप्रतिपाद्यो मेरुरन्यः ' अन्यश्च भवति मेरुः' इतिशब्द प्रतिपाद्यः, तदन्यश्च 'भविष्यति मेरुः' इतिशब्दप्रतिपाद्यः शब्दनये, भूत-भविष्यद्वर्तमानकालानां मेरुसम्बन्धिनां भेदे मेरोरपि भेद इति । अत्र बभूव भवति भविष्यति मेरुरित्यत्र य एव मेरुर्बभूव स एव भवति भविष्यति चेति द्रव्यत्वेन तस्यैक्यं समस्ति परं शब्दनयस्तत्र गजनिमीलिकामवलम्बत इत्याह — द्रव्यत्वेनेति ।
कारकभेदेऽर्थ भेदप्रतिपादकं शब्दनयमुदाहरति- कारकभेदे उदाहरणमिति - 'करोति कुम्भम्' इति कर्तृप्रत्ययस्थले द्वितीयान्तपदप्रतिपाद्यात् कुम्भात् 'क्रियते कुम्भः' इति कर्मप्रत्ययस्थलीयप्रथमान्तपदप्रतिपाद्यः कुम्भोऽन्य एव शब्दनयेन प्रतीयत इति ।